द्वितीयोध्यायः - चतुर्थः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


तथा प्राणाः ॥१॥
गौण्यसम्भवात् ॥२॥
प्रतिज्ञानुपरोधाच्च ॥३॥
तत्प्राक्श्रुतेश्च ॥४॥
तत्पूर्वकत्वाद्वाचः ॥५॥
सप्त गतेर्विशेषितत्वाच्च ॥६॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥७॥
अणवश्च ॥८॥
श्रेष्ठश्च ॥९॥
न वायुक्रिये पृथगुपदेशात् ॥१०॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥११॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥१२॥
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥१३॥
अणुश्च ॥१४॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥१५॥
प्राणवता शब्दात् ॥१६॥
तस्य च नितयत्वात् ॥१७॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥१८॥
भेदश्रुतेः ॥१९॥
वैलक्षण्याच्च ॥२०॥
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२१॥
मांसादि भौमं यथाशब्दमितरयोश्च ॥२२॥
वैशेष्यात्तु तद्वादस्तद्वादः ॥२३॥

इति ब्रह्मसूत्रेषु
द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः

॥ इति द्वितीयोऽध्यायः॥

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP