संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
चतुर्विंशोऽध्यायः

उत्तरस्थानम् - चतुर्विंशोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः
शिरोभितापेऽनिलजे वातव्याधिविधिं चरेत्
घृतमक्तशिरा रात्रौ पिबेदुष्णपयोनुपः ॥१॥
माषान् कुलत्थान् मुद्गान् वा तद्वत्खादेद्घृतान्वितान्
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥२॥
पिण्डोपनाहस्वेदाश्च मांसधान्यकृता हिताः
वातघ्नदशमूलादिसिद्धक्षीरेण सेचनम् ॥३॥
स्निग्धं नस्यं तथा धूमः शिरःश्रवणतर्पणम्
वरणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत् ॥४॥
क्षीरावशिष्टं तच्छीतं मथित्वा सारमाहरेत्
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥५॥
वर्गेऽत्र पक्वं क्षीरे च पेयं सर्पिः सशर्करम्
कार्पासमज्जा त्वड्मुस्ता सुमनःकोरकाणि च ॥६॥
नस्यमुष्णाम्बुपिष्टानि सर्वमूर्धरुजापहम्
शर्कराकुङ्कुमशृतं घृतं पित्तासृगन्वये ॥७॥
प्रलेपः सघृतैः कुष्ठकुटिलोत्पलचन्दनैः
वातोद्रे कभयाद्र क्तं न चास्मिन्नवसेचयेत् ॥८॥
इत्यशान्तौ चले दाहः कफे चेष्टो यथोदितः
अर्धावभेदकेऽप्येषा तथा दोषान्वयात्क्रिया ॥९॥
शिरीषबीजापामार्गमूलं नस्यं विडान्वितम्
स्थिरारसो वा लेपे तु प्रपुन्नाटोऽम्लकल्कितः ॥१०॥
सूर्यावर्तेऽपि तस्मिंस्तु सिरयाऽपहरेदसृक्
शिरोभितापे पित्तोत्थे स्निग्धस्य व्यधयेत्सिराम् ॥११॥
शीताः शिरोमुखालेपसेकशोधनबस्तयः
जीवनीयशृते क्षीरसर्पिषी पाननस्ययोः ॥१२॥
कर्तव्यं रक्तजेऽप्येतत् प्रत्याख्याय च शङ्खके
श्लेष्माभितापे जीर्णाज्यस्नेहितः कटुकैर्वमेत् ॥१३॥
स्वेदप्रलेपनस्याद्या रूक्षतीक्ष्णोष्णभेषजैः
शस्यन्ते चोपवासोऽत्र निचये मिश्रमाचरेत् ॥१४॥
कृमिजे शोणितं नस्यं येन मूर्च्छन्ति जन्तवः
मत्ताः शोणितगन्धेन निर्यान्ति घ्राणवक्त्रयोः ॥१५॥
सुतीक्ष्णनस्यधूमाभ्यां कुर्यान्निर्हरणं ततः
विडङ्गस्वर्जिकादन्तीहिङ्गुगोमूत्रसाधितम् ॥१६॥
कटुनिम्बेङ्गुदीपीलुतैलं नस्यं पृथक् पृथक्
अजामूत्रद्रुतं नस्यं कृमिजित् कृमिजित्परम् ॥१७॥
पूतिमत्स्ययुतैः कुर्याद् धूमं नावनभेषजैः
कृमिभिः पीतरक्तत्वाद्र क्तमत्र न निर्हरेत् ॥१८॥
वाताभितापविहितः कम्पे दाहाद्विना क्रमः
नवे जन्मोत्तरं जाते योजयेदुपशीर्षके ॥१९॥
वातव्याधिक्रियां पक्वे कर्म विद्र धिचोदितम्
आमपक्वे यथायोग्यं विद्र धीपिटिकार्बुदे ॥२०॥
अरुंषिका जलौकोभिर्हृतास्रा निम्बवारिणा
सिक्ता प्रभूतलवणैर्लिम्पेदश्वशकृद्र सैः ॥२१॥
पटोलनिम्बपत्रैर्वा सहरिद्रैः सुकल्कितैः
गोमूत्रजीर्णपिण्याककृकवाकुमलैरपि ॥२२॥
कपालभृष्टं कुष्ठं वा चूर्णितं तैलसंयुतम्
रुंषिकालेपनं कण्डूक्लेददाहार्तिनाशनम् ॥२३॥
मालतीचित्रकाश्वघ्ननक्तमालप्रसाधितम्
चाचारुंषिकयोस्तैलमभ्यङ्गः क्षुरघृष्टयोः ॥२४॥
अशान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः
विध्येच्छिरां दारुणके लालाट्यां शीलयेन्मृजाम् ॥२५॥
नावनं मूर्द्धबस्तिं च लेपयेच्च समाक्षिकैः
प्रियालबीजमधुककुष्ठमाषैः ससर्षपैः ॥२६॥
लाक्षाशम्याकपत्रैडगजधात्री फलैस्तथा
कोरदूषतृणक्षारवारिप्रक्षालनं हितम् ॥२७॥
इन्द्र लुप्ते यथासन्नं सिरां विध्वा प्रलेपयेत्
प्रच्छाय गाढं कासीसमनोह्वातुत्थकोषणैः ॥२८॥
वन्यामरतरुभ्यां वा गुञ्जामूलफलैस्तथा
तथा लाङ्गलिकामूलैः करवीररसेन वा ॥२९॥
सक्षौद्र क्षुद्र वार्ताकस्वरसेन रसेन वा
धत्तूरकस्य पत्राणां भल्लातकरसेन वा ॥३०॥
अथवा माक्षिकहविस्तिलपुष्पत्रिकण्टकैः
तैलाक्ता हस्तिदन्तस्य मषी चाचौषधं परम् ॥३१॥
शुक्लरोमोद्गमे तद्वन्मषी मेषविषाणजा
वर्जयेद्वारिणा सेकं यावद्रो मसमुद्भवः ॥३२॥
खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत् ॥३३॥
सिद्धं तैलं बृहत्याद्यैर्जीवनीयैश्च नावनम्
मासं वा निम्बजं तैलं क्षीरभुङ्नावयेद्यतिः ॥३४॥
नीलीशिरीषकोरण्टभृङ्गस्वरसभावितम्
शेल्वक्षतिलरामाणां बीजं काकाण्डकीसमम् ॥३५॥
पिष्ट्वाऽजपयसा लोहाल्लिप्तादर्कांशुतापितात्
तैलं स्रुतं क्षीरभुजो नावनात् पलितान्तकृत् ॥३६॥
क्षीरात्साहचराद् भृङ्गरजसः सौरसाद्र सात्
प्रस्थैस्तैलस्य कुडवः सिद्धो यष्टीपलान्वितः ॥३७॥
नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः
क्षीरेण श्लक्ष्णपिष्टौ वा दुग्धिकाकरवीरकौ ॥३८॥
उत्पाट्य पलितं देयावाशये पलितापहौ
क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः ॥३९॥
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः
तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु ॥४०॥
वृंहयेद्र ञ्जयेच्चैतत् केशान् मूर्द्धप्रलेपनात्
मांसी कुष्ठं तिलाः कृष्णाः सारिवा नीलमुत्पलम् ॥४१॥
क्षौद्रं च क्षीरपिष्टानि केशसंवर्धनं परम्
अयोरजो भृङ्गरजस्त्रिफला कृष्णमृत्तिका ॥४२॥
स्थितमिक्षुरसे मासं समूलं पलितं रजेत्
माषकोद्र वधान्याम्लैर्यवागूस्त्रिदिनोषिता ॥४३॥
लोहशुक्लोत्कटा पिष्टा बलाकामपि रञ्जयेत्
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥४४॥
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन च
सर्वान् मूर्धगदान् हन्ति पलितानि च शीलितम् ॥४५॥
वरीजीवन्तिनिर्यासपयोभिर्यमकं पचेत्
जीवनीयैश्च तन्नस्यं सर्वजत्रूर्ध्वरोगजित् ॥४६॥
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्
दशमूलबलारास्नामधुकैस्त्रिपलैर्युतम् ॥४७॥
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्
कल्कितैर्मधुरद्र व्यैः सर्वजत्रूर्ध्वरोगजित् ॥४८॥
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः
एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ॥४९॥
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः ॥५०॥
समङ्गाचविकाभार्गी काश्मरीकर्कटाह्वयैः
आत्मगुप्तामहामेदाताल खर्जूरमस्तकैः ॥५१॥
मृणालबिसखर्जूरयष्टी मधुकजीवकैः
शतावरीविदारीक्षु बृहतीसारिवायुगैः ॥५२॥
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटक कसेरुकैः
रास्नास्थिरातामलकी सूक्ष्मैलाशठिपौष्करैः ॥५३॥
पुनर्नवातवक्षीरीकाकोली धन्वयासकैः
मधूकाक्षोटवाताम मुञ्जाताभिषुकैरपि ॥५४॥
महामायूरमित्येतन्मायूरादधिकं गुणैः
धात्विन्द्रि यस्वरभ्रंशश्वासकासार्दितापहम् ॥५५॥
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्
आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत् ॥५६॥
जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम् ॥५७॥
ऊर्ध्वमूलमधः शाखमृषयः पुरुषं विदुः
मूलप्रहारिणस्तस्माद् रोगान् शीघ्रतरं जयेत् ॥५८॥
सर्वेन्द्रि याणि येनास्मिन् प्राणा येन च संश्रिताः
तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत् ॥५९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने शिरोरोगप्रतिषेधोनाम चतुर्विंशोऽध्यायः ॥२४॥

इति शालाक्यं नाम चतुर्थमूर्ध्वाङ्गमङ्गं सम्पूर्णम्

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP