संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|सप्तर्चोनाम चतुर्थ काण्डः| २१ ते २५ सप्तर्चोनाम चतुर्थ काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० चतुर्थ काण्डः - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१खनन्ति त्वा तैमाता दासा अरसबाहवः ।दास्यसि प्रक्रीरस्युत्खातमरसं विषम् ॥१॥अदन्ति त्वा कक्कटासः कुरुङ्गा अधि सानुषु ।पापी जग्धप्रसूरस्यभ्रिखाते न रुरुपः॥ ॥२॥अव ज्यामिव धन्वनः शुष्मं तिरामि ते विष ।प्र रोपीरस्य पातय सूर्यः पूर्वा इवोषसः ॥३॥सिन्धुः पश्चात् परिहितः सूर्यस्योदयनं पुरः ।ततो यदन्तरा वनं तत् सर्वं विषदूषणम् ॥४॥मधु त्वा मधुकृत् कृणोतु पितुं त्वा पितुकृत् कृणोतु ।उतो निषद्य पातवे अथो ऊर्ध्वाय तिष्ठते ॥५॥जघास त्वा लोमकर्णस्तन्यासपरुरुष्णियाम्।तद्भैमीश्चक्रिरे स्रजः सर्वं महिषदो विषम् ॥६॥उर्व्या उरुक्षितस्तुराया आतुरस्य च ।भूम्या हि जग्रभं नाम विषं वारयतामिति विषं दूषयतादिति ॥७॥२२अहं वा इन्द्रमातरमिन्द्रीजामिन्द्रभ्रातरम् ।इन्द्राधिवक्त्रां वीरुधमाहार्षं विषदूषणीम् ॥१॥यत् किञ्च पद्वच्छफवद् यत् काण्डि यच्च पुष्पवत् ।यदेजति प्रजापतिः सर्वं तद्विषदूषणम् ॥२॥सिन्धुः पश्चाद्धरुणः सूर्यस्योदयनं पुरः ।ततो यदन्तरा विषं तद् वाचा दूषयामसि ॥३॥यावत् सूर्यो वितपति यावच्चाभि विपश्यति ।तावद् विषस्य दूषणं वचो निर्मन्त्रयामहे ॥४॥जिह्वा मे मधुसंस्रावा जिह्वा मे मदुवादिनी ।जिह्वे वर्चस्वती भव माप ते पुरुषो रिषत् ॥५॥हा है कल्याणि सुभगे पृश्निपर्ण्यनातुरे ।इमं मे अद्य पूरुषं दीर्घायुत्वायोन्नय ॥६॥याभ्यो वर्षन्ति वृष्टयो याभिर्जीवन्त्यघ्न्याः ।ता मे विषस्य दूषणीः सविता व्यकाशयत् ॥७॥२३प्रजापतिष्टवा बध्नात् प्रथममस्तृतं वीर्याय कम्। तुल. शौ.सं. १९.४६तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥ऊर्ध्वस्तिष्ठ रक्षन्नप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।इन्द्र इव दस्यूनव धूनुष्व पृतन्यत: सर्वाञ्छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥शतं च नः प्रहरन्तो ऽभिघ्नन्तो न तस्तिरे ।तस्मिन्निन्द्रः पर्यधत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।पुरस्त्वा देवाः प्र णयन्तु सर्वे ऽस्तृतस्त्वाभि रक्षतु ॥४॥अस्मिन्मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्नस्तृते ।पृतन्यादधरः सोऽस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥घृतादुलप्तो मधुमान् पयस्वान् सहस्रं प्राणः शतयोनिर्वयोधाः ।शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥यथा त्वमुत्तरो असो असपत्नः सपत्नहा।सजातानामसो वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥२४अपश्च रपश्चोष्मा च बाष्पश्च ।शोकश्चाभीशोकश्च तृतीयेकश्च परेपरश्च ते तक्मान इतो नश्यत ॥१॥वेद वै ते तक्मन्नामाग्निष्टं नामासि ।तं त्वेतोप नयाम: शनि तक्मा ॥२॥वृत्रस्य हरोसि नभसो नपात् ।द्यौश्चास्मत् पृथिवी च तक्मानं नाशयतामितः ॥३॥पञ्चप्सिनिर्नाम ते माता स उ एकप्सिनिरुच्यसे ।तस्याहं वेद ते नाम स तक्मन् निरतो द्रव ॥४॥औदुम्बलश्च नामासि प्रियातिथिश्च ।तं त्वेतो नाशयामसि ब्रह्मणा वीर्यावता ॥५॥यो ऽसि जल्पश्च लपंश्चावां च तपश्च ।तृतीयेकश्च मौञ्जिगलश्च ते तक्मान इतो नश्यत ॥६॥विकिलीत विलोहित विकाशक्रंदरज्जन ।गिरिं गच्छ धूमकेतो हृषे नमांसि सन्तु ते ॥७॥बृहत् त्वमग्ने रक्षो अधमं जहि मध्यमं न्युत्तमं शृणीहि ।शं नो अग्निर्ज्योतिरनीको अस्तु शं द्यावापृथिवी अनेहसा ॥८॥मातेव पितेवाभि रक्षतैनं मुञ्चतैनं पर्यंहसः ॥९॥२५वाताज्जातो अन्तरिक्षाद् विद्युतो ज्योतिषस्परि । स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥हिरण्यानामेकोसि सोमादधि जज्ञिषे ।रथेसि दार्शत इषुधौ रोचनस्त्वम् ॥२॥यो अग्रतो रोचनावान् समुद्रादधि जज्ञिषे ।शङ्खेन हत्वा रक्षांस्यत्रिणो वि षहामहे ॥३॥ये अत्रिणो यातुधाना रक्षसो ये किमीदिन: ।सर्वां छङ्ख त्वया वयं विषूचो वि षहामहे ॥४॥शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥५॥दिवि जातः समुद्रतः सिन्धुतस्पर्याभृतः ।स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥६॥देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः।तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय च कार्शनस्त्वाभि रक्षतु ॥७॥(इति सप्तर्चोनामचतुर्थकाण्डे पञ्चमोऽनुवाकः) N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP