संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
तृतीयोऽध्यायः

उत्तरस्थानम् - तृतीयोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो बालग्रहप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः ॥१॥
स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृसंज्ञितः
शकुनिः पूतना शीतपूतनाऽदृष्टिपूतना ॥२॥
मुखमण्डितिका तद्वद्रे वती शुष्करेवती
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥३॥
सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः
फेनस्रावोर्ध्वदृष्ट्योष्ठ दन्तदंशप्रजागराः ॥४॥
रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्
नखैरकस्मात्परितः स्वधात्र्यङ्गविलेखनम् ॥५॥
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ॥६॥
दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरम्
वक्रवक्त्रो वमन् लालां भृशमूर्ध्वं निरीक्षते ॥७॥
वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः ॥८॥
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद् ध्रुवम्
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः ॥९॥
विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम्
फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम् ॥१०॥
स्तनस्वजिह्वासन्दंश संरम्भज्वरजागराः
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम् ॥११॥
आध्मानं पाणिपादस्य स्पन्दनं फेननिर्वमः
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः ॥१२॥
कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः
ओष्ठदंशाङ्गसङ्कोचस्तम्भबस्ताभगन्धताः ॥१३॥
ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः
मूर्च्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः ॥१४॥
कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम्
बहिरायामनं जिह्वादंशोऽन्तकण्ठकूजनम् ॥१५॥
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः ॥१६॥
कासातिसारवमथुजृम्भा तृट्शवगन्धताः
अङ्गेष्वाक्षेपविक्षेपशोष स्तम्भविवर्णताः ॥१७॥
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे
स्रस्ताङ्गत्वमतीसारो जिह्वातालुगले व्रणाः ॥१८॥
स्फोटाः सदाहरुक्पाकाः सन्धिषु स्युः पुनः पुनः
निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपि वा ॥१९॥
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे
पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः ॥२०॥
हिध्माऽध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः
स्रस्तहृष्टाङ्गरोमत्वं काकवत्पूतिगन्धिता ॥२१॥
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्
तृष्णाऽन्त्रकूजोऽतीसारो वसावद्विस्रगन्धता ॥२२॥
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च
अन्धपूतनया छर्दिर्ज्वरः कासोऽल्पनिद्र ता ॥२३॥
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्
दृष्टेः सादातिरुक्कण्डूपोथकीजन्मशूनताः ॥२४॥
हिध्मोद्वेगस्तनद्वेषवैवर्ण्य स्वरतीक्ष्णताः
वेपथुर्मत्स्यगन्धत्वमथवा साम्लगन्धता ॥२५॥
मुखमण्डितया पाणिपादास्यरमणीयता
सिराभिरसिताभाभिराचितोदरता ज्वरः ॥२६॥
अरोचकोऽङगग्लपनं गोमूत्रसमगन्धता
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम् ॥२७॥
कासहिध्माक्षिविक्षेपवक्र वक्त्रत्वरक्तताः
बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्र वम् ॥२८॥
जायते शुष्करेवत्यां क्रमात्सर्वाङ्गसङ्क्षयः
केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता ॥२९॥
रोदनं गृध्रगन्धत्वं दीर्घकालानुवर्तनम्
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत् ॥३०॥
जिह्वाया निम्नता मध्ये श्यावं तालु च तं त्यजेत्
भुञ्जानोऽन्न बहुविधं यो बालः परिहीयते ॥३१॥
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम् ॥३२॥
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः
क्षतजिह्वः क्वणेद्बाढमसुखी साश्रुलोचनः ॥३३॥
दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते
क्षामो मूत्रपुरीषं स्वं मृद्गाति न जुगुप्सते ॥३४॥
हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथा परम्
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत् ॥३५॥
अप्सु मज्जेत्पतेत्कूपे कुर्यादन्यच्च तद्विधम्
तृड्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत् ॥३६॥
रक्तं च सर्वमार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत्
रहःस्त्रीरतिसंलाप गन्धस्रग्भूषणप्रियः ॥३७॥
हृष्टः शान्तश्च दुःसाध्यो रतिकामेन पीडितः
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः ॥३८॥
शङ्कितं वीक्षते रौति ध्यायत्यायाति दीनताम्
अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते ॥३९॥
गृहीतं बलिकामेन तं विद्यात्सुखसाधनम्
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितः ॥४०॥
इतरौ तु यथाकामं रतिबल्यादिदानतः
अथ साध्यग्रहं बालं विविक्ते शरणे स्थितम् ॥४१॥
त्रिरह्नः सिक्तसंमृष्टे सदा सन्निहितानले
विकीर्णभूतिकुसुमपत्र बीजान्नसर्षपे ॥४२॥
रक्षोघ्नतैलज्वलित प्रदीपहतपाप्मनि
व्यवायमद्यपिशित निवृत्तपरिचारके ॥४३॥
पुराणसर्पिषाऽभ्यक्तं परिषिक्तं सुखाम्बुना
साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः ॥४४॥
पारिभद्र ककट्वङ्गजम्बू वरुणकट्तृणैः
कपोतवङ्कापामार्गपाटला मधुशिग्रुभिः ॥४५॥
काकजङ्घामहाश्वेताकपित्थ क्षीरिपादपैः
सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत् ॥४६॥
द्वीपिव्याघ्राहिसिंहर्क्षचर्म भिर्घृतमिश्रितैः
पूतीदशाङ्गसिद्धार्थवचाभल्लात दीप्यकैः ॥४७॥
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः
सर्षपा निम्बपत्राणि मूलमश्वखुरा वचा ॥४८॥
भूर्जपत्रं घृतं धूपः सर्वग्रहनिवारणः
अनन्ताम्रास्थितगरं मरिचं मधुरो गणः ॥४९॥
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्
दशमूलरसक्षीरयुक्तं तद् ग्रहजित्परम् ॥५०॥
रास्नाद्व्यंशुमतीवृद्धपञ्च मूलबलाघनात्
क्वाथे सर्पिः पचेत्पिष्टैः सारिवाव्योषचित्रकैः ॥५१॥
पाठाविडङ्गमधुक पयस्याहिङ्गुदारुभिः
सग्रन्थिकैः सेन्द्र यवैः शिशोस्तत्सततं हितम् ॥५२॥
सर्वरोगग्रहहरं दीपनं बलवर्णदम्
सारिवासुरभिब्राह्मीशङ्खिनी कुष्ठसर्षपैः ॥५३॥
वचाश्वगन्धासुरसयुक्तैः सर्पिर्विपाचयेत्
तन्नाशयेद्ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ॥५४॥
गोशृङ्गचर्मवालाहिनिर्मोकं वृषदंशविट्
निम्बपत्राज्यकटुकामदनं बृहतीद्वयम् ॥५५॥
कार्पासास्थियवच्छाग रोमदेवाह्वसर्षपम्
मयूरपत्रश्रीवासं तुषकेशं सरामठम् ॥५६॥
मृद्भाण्डे बस्तमूत्रेण भावितं श्लक्ष्णचूर्णितम्
धूपनं च हितं सर्वभूतेषु विषमज्वरे ॥५७॥
घृतानि भूतविद्यायां वक्ष्यन्ते यानि तानि च
युञ्ज्यात्तथा बलि होमं स्नपनं मन्त्रतन्त्रवित् ॥५८॥
पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो बर्बरादपि
तुम्बीविशालारलुकशमीबिल्वकपित्थतः ॥५९॥
उत्क्वाथ्य तोयं तद्रा त्रौ बालानां स्नपनं शिवम्
अनुबन्धान् यथाकृच्छ्रं ग्रहापायेऽप्युपद्र वान् ॥६०॥
बालामयनिषेधोक्तभेषजैः समुपाचरेत् ॥६०॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने बालग्रहप्रतिषेधो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP