११
येनाचरदुशना काव्योग्रे विद्वान् क्रतूनामुत देवतानाम् ।
सहृदयेन हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम् ॥१॥
महत् सत्यं महद्धविरुशना काव्यो महान् ।
देवानामुग्राणां सतां हृदयानि सहाकरम् ॥२॥
अहं सत्येन सयुजा चराम्यहं देवीमनुमतिं प्र वेद ।
इन्द्रो देवानां हृदयं वो अस्तु सध्रीचीनं वो मनो ऽस्तूग्रम् ॥३॥
त्वष्टा वायुः कश्यप इन्द्रमग्निर्मनसान्वायन् हविषस्पदेन ।
अविन्दञ्छक्रं रजसि प्रविष्टं सध्रीचीनं वो मनो ऽस्तूग्रम् ॥४॥
येनेमे द्यावापृथिवी विचष्कभुर्येनाभवदन्तरिक्षं स्वर्यत् ।
मनसा विद्वान् हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम् ॥५॥
द्यावापृथिवी हृदयं ससूवतुर्येनेदं त्वष्टा विकृणोति धीर: ।
तस्योशना क्रतुभिः संविदानश्चित्तं विवेद मनसि प्रविष्टम् ॥६॥
चित्तं चैतदाकृतिश्च येन देवा विषेहिरे ।
एतत् सत्यस्य श्रद्धव्य ऋषयः सप्त जुह्वति ॥७॥

१२
त्वया मन्यो सरथमारुजन्तो हर्षमाणासो हृषिता मरुत्वन् ।
तीक्षणेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥
अग्निरिव मन्यो तरसा सहस्व सेनानीर्नः सहुरे हूत एधि ।
जित्वाय शत्रून् वि भजासि वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥
सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन्नेहि शत्रून् ।
उग्रं ते शर्धो नन्वा रुरुन्ध्र वशी वशं नयासा एकज त्वम् ॥३॥
एको बहूनामसि मन्यवीड़िता पशून्पशून् युद्धाय सं शिशाधि।
अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥४॥
विजेषकृदिन्द्र इवानवब्रवो ऽस्माकं मन्यो अधिपा भवेह । वव्रवो
प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूविथ ॥५॥
आभूत्या सहसा वज्र सायक सही बिभर्ष्यभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तं वरुणश्च मन्यो ।
भियो दधाना हृदयेषु शत्रवः पराजिता यन्तु परमां परावतम् ॥७॥

१३
शं नो देवी पृश्निपर्ण्यशं निर्ऋतये करत्।
उग्रा हि कण्वजम्भनी तां त्वाहार्षं सहस्वतीम ॥१॥
सदान्वाघ्नी प्रथमा पृश्निपर्ण्यजायत ।
तया कण्वस्याहं शिरश्छिनद्मि शकुनेरिव ॥२॥
ऊर्जभृतं प्राणभृतं प्रजानामुत तर्पणीम् ।
सर्वास्ताः पृश्निपर्णीत: कण्वामा अनीनशत् ॥३॥
समाकृत्यैना निरज तीक्ष्णशृङ्ग इव ऋषभः ।
अरायं कण्वं पाप्मानं पृश्निपर्णि सहस्वति ॥४॥
त्वमग्रे पृश्निपर्ण्यग्निरिव प्रदहन्निहि कण्वा जीवितयोपनी ।
गिरिमेना आ वेशय तमसि यत्र गच्छांस्तत् पापीरपि पादय ॥५॥
अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
गर्भादं कण्वं नाशय पृश्निपर्णि सहस्वति ॥६॥
या नो गा या नो गृहां या नः स्फातिमुपाहरान्।
ता उग्रे पृश्निपर्णि त्वं कण्वामा नीनश इत: ॥७॥

१४
यस्मिन्नाशीः प्रतिहित इदं तच्छल्यो वेणुर्वेष्टनं तेजनं च ।
सूनुर्जनित्रीं जनयेहि शूण्वन्नयं त आत्मेत इत प्रहितः ॥१॥
अस्थि भित्त्वा यदि मज्ज्ञः प्रपाथ यदि वासि रत: पुरुषन्तिकामे ।
उर्वी गव्यूतिमभ्येह्यर्वाङ् पश्चा रश्मीनुद्यतः सूर्यस्य ॥२॥
मातरिश्वा पवमानस्त्वायं सूर्य आाभ्राजन् तन्वा दृशे ऽक: ।
अस्नो गन्धात् पुवसः प्र च्यवस्व वि मुच्यस्व योन्या या ते अत्र ॥३॥
प्र च्यवस्वातो अध्येह्यर्वाङ अर्थास्ते विद्म बहुधा बहिर्थे ।
इमा: स्वसारो अयमित् पिता त इयं ते मातेममेहि बन्धुम् ॥४॥
अमित्रैरस्ता यदि वासि मित्रैर्देवैर्वा देवि प्रहितावसृष्टा ।
विद्वान् शृङ्गं पुरुषे जहाथ वाणः शृङ्गः शिखरः सं सतामितः ॥५॥
सिखासु सक्तो यदि वास्यग्रे यदि वासि सक्तः पुरुषस्य मांसे ।
दधिर्न पाशाङ् अपवृह्य मुक्त्वाक्षिशल्यः कृणुतामायनाय ॥६॥
हस्ताद्धस्तं समयो भ्रियमाणो बहिष्ट्वा पश्यां वीरुधां बलेन ।
अद्भिः प्रणिक्तः शयासा अभ्यक्तः कोशे जामीनां निहितो अहिंसः ॥७॥
षष्टिरात्रे षष्टिकस्य शल्यस्य परिधिष्कृतः ।
इतस्तमद्य ते वयमास्थानाच्च्यावयामसि ॥८॥

१५
सं मज्जा मज्ज्ञा भवतु समु ते पुरुषा परुः ।
सं ते राष्ट्रस्य विस्रस्तं सं स्नाव समु पर्व ते ॥१॥
मज्जा मज्ज्ञा सं धीयतामस्थ्नास्थ्यपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना चर्मणा चर्म रोहतु ॥२॥
लोम लोम्ना सं धीयतां त्वचा सं कल्पया त्वचम्।
असृक्ते अस्ना रोहतु मांसं मांसेन रोहतु ॥३॥
रोहिणी संरोहिण्यस्थ्न: शीर्णस्य रोहिणी ।
रोहिण्यामह्नि जातासि रोहिण्यस्योषधे ॥४॥
यदि शीर्णं यदि द्युत्तमस्ति पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात् सं दधत् परुषा परुः ॥५॥
यदि वज्रो विसृष्टस्त्वार काटात् पतित्वा यदि वा विरिष्टम्।
वृक्षाद् वा यदवसद्दशशीर्ष ऋभू रथस्येव सं दधामि ते परुः ॥६॥
उत्तिष्ठ प्रेहि समिधाय ते परुः सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर्यथैति सुखः सुनाभिः प्रति तिष्ठ एवम् ॥७॥
(ड्रति सप्तर्चोनाम चतुर्थकाण्डे तृतीयो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP