चतुर्थस्थानम् - द्वितीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
पाकश्चतुर्विधः प्रोक्तस्तैलानां शृणु पुत्रक
खरचिक्कणमध्यस्तु विशोषी चापरो मतः ॥१॥
दुग्धारनाल क्वाथश्च दधि वा शोषयत्यपि
न चार्द्रता चौषधानां निष्फेनौ विमलस्तु यः ॥२॥
मञ्जिष्ठारससङ्काशो भवेत्सखरपाकगः
वातघ्नः सोऽपि विज्ञेयो मर्दनाभ्यञ्जने हितः ॥३॥
सफेनो मध्य पाकी च द्रवो भवति पिण्डितः
नातिफेनमफेनं वा मध्यपाकं विनिर्दिशेत् ॥४॥
बस्तौ पाने च शस्तञ्च त्रिदोषघ्नं भिषग्वर
सफेनश्चन्द्रभो यस्य भवेत्स्वस्थसमो द्रवः ॥५॥
स च चिक्कणकः पाको नस्ये प्रोक्तो हितः सदा ॥६॥
सधूमश्चातिदग्धश्च दग्धगन्धरसस्तथा
विज्ञेयो वातशोषी च वर्जितः सर्व कर्मसु ॥७॥
मर्दने खरपाकश्च बस्तौ चिक्कणपाकितः
बस्तौ पानेमध्यपाको विशोषी वर्जितस्तथा ॥८॥
पक्षे सिध्यति तैलञ्च सप्ताहे घृतमेव च
कषायः प्रहरेणापि पत्नेनैव प्रसाधयेत् ॥९॥

इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने तैलपाकविधिर्नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP