संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|सप्तर्चोनाम चतुर्थ काण्डः| ३६ ते ४० सप्तर्चोनाम चतुर्थ काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० चतुर्थ काण्डः - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६मन्वे वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममिता योजनानि । प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥प्रतिष्ठे हि बभूवथुर्वसूनां प्रवृद्धे देवी सुभगे उरूची ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥ये स्रोत्या बिभृथो ये मनुष्यां ये अमृतं बिभृथो ये हवींषि ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥ये उस्त्रिया बिभृथो ये वनस्पतीनं ययोर्वाँ विश्वा भुवनान्यन्त: ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥ये कीलालैस्तर्पयथो ये घृतेन याभ्यां नर्ते किञ्चन शक्नुवन्ति ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥असन्तापे सुतपसा हुवे वामुर्वी गभीरे कविभिर्नमस्ये ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥यन्मेदमभिशोचति येन वा येन वा कृतं पौरुषेयं न दैव्यम् ।स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥३७भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वाँ विश्वं यदिदं वितिष्ठते । यावीशाते अस्य द्विपदो यश्चतुष्पदस्तौ नो मुञ्चतमंहस: ॥१॥ययोरभ्यध्व उत यद् दूरे चिद् यौ विदिताविषुभृतामसिष्ठौ ।भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहस: ॥२॥ययोर्वधान्नापपद्यते किञ्चनान्तर्देवेषूत मानुषेषु ।भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥३॥यावारेभाते बहु साकमुग्रौ प्र चेदस्राष्ट्रमभिभां जनेषु । वहुभवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥४॥सहस्राक्षौ वृत्रहणा हुवे वां दूरेहेती स्वनेमी उग्रौ ।भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥५॥यः कृत्याकृद्यातुधानो महालो नि तस्मिन् हतमधि वज्रमुग्रौ ।भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥६॥अधि मे ब्रूतं पृतनासूग्रौ सं वज़ेण सृजतं यत् किमीदि ।स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥३८मन्वे वां मित्रावरुणावृतावृधौ सत्यौजसौ द्रुह्वाणं यौ नुदेथे । यौ सत्यावानमवथो हवेषु तौ नो मुञ्चतमंहसः ॥१॥सत्यौजसौ द्रुह्वाणं यौ नुदेथे प्र सत्यावानमवथो हवेषु ।यौ गच्छथो नृचक्षसा बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥यावङ्गिरसो ऽवथो यावगस्तिं मित्रावरुणा जमदग्निमत्रिम् ।यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥यौ भरद्वाजमवथो वध्र्यश्वं विश्वामित्रं वरुण मित्र कुत्सम् ।यौ कक्षीवन्तमवथ: प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥४॥यौ श्यावाक्षमवथो यौ गविष्ठिरं मित्रावरुणा पुरुमीढ़मत्रिम्।यौ विमदमवथः सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥५॥यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणा उशनं काव्यं यौ।यौ मुद्गलमवथो गोतमं च तौ नो मुञ्चतमंहसः ॥६॥ययो रथः सत्यवर्त्मर्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥३९इन्द्रस्य मन्वे शश्वद्यस्य मन्विरे वृत्रघ्न स्तोमा उप मेममागुः । यो दाशुष: सुकृतो हवमेता स नो मुञ्चत्वंहसः ॥१॥यश्चर्षणिप्रो वृषभः स्वर्विद् यस्य ग्रावाणः प्रवदन्ति नृम्णे ।यस्याध्वर: सप्तहोता मदच्युत् स नो मुञ्चत्वंहसः ॥२॥य उग्राणामुग्रबाहुर्यजुर्यो दानवानां बलमाससाद ।येन जिताः सिन्धवो येन गाव: स नो मुञ्चत्वंहसः ॥३॥यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे।यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुवन्तं गविष्टौ ।यस्मिन्नर्क: शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥५॥य उत्तमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबद्धम् ।येनोद्यतो वज्रोभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥यः संग्रामान्नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥४०शुनं वत्सानपा करोमि शुनं बध्नामि तन्त्याम् ।आग्रयणं ब्रह्मणां हविस्तस्मिन् जागार कश्यपः ॥१॥बाहुं वत्समुपनयन् पात्रे गां दुहन्नब्रवीत् ।अरिष्टं ब्रह्मभ्यो हविः शिवं कृणोतु कश्यपः ॥२॥त्रयस्तिष्ठन्ति सुकृतस्य लोके त्रयो ऽतीकाशास्त्रीणि शीर्षाण्येषाम् ।त्रयस्तिष्ठन्ति परिगृह्य कुम्भीं यथा हविः कश्यप न व्यथातै ॥३॥सत्यात् सम्भूतो वदति तण्डुलान् क्षीर आवपन् ।ऋषिर्ब्रह्मभ्य आग्रयणं नि वेदयतु कश्यपः ॥४॥ऋतुमुखे चन्द्रभाग: पात्र ओदनमुद्धरात् ।प्राश्नन्तु ब्रह्माणो हविर्यथा वेदेन कश्यपः ॥५॥ये भूतान्यसृजन्त ये भूतान्यकल्पयन् ।सर्वस्य विद्वानध्वर्युः षण्णां भवतु कश्यप: ॥६॥शिवा आपो वत्सेभ्यः शिवा भवन्त्वोषधीः ।वातो वत्सेभ्य: कश्यप: शिव: शिवं तपतु सूर्यः ॥७॥(इति सप्तर्चोनामचतुर्थकाण्डेऽष्टमो ऽनुवाकः)ड़्त्यथर्ववेदे पैप्पलादसंहितायां सप्तर्चोनाम चतुर्थ: काण्डः समाप्तः | N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP