द्वितीयोध्यायः - प्रथमः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


स्मृत्यनवकाशदोषप्रसङ्ग इति
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥
इतरेषां चानुपलब्धेः ॥२॥
एतेन योगः प्रत्युक्तः ॥३॥
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥४॥
दृश्यते तु ॥५॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥६॥
दृश्यते च ॥७॥ [पाठभेद: दृश्यते तु]
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥८॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥९॥
न तु दृष्टान्तभावात् ॥१०॥
स्वपक्षदोषाच्च ॥११॥
तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति
चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥१२॥
एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॥१३॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥१४॥
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥१५॥
भावे चोपलब्धेः ॥१६॥
सत्त्वाच्चावरस्य ॥१७॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥१८॥
युक्तेः शब्दान्तराच्च ॥१९॥
पटवच्च ॥२०॥
यथा प्राणादिः ॥२१॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२२॥
अधिकं तु भेदनिर्देशात् ॥२३॥
अश्मादिवच्च तदनुपपत्तिः ॥२४॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२५॥
देवादिवदपि लोके ॥२६॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२७॥
श्रुतेस्तु शब्दमूलत्वात् ॥२८॥
आत्मनि चैवं विचित्राश्च हि ॥२९॥
स्वपक्षदोषाच्च ॥३०॥
सर्वोपेता च तद्दर्शनात् ॥३१॥
विकरणत्वान्नेतिचेत्तदुक्तम् ॥३२॥
न प्रयोजनत्त्वात् ॥३३॥
लोकवत्तु लीलाकैवल्यम् ॥३४॥
वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥३५॥
कर्माविभागादिति चेन्नानादित्वात् ॥३६॥
उपपद्यते चाप्युपलभ्यते च ॥३७॥
सर्वधर्मोपपत्तेश्च ॥३८॥

इति ब्रह्मसूत्रेषु

द्वितीयाध्यायस्य प्रथमः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP