संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|चतुर्थस्थानम्| षष्ठोऽध्यायः चतुर्थस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः चतुर्थस्थानम् - षष्ठोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता षष्ठोऽध्यायः Translation - भाषांतर आत्रेय उवाचजलौकाश्चतुर्विधाः प्रोक्ता इन्द्रायुधारोहिणी कालिकाधूम्रा चेति ॥१॥नीलवर्णा पार्श्वरक्ता तीक्ष्णमुखी गम्भीरनिर्मलोदके पाषाणसन्धौ च प्रविशतितया विद्रध्युदरदाहशोफमूर्च्छाविषाद्युपद्रवयति ॥२॥नीलवर्णा पार्श्वपीता शङ्कुमुखी पद्मनाले प्रविशतितया विद्रधिविसर्पशोफाद्युपद्रवयति ॥३॥कृष्णा कालिका मत्स्याशये दूरे त्याज्या ॥४॥धूम्रा कपोतमहिषवर्णा पीतोदरी अर्द्धचन्द्रमुखी कर्दमे कलुषोदके प्रविशतिसा रक्तावसेचनयोग्यानिरुपद्रवा च ॥५॥अवस्थानं काञ्जिकेन प्रक्षाल्य नवनीतेन म्रक्षयित्वा उष्णोदकेन प्रक्षालयेत्पश्चात् तत्र जलौकावचारणीया ॥६॥जलौका रक्तपूर्णापश्चात् पातिता ।तस्या मुखं लवणेन मूत्रेण वा प्रक्षालयेत् ।अथवा शनैर्गोस्तनवद्दुह्यते ।पुनर्नवनीतेन मुखमालिप्यावचारणीया ।दुष्टरक्ते विनिर्गते दंशं काञ्जिकेन प्रक्षाल्य घृतमधुनाभ्यज्य वस्त्रेण बध्नीयात् ॥७॥इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थ सूत्रस्थाने जलौकावचारविधिर्नाम षष्ठोऽध्यायः ॥६॥इति सूत्रस्थानं समाप्तम् ॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP