संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्| सप्तत्रिंशोऽध्यायः उत्तरस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः उत्तरस्थानम् - सप्तत्रिंशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता सप्तत्रिंशोऽध्यायः Translation - भाषांतर अथातः कीटलूतादिविषप्रतिषेधं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःसर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाःदोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः ॥१दष्टस्य कीटैर्वायव्यैर्दंशस्तोदरुजोल्बणःआग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् ॥२॥पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथवाकफाधिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः ॥३॥स्रावाढ्यः सर्वलिङ्गस्तु विवर्ज्यः सान्निपातिकैःवेगाश्च सर्पवच्छोफो वर्धिष्णुर्विस्ररक्तता ॥४॥शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदनासर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः ॥५॥वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति ॥६॥दंशः सद्योऽतिरुक् श्यावस्तुद्यते स्फुटतीव चते गवादिशकृत्कोथाद्दिग्धदष्टादिकोथतः ॥७॥सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाःमन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुरमेचकाः ॥८॥रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराःधूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः ॥९॥पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाःअग्न्याभा द्व्येकपर्वाणो रक्तासितसितोदराः ॥१०॥तैर्दष्टः शूनरसनः स्तब्धगात्रो ज्वरार्दितःस्वैर्वमन् शोणितं कृष्णमिन्द्रि यार्थानसंविदन् ॥११॥स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्वलो वेदनातुरःविशीर्यमाणमांसश्च प्रायशो विजहात्यसून् ॥१२॥उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथःसाध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम् ॥१३॥करोति सेकमङ्गानां दंशः शीताम्बुनेव चउष्ट्रधूमः स एवोक्तो रात्रिचाराच्च रात्रिकः ॥१४॥वातपित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराःप्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः ॥१५॥यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ॥१६॥हृत्पीडोर्ध्वानिलस्तम्भः शिरायामोऽस्थिपर्वरुक्घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे ॥१७॥संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यतामांसावदरणं शोफो रक्तपीतश्च पैत्तिके ॥१८॥छर्द्यरोचक हृल्लासप्रसेकोत्क्लेशपीनसैःसशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम् ॥१९॥पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिकेस्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः ॥२०॥पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैःलेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् ॥२१॥कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हितास्वेदालेपनसेकांस्तु कोष्णान् प्रायोऽवचारयेत् ॥२२॥अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोऽथवानृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम् ॥२३॥विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्विषघ्नं च विधिं सर्वं कुर्यात्संशोधनानि च ॥२४॥साधयेत्सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैःतन्दुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥२५॥याति कीटविषैः कम्पं न कैलास इवानिलैःक्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः ॥२६॥मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली ॥२७॥पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ॥२८॥सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा ॥२९॥लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनःसिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा ॥३०॥उपनाहो घृते भृष्टः कल्कोऽजाज्याः ससैन्धवःआदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥३१॥रजनीसैन्धवव्योष शिरीषफलपुष्पजैःमातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ॥३२॥लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वापाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम् ॥३३॥पारावतशकृत् पथ्या तगरं विश्वभेषजम्बीजपूररसोन्मिश्रः परमो वृश्चिकागदः ॥३४॥सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्हिङ्गुना हरितालेन मातुलुङ्गरसेन च ॥३५॥लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहाकरञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च ॥३६॥शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः ॥३७॥तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम् ॥३८॥सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिषीविध्येत्सिरां विदध्याच्च वमनाञ्जननावनम्उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम् ॥३९॥नागरं गृहकपोतपुरीषंबीजपूरकरसो हरितालम्सैन्धवं च विनिहन्त्यगदोऽयलेपतोऽलिकुलजं विषमाशु ॥४०॥अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषेविषेणालेपयेद्दंशमुच्चिटिङ्गेऽप्ययं विधिः ॥४१॥नागपुरीषच्छत्रं रोहिषमूलं च शेलुतोयेनकुर्याद्गुटिकां लेपादियमलिविषनाशनी श्रेष्ठा ॥४२॥अर्कस्य दुग्धेन शिरीषबीजंत्रिर्भावितं पिप्पलिचूर्णमिश्रम्एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरवृश्चिकानाम् ॥४३॥शिरीषपुष्पं सकरञ्जबीजंकाश्मीरजं कुष्ठमनःशिले चएषोऽगदो रात्रिकवृश्चिकानांसंक्रान्तिकारी कथितो जिनेन ॥४४॥कीटेभ्यो दारुणतरा लूताः षोडश ता जगुःअष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः ॥४५॥सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशःबहूपद्र वरूपा तु लूतैकैव विषात्मिका ॥४६॥रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात्नास्ति स्थानव्यवस्था च दोषतोऽत प्रचक्षते ॥४७॥कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सातद्दंशः पैत्तिको दाहतृट्स्फोटज्वरमोहवान् ॥४८॥भृशोष्मा रक्तपीताभः क्लेदी द्रा क्षाफलोपमःश्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः ॥४९॥निद्रां शीतज्वरं कासं कण्डूं च कुरुते भृशम्वातिकः परुषः श्यावः पर्वभेदज्वरप्रदः ॥५०॥तद्विभागं यथास्वं च दोषलिङ्गैर्विभावयेत्असाध्यायां तु हृन्मोहश्वासहिध्माशिरोग्रहाः ॥५१॥श्वेतपीतासितारक्ताः पिटिकाः श्वयथूद्भवःवेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता ॥५२॥श्यावौष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्पक्वजम्बूसवर्णं च दंशात्स्रवति शोणितम् ॥५३॥सर्वाऽपि सर्वजा प्रायो व्यपदेशस्तु भूयसातीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिता ॥५४॥सप्ताहेन दशाहेन पक्षेण च परं क्रमात्लूतादंशश्च सर्वोऽपि दद्रुमण्डलसन्निभः ॥५५॥सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतःमध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः ॥५६॥विसर्पवांश्छोफयुतस्तप्यते बहुवेदनःज्वराशुपाकविक्लेदकोथावदरणान्वितः ॥५७॥क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः ॥५८॥अष्टाभिरुद्वमत्येषा विषं वक्त्राद्विशेतःलूता नाभेर्दशत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः ॥५९॥तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः ॥६०॥सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनिअव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः ॥६१॥द्वितीयेऽभ्युन्नतोऽन्तेषु पिटिकैरिव वाऽचितःव्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः ॥६२॥तृतीये सज्वरो रोमहर्षकृद्र क्तमण्डलःशरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः ॥६३॥महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदःविकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् ॥६४॥षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम्इति तीक्ष्णं विषं मध्यं हीनं च विभजेदतः ॥६५॥एकविंशतिरात्रेण विषं शाम्यति सर्वथाअथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् ॥६६॥दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत्कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसंश्रितम् ॥६७॥प्रसृतं सर्वतो दंशं न छिन्दीत दहेन्न चलेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः ॥६८॥सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैःसर्वतोऽपहरेद्र क्तं शृङ्गाद्यैः सिरयाऽपि वा ॥६९॥सेकलेपास्ततः शीता बोधिश्लेष्मातकाक्षकैःफलिनीद्विनिशाक्षौद्र सर्पिर्भिः पद्मकाह्वयः ॥७०॥अशेषलूताकीटानामगदः सार्वकार्मिकःहरिद्रा द्वयपत्तङ्गमञ्जिष्ठानतकेसरैः ॥७१॥सक्षौद्र सर्पिः पूर्वस्मादधिकश्चम्पकाह्वयःतद्वद्गोमयनिष्पीडशर्करा घृतमाक्षिकैः ॥७२॥अपामार्गमनोह्वाल दार्वीध्यामकगैरिकैःनतैलाकुष्ठमरिचयष्ट्याह्व घृतमाक्षिकैः ॥७३॥अगदो मन्दरो नाम तथाऽन्यो गन्धमादनःनतरोध्रवचाकट्वीपाठैलापत्रकुङ्कुमैः ॥७४॥विषघ्नं बहुदोषेषु प्रयुञ्जीत विशोधनम्यष्ट्याह्वमदनाङ्कोल्लजालिनीसिन्दुवारिकाः ॥७५॥कफे ज्येष्ठाम्बुना पीत्वा विषमाशु समुद्वमेत्शिरीषपत्रत्वङ्मूलफलं वाऽङ्कोल्लमूलवत् ॥७६॥विरेचयेच्च त्रिफलानीलिनीत्रिवृतादिभिःनिवृत्ते दाहशोफादौ कर्णिकां पातयेद् व्रणात् ॥७७॥कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा ॥७८॥मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम्तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम् ॥७९॥राजकोशातकीमूलं किण्वो वा मथितोद्भवःकर्णिकापातसमये बृंहयेच्च विषापहैः ॥८०॥स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्विषस्य वृद्धये तैलमग्नेरिव तृणोलुपम् ८१ह्रीबेरवैकङ्कतगोपकन्यामुस्ताशमीचन्दनटिण्टुकानिशैवालनीलोत्पलवक्रयष्टीत्वङ्नाकुलीपद्मकराठमध्यम् ॥८२॥रजनीघनसर्पलोचना कणशुण्ठीकणमूलचित्रकाःवरुणागुरुबिल्वपाटलीपिचुमन्दामयशेलुकेसरम् ॥८३॥बिल्वचन्दननतोत्पलशुण्ठीपिप्पलीनिचुलवेतसकुष्ठम्शुक्तिशाकवरपाटलिभार्गीसिन्दुवारकरघाटवराङ्गम् ॥८४॥पित्तकफानिललूताः पानाञ्जननस्यलेपसेकेनअगदवरा वृत्तस्थाः कुगतीरिव वारयन्त्येते ॥८५॥रोध्रं सेव्यं पद्मकं पद्मरेणुःकालीयाख्यं चन्दनं यच्च रक्तम्कान्तापुष्पं दुग्धिनीका मृणालंलूताः सर्वा घ्नन्ति सर्वक्रियाभिः ॥८६॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कीटलूतादिविषप्रतिषेधोनाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP