संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|सप्तर्चोनाम चतुर्थ काण्डः| १ ते ५ सप्तर्चोनाम चतुर्थ काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० चतुर्थ काण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतामुं तस्मै देवाय हविषा विधेम ॥१॥य ओजोदा बलदा यश्च विश्व उपासते प्रशिषं यस्य देवा: ।यस्य च्छायामृतं यस्य मृत्युस्तस्मै देवाय हविषा विधेम ॥२॥यः प्राणतो निमिषतो विधर्ता पतिर्विश्वस्य जगतो बभूव ।य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै देवाय हविषा विधेम ॥३॥येन द्यौरुग्रा पृथिवी च दृढ़ा येन स्वः स्तभितं येन नाकः ।यो अन्तरिक्षं विममे वरीयस्तस्मै देवाय हविषा विधेम ॥४॥य इमे द्यावापृथिवी तस्तभानाधारयदवसा रेजमाने ।यस्मिन्नधि वितत एति सूर्यस्तस्मै देवाय हविषा विधेम ॥५॥यस्य विश्वे हिमवन्तो महित्वा समुद्रं यस्य रसया सहाहुः ।दिशो यस्य प्रदिशः पञ्च देवीस्तस्मै देवाय हविषा विधेम ॥६॥आपो ह यस्य विश्वमायुर्दधाना गर्भं जनयन्त मातरः ।तत्र देवानामधि देव आस्त एक स्थूणे विमिते दृढ़ उग्रे ॥७॥आपो गर्भ जनयन्तीर्वत्समग्रे समैरयन्तस्योत जायमानस्योल्ब आसीद्धिरण्यय: ॥८॥हिरण्य उल्ब आसीद् योग्रे वत्सो अजायत ।तं योन्योर्विद्रवन्त्योः पर्यपश्यद् दितिर्मही ॥९॥२भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।स ते मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम् ॥१॥अभि प्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा ।आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियं वसानश्चरति स्वरोचिः ।महत्तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥एना व्याघ्रं परिषस्वजाना: सिंहं हिन्वन्ति महते सौभगाय ।महिषं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्त: ॥४॥व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।विशास्त्वा सर्वा आयन्त्वापो दिव्या: पयस्वती: ॥५॥या आपो दिव्याः पयसा मदन्ति या अन्तरिक्ष उत पार्थिवा याः ।तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥६॥अभि त्वा वर्चसा सिचं दिव्येन पयसा सह ।यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥७॥३यत्ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु ।यस्मिन् सूर्या आर्पिताः सप्त साकं तस्मिन् राजानमधि विश्रयेमम् ॥१॥येभिः शिल्पैः पप्रथानामदृंहो येभिर्दिवमभ्यपिंशः प्रविद्वान् ।येभिर्वाचं पुष्कलैरव्ययस्तेन माग्ने वर्चसा सं सृजेह ॥२॥येभिः सूर्य आतपति प्रकेतुभिर्येभिरग्निर्ददृशे चित्रभानुः ।येभिरापश्चन्द्रवर्णा अजिन्वन् तेन माग्ने वर्चसा सं सृजेह ॥३॥आयं भातु प्रदिशः पञ्च देवीरिन्द्र इव ज्येष्ठो भवतु प्रजानाम् ।अस्मिन् धेहि पुष्कलं चित्रभान्वयं पृणातु रजसोरुपस्थम् ॥४॥अनु त्वेन्द्रोवत्वनु बृहस्पतिरनु त्वा सोमो अन्वग्निरावीत् ।अनु त्वा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः ॥५॥अनु त्वा मित्रावरुणेहावतामनु द्यावापृथिवी ओषधीभिः ।सूर्योहोभिरनु त्वावतु चन्द्रमा नक्षत्रैरनु त्वेदमावीत् ॥६॥द्यौश्च त्वा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा त्वा पिपर्तु।अनु स्वधा चिकितां सोमो अग्निः पूषा त्वावतु सविता सवेन ॥७॥४स्तुवानमग्न आा नय यातुधानं किमीदिनम् ।त्वं हि देवान्तितो हन्ता दस्योर्बभूविथ ॥१॥आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।अग्ने तौलस्य प्राशान् यातुधानान् वि लापय ॥२॥वि लपन्तु यातुधाना अत्रिणो ये किमीदिन: ।अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥अग्निः पुरस्तादा यच्छतु प्रेन्द्रो नुदतु बाहुमान् ।ब्रवीतु सर्वो यातुमानयमस्मीत्येत्य ॥४॥पश्यामि ते वीर्या जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्ष: ।त्वया सर्वे परितप्ताः पुरस्तादा यन्तु प्रब्रुवाणा उपेदम् ॥५॥आ रभस्व जातवेदो हृद: कामाय रन्धय ।दूतो नो अग्निरुत्तिष्ठ यातुधानानिहानय ॥६॥त्वमग्ने यातुधानानुपबद्धानिहा नय ।अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥इदं हविर्यातुधानान्नदी फेनमिवा वहात् ।यदीदं स्त्री पुमानकरिह स स्तुवतां जनः ॥८॥यातुधानस्य सोमप जहि प्रजां नयस्व च ।निष्टुवानस्य पातय परमक्ष्युतावरम् ॥९॥अयं स्तुवान आगमत्तं स्मोत प्रति हर्यत ।बृहस्पते वशे कृथा अग्नीषोमा वि विध्यतम् ॥१०॥५यां त्वा गन्धर्वो अखनद् वरुणाय मितभ्रजे । तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥वृषणस्ते खनितारो वृषा त्वमस्योषधे ।वृषासि वृष्ण्यावती वृषणे त्वा खनामसि ॥२॥उदुषा उदु सूर्य उच्छुष्मा ओषधीनाम् ।उदेजति प्रजापतिवृषा शुष्मेण वाजिना ॥३॥ऊर्ध्वश्राणमिदं कृधि यथा स्म ते विरोहतो अभितप्तमिवानति।ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥४॥अपां रस ओषधीनामथो वनस्पतीनाम् ।अथो सोमस्य भ्रातास्यार्श्यमसि वृष्ण्यम् ॥५॥अश्वस्य ऋश्यस्य बस्तस्य पुरुषस्य च ।य ऋषभस्य वाजस्तमस्मै देह्योषधे ॥६॥सं वाजा ऋषभाणां सं शुष्मा ओषधीनाम् ।सं पूषामिन्द्र वृष्ण्यमस्मै धेहि तनूबलम् ॥७॥अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।अद्या मे ब्रह्मणस्पते धनुरिवा तानया पस: ॥८॥ऊर्ध्वास्तिष्ठन्ति गिरय ऊर्ध्वा वाता उदीरते ।ऊर्ध्वोयं मामको मयूख इवाधि भूम्याम् ॥९॥उत्तिष्ठोग्र वि धूनुष्व वि तेघ्ना यन्तु नाड्यः ।अतन्द्रो अश्वपा इव नावग्लायो ऽधि मुष्कयो: ॥१०॥(ढ्रति सप्तर्चोनामचतुर्थकाण्डे प्रथमोऽनुवाकः) N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP