चतुर्थस्थानम् - प्रथमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
सर्षपस्य चतुर्थांशोऽणुः
चतुःसर्षपैर्माषः
चतुर्माषैर्वल्लः
चतुर्वल्लैः सुवर्णैः कर्षः
चतुःकर्षैः पलम्
चतुः पलैः कुडवः
चतुःकुडवैः प्रस्थः
चतुःप्रस्थैराढकः
चतुर्भिराढकैर्द्रोणः ॥१॥
शुष्काणामौषधानाञ्च मानञ्च द्विगुणं भवेत्
आर्द्राणामथ सर्वेषां विज्ञातव्यस्तुलाविधिः ॥२॥
सप्तभिर्यवशतैः साष्टषष्टिभिः पलं भवति ।
चतुर्भिः पलैः कुडवः ।
चतुर्भिः कुडवैः प्रस्थः ।
प्रस्थैश्चतुर्भिराढकः ।
चतुर्भिराढकैः कंसः ।
द्वेपले प्रसृतिर्भवेत् ॥३॥
मस्तुतैलारनालानां क्षीरमण्डगुड सिता
मधु मद्यं तथा द्राक्षा खर्जूरं गुग्गुलुस्तथा ॥४॥
रसोनलवणानाञ्च ग्रोक्तावर्द्धार्धमानकौ
बिडालपदिकामात्रं कर्षशब्दोऽभिधीयते ॥५॥
वटोदुम्बरमात्रेण पलमौदुम्बरं विदुः
चतुःपलं बिल्वमानं पलेद्वेऽञ्जलिरुच्यते ॥६॥
कुडवं चाञ्जलिद्वे च वक्ष्यमाणं महामते ॥७॥
चतुरंगुलविस्तारं चतुरंगुलमुन्नतम्
काष्ठजं मृन्मयं वापि कुडवं तं विनिर्दिशेत् ॥८॥
चतुःकुडवैः प्रस्थः स्याच्चतुःप्रस्थैस्तथाढकः
चतुराढकः स्याद्द्रोणो मानसंख्या प्रकीर्त्तिता ॥९॥
वमनं च विरेकञ्च प्रदद्यात्कर्षमात्रकम्
सन्तर्पणं पलमात्रं चूर्णं कर्षकमात्रकम् ॥१०॥
क्षारमेव पलार्द्धे च कर्षं चैव हरीतकीम्
पलं रसोनकल्कञ्च पलं गुग्गुलुमेव च ॥११॥
पलञ्च सूरणं कल्कं दापयेच्च सुपण्डितः
अन्यानि चूर्णलोहानि कर्षमात्राणि दापयेत् ॥१२॥
ज्ञात्वा देहबलं सम्यगुत्तमाधममध्यमम्
लेहं चूर्णं कषायं च दापयेद्विधिवत्सुधीः ॥१३॥

इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने तुलामानविधिर्नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP