संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|चतुर्थस्थानम्| पञ्चमोऽध्यायः चतुर्थस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः चतुर्थस्थानम् - पञ्चमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता पञ्चमोऽध्यायः Translation - भाषांतर रक्तावसेचनं चतुर्भिः प्रकारैर्भवति ।शिराविरेचनेनापि अलाबुभिस्तथैव च ।श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद् बुधः ॥१॥पूर्वाह्णे चापराह्णे च नात्युष्णे नातिशीतलेयवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् ॥२॥शिरोरोगेषु सर्वेषु नासामध्यपुटे तथाअसृजं रेचयेद्यत्नात्सर्वदा भिषगुत्तमः ॥३॥ललाटमध्ये भ्रुवोरुपरिष्टादंगुलद्वयं त्यक्त्वा शिरां रेचयेत् ।वाह्वोः कूर्परमध्ये शिरां बन्धयेत् ।मणिबन्धसन्धौ अंगुष्ठमूलचतुष्टयमंगुलञ्च विहाय शिरां बन्धयेत् ।नातिपाश्च चतुरंगुलं विहाय शिरां बन्धयेत् ।घुण्टिकां शिरां पादे बन्धयेत् ।अपरमपि ग्रन्थविस्तारभयान्नोक्तम् ।अलाबुशृङ्गै रक्तावसेचनं सर्वैरपि ज्ञातव्यम् ॥४॥सकृष्णं फेनिलं श्यामं रक्तं तद्वातदोषजम्सर्वलक्षणसम्पन्नं विज्ञेयं तत्त्रिदोषजम् ॥५॥इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने रक्तावसेचनविधिर्नाम पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP