संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पतज्जलिचरितम् ।| पतज्जलिचरितम् । चतुर्थ: सर्ग: । पतज्जलिचरितम् । पतज्जलिचरितम् । प्रथम सर्ग: । पतज्जलिचरितम् । व्दितीय: सर्ग: । पतज्जलिचरितम् । तृतीय: सर्ग: । पतज्जलिचरितम् । चतुर्थ: सर्ग: । पतज्जलिचरितम् । चतुर्थ: सर्ग: । श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ. Tags : patanjalisanskritपतंजलिसंस्कृत चतुर्थ: सर्ग: । Translation - भाषांतर वासवादिभिरथामरैस्तदा चोदितेन भुवि विश्वकर्मणा ।ताण्डवाय गिरिशस्य निर्मिता तत्र हाटकमयी सभा बभौ ॥१॥यत्र हेमवलभीविलम्बिनो दिव्यमौक्तिकसरा विरेजिरे ।सर्वत: सुरगिरेरधित्यकां संगता इव नवोडुपड्क्तय: ॥२॥यत्र सिन्धुचलशैवलाड्कितं नाभिपड्कजमिवेन्दिरापते: ।गारुडाश्मखचितं हिरण्मयं पुण्डरीकमुपरि व्यराजत ॥३॥चच्चध्वजज्पज्टाचचलाच्चितं यत्सुवर्णशिखरं समुन्नतम् ।अन्वकारि हरिवज्रतो भिया मेरुणा तनुरुहाणि धुन्वता ॥४॥वीक्ष्य मां सफलयध्वमक्षिणी भो नरा इति गिरेव शंसति ।या विशड्कटविटड्ककोटिभाकिड्किणीगफ़्णघणंघणारवै: ॥५॥यव्दिशालमणिजालकान्तरादुत्पतन्त्यगरुधूपपड्क्तय: ।आह्णयन्त इव शैवमीक्षितुं नर्तनोत्सवममर्त्यसुन्दरी: ॥६॥यत्र काश्चनवितानसंयतो नन्दनद्रुकुसुमस्रजां गण: ।अश्रु भाविहरनृत्तदर्शनप्रेमजं मधुमिषादिवोज्झति ॥७॥शातकुम्भवभीसमुन्नतव्रातबध्दमुकुरावलीच्छलात् ।या बिभर्ति नयनानि कौतुकादाभिरुप्यमिव वीक्षितुं निजम् ॥८॥व्दारपार्श्वयुगले हिरण्मये गारुडाश्मकदलीवनश्रिया ।या परस्परसमागमार्हयो: शंसतीव घटने मनोज्ञताम् ॥९॥आदितोऽन्तत उपोढविभ्रमैर्यव मौक्तिकसरैश्चकाशिरे ।हेमतोरणमरीचिवीचयो राजहंसनिचयैरिवागतै: ॥१०॥अत्यवर्तत यदीयकाश्चनस्तम्भजालमनरालमुन्नतम् ।अप्यहीनगुणभूषमुन्मिषव्दक्रिमाणममरालयं गिरिम् ॥११॥देवताप्रतिकृतीर्यन्तरे शिल्पिना मणिमयी: प्रकल्पिता: ।देवता: प्रथममागता नटं द्रष्टुमैशमिति मेनिरे नरा: ॥१२॥यत्र भान्ति कुरुविन्दनिर्मितत्रोटयो मरकतच्छदा: शुका: ।एष्यदीशगणराट्करस्फुरद्दाडिमग्रहक्रृतादरा इव ॥१३॥यत्र यत्र फलपुष्पमण्डितं वृक्षषण्डमरुचव्दिनिर्मितम् ।प्रागरण्यमिव नन्दिहुंकृतिस्तम्भितं चरति शंकरे तप: ॥१४॥भान्ति यत्र मणिकुट्टिमे नरा बिम्बिता भगवतो नटिष्यत: ।संजिघृक्षव इवालयाव्दले: पारितोषिकविभूषणान्यहीन् ॥१५॥सिक्तमृष्टतलमुच्छ्रितध्वजं स व्यतीत्य पुरमार्गमायतम् ।तां सभामथ विवेश तादृशीं व्याघ्रपादनुगत: पतज्जलि: ॥१६॥कायवानिव तप: समुच्चयो जड्गमेव शिवभक्तिरुर्जिता ।स्वात्मबोध इव मूर्तिसंचरस्तावृषी ऋषिगणोऽन्ववर्तत ॥१७॥यत्पुराणकिटिनापि शौरिणा न व्यलोकि चरणव्दयं प्रभो: ।लोकयेमहि तदेव किंत्विति व्यस्मयन्त मुनयस्तदा मुहु: ॥१८॥आगता: प्रथममेव भूतले नीलनीरदनिभा गणास्तदा ।विद्रन्नरवितीर्णमार्गया सर्वत: समचरन्त लीलया ॥१९॥भूतनाथनटने दिदृक्षया भूतलेऽवतरतां दिवौकसाम् ।उन्मुखक्षितिमयूरवीक्षितो दुन्दुभिध्वनिरभूदथाध्वनि ॥२०॥निर्जरानथ कदाप्यनीक्षितानीक्षितुं भुवि दिवोऽवरोहत: ।दिव्यदुन्दुभिरवावकर्णनात्सन्ननाह कुतुकी नृणां गण: ॥२१॥अम्बरे ददृशिरेऽथ सुन्दरा हाटकाड्गदकिरीटकुण्डला: ।अच्चलालिखितहंसवासस: पश्चविंशवयसो दिवौकस: ॥२२॥तेषु मेषवरवाहनश्चतु: श्रृड्गमौलियुगल: शिखोज्ज्वल: ।स्रक्स्रवादिवहबाहुसप्तक: प्रत्यदृश्यत हुताशनस्त्रिपात् ॥२३॥साध्वसेन शिवभक्तसंनिधिं य: स्थित: परिहरंश्चिरादपि ।तं मृकण्डुतनये कृतागसं शाम्भवा ददृशुरम्बरेऽन्तकम् ॥२४॥मूर्तयामुनतरड्गवल्लरीविभ्रमावहमहासिभासित: ।पाणिराननमुदग्रदंष्ट्रमप्याचचक्ष इव नैऋतं नृणाम् ॥२५॥दन्तलग्नजलमर्त्यजाड्गलक्रूरदूरविवृतास्यकन्दरम् ।आगतस्य वरुणस्य मानवास्तत्र वाहनमवेक्ष्य तत्रसु: ॥२६॥योऽधिरुह्य पृषतं करे वहन्केतुमत्वस्त पासुकेतन: ।तं नरा निरणयन्धिया स्वया तातमाशरपुरीदह: कपे: ॥२७॥अग्रिसिन्ध्रुतरिविभमस्पृशा निष्पपात दिवि पुष्पकेण य: ।तं गदोज्ज्वलभुजं महाड्गदं किन्नराधिपमलोकयन्नरा: ॥२८॥चन्द्रखण्डकृतचारुशेखर: पुण्डरीकदलपाण्डराकृति: ।शूलपाणिरहिजालभूषण: प्रादुरास वृषवाहनो हर: ॥२९॥राहुरुज्झति मुहुर्निगीर्य मां पालयेति शशिनेव सेवित: ।आतपत्रवषुषा स चाययौ वज्रपाणिरिभराजवाहन: ॥३०॥रम्भयास्य चरमोपविष्टया चामरव्दयमधूयताभित: ।लोलहंसमिथुनान्तरस्फुरत्पद्म चारु विदधे यदाननम् ॥३१॥मेनकापि विततार वीटिकां चन्द्रखण्डसुरभि शचीपते: ।तेन सा हि जगृहे मृणालिका दन्तिनेव करिणीकरार्पिता ॥३२॥अग्रतस्तदनु सिध्दचारणा वारणाधिपधृतस्य वज्रिण: ।वृत्रजम्भवलपाकपातनख्यातमस्तुंवत बाहुविक्रमम् ॥३३॥तच्चिदम्बरपुरं पुरंदरे साकमम्बरचरै: समागते ।प्राड्गनटेशनटनादहो मुदा तत्र मर्त्यहृदयान्यनर्तिषु: ॥३४॥शड्खमर्दलमृदड्गदुन्दुभिध्वानसंकथितमुत्सवं तदा ।वीक्षितुं किमु जनस्य नाविशन्कर्णरन्ध्रमितरेतरोक्तय: ॥३५॥रेजिरे दिगधिपा: वनौकसो व्याघ्रपाद्रणवरा: पतज्जलि: ।पौरजानपदमानवास्तदा संमता: कनकसंसदन्तरे ॥३६॥यावदन्तरनघ: पतज्जलिर्ध्यातुमीशमामीलदक्षिणी ।तावदागमशंसि धूर्जटे: काहलीरणितमाशु शुश्रुवे ॥३७॥येन नि: सरति काहलीरवस्तत्र वर्त्मनि जना दृशो दधु: ।लोचनानि निदधुश्च यत्र ते तत्र संन्यध्रित शंकर: स्वयम् ॥३८॥दर्शनोत्सुकसुपरपड्क्तयहंपूर्विकापरिगताग्रभूमिकम् ।नन्दिहस्तधृतवेत्रसंगमत्राससंकुचदवेक्षकाड्गकम् ॥३९॥चन्दनद्रवसमुक्षणक्षणक्षिप्तपुष्पचयसिध्दचारणम् ।सान्द्रितध्वजपताकितान्तरस्निग्धगत्यगरुधूपवल्लिकम् ॥४०॥मर्दलानुगुणनृत्यदप्सर: पादनूपुरनिनादमेदुरम् ।संनिधानगतदिव्यमागधप्रस्फुरज्जययोक्तिबन्धुरम् ॥४१॥आगतेभमुखमूषिकश्रमश्वासतृप्तदलंक्रियोरगम् ।आपतद्रुहशिखण्डिताण्डवप्रकरमिप्रमथडिण्डिमारवम् ॥४२॥तुन्दिलैकगणधारितामलच्छत्रमच्छशशिखण्डमण्डितम् ।उक्षवाहनमुमासन्वितं तं ददर्श गिरिशं पतज्जलि: ॥४३॥वामपार्श्वगतवारिजेक्षणं दक्षिणेऽम्बुजभुवा कृताज्जलिम् ।वन्दितं चरमभागमाश्रितैर्वासवप्रभृतिभि: सुपर्वभि: ॥४४॥सर्वतोऽपि सनकादिभिर्मुदा सेव्यमानमृषिभिश्चिरंतनै: ।नारदेन महतीं नखाश्चलैर्विध्यता च मृदुगीतवैभवम् ॥४५॥नूपुरोरगफणामणिश्रियामड्कुरैररुणितेन योऽड्घ्रिणा ।नूतनातपनिपातपाटलं पश्यतां हृदि निनाय पड्कजम् ॥४६॥भालपावकहुते स्मरे रतावप्यपास्तविहृतौ वृथास्थितौ ।केलिरत्नमुकुराविवैतयोर्जानुमण्डलमिषाव्दिभर्ति य: ॥४७॥व्याघ्रचर्मपरिकर्मशालिनी सक्थिनी गुरुतरे दधाति य: ।देवदैत्ययुधि दिग्गजेन्द्रयोरागृहीतकवचौ कराविव ॥४८॥मण्डलं दिनकरस्य मध्यतो नीयमानमुनिनिर्मितान्तरम् ।यस्य नूनमपदिश्य काश्चनं पट्टबन्धमुदरे विराजते ॥४९॥भाति यस्य किल कण्ठलम्बिनी शंकराक्षमणिमालिकोरसि ।कालकूटकलुषीकृता गलान्निर्गतेव निगमाक्षरावली ॥५०॥कृष्णसर्पक्रृतचारुकड्कणैर्यश्चतुर्भिरपि भाति बाहुभि: ।शक्रवाहनगज: शशिप्रभैरिन्द्रनीलवलयै रदैरिव ॥५१॥भासमानभसितत्रिपुण्ड्रयायो ललाटतुहिनांशुलेखया ।पश्चबाणवपुरिन्धनानलं लोचनं वहति कुड्भलीकृतम् ॥५२॥यस्य मौलिरपि धातृसौधभूनिर्गताभ्रतटिनीपतजम् ।फेनपिण्डमिव वेगवक्रितं कान्तमुव्दहति खण्डमैन्दवम् ॥५३॥शंकरोऽथ चलमौलिजाह्नवीवारिपूरणरणत्करोटिकम् ।दक्षिणेतरकरावलम्बितश्रीशपाणि वृषभादवातरत् ॥५४॥सोऽवतीर्य गिरिसन्निभाव्दृषात्साकमद्रिसुतया सविभ्रमम् ।प्राविशत्कनकसंसदन्तरं पश्यताम्वि शरीरिणां मन: ॥५५॥तापसप्रमथदेवमानवै: सान्द्रिता विलसति स्म सा सभा ।शंकरेण मधुनेव चारुणा भूरिभूरुहकरम्बितावनी ॥५६॥अज्जलिस्तबकितेन मौलिना कीर्तिवर्णनकृता मुखेन च ।जन्मिनो जनिशमार्थमर्ह्तयामासुरीशमचिरेण नर्तितुम् ॥५७॥व्याघ्रपादमृषिमीरितस्तवं तं पतज्जलिमपि स्तवोन्मुखम् ।वीक्ष्य शीतलदृशा शिवोऽवदन्नर्तनं मम निरीक्ष्यतामिति ॥५८॥नर्तनाय गिरिशे कृतत्वरे चत्वरे महति हेमसंसद: ।मास्तु शब्द इति वेत्रपाणिना सर्वतो जगदतर्जि नन्दिना ॥५९॥सिध्दचारर्णकरान्तनिर्गलन्मुग्धपुष्पनिचये सभान्तरे ।नन्दितर्जनवशात्कुतूहलादप्यतिष्ठदपसंकथो जन: ॥६०॥तत्र शंकरकटाक्षचोदितश्चारुमर्दलमवादयध्दरि: ।य: पयोद इति पुष्कराश्रितो नीलकण्ठनटनोचितध्वनि: ॥६१॥कामजिन्नटनकारणेन वा भारतीकुचयुगभ्रमेण वा ।तत्र तालयुगलीमथाददे पाणिपड्कजयुगेन पद्मभू: ॥६२॥रम्भया हॄतरसे रदच्छदे वंशनालमवसज्य वासव: ।वादनादपि विमोहयज्जनानाददे किल न वासवस्थितिम् ॥६३॥वादय द्रुतमितीव शंसता स्फाटिकाक्षवलयेन दक्षिणे ।आश्रिता श्रवसि चारुवल्लकी वादनं व्यतनुत प्रियाविधे: ॥६४॥आयतेन फणिना जटाभरं मध्यभागमिभचर्मकक्ष्यया ।बध्रत: प्रैयतमस्य नर्तितुं वीक्ष्य संभ्रममुमा स्मितं व्यधात् ॥६५॥वीक्षणोचितममांसचक्षुषा नर्तनोत्सवमवेक्षितुं निजम् ।शंभुना सकलदेहिनां तदा दिव्यमक्षि दिदिशे दयालुना ॥६६॥संददर्श सपदि भ्रमज्जटाताडितोडुपटलं तदा जन: ।व्यालनूपुररणत्पदार्पणन्यश्चितक्षिति नटेशनर्तनम् ॥६७॥धर्मवारिकणकन्दलद्रवद्द्भस्मपुण्ड्र्परिकर्मितालिकम् ।कण्ठलम्बितहराक्षमालिकाच्छेदकीर्णमणिहारि किंकरम् ॥६८॥मध्यसीम्रि गलिताहिबन्धनव्याकुलव्दिरदचर्मकक्ष्यकम् ।पादताडितधरातलक्रमप्रोन्मिषत्पतपटायिताकुलम् ॥६९॥मण्डलभ्रमिषु कीर्णजाह्नवीशीकरस्रपितचक्रवालकम् ।बाहुवेगपवनाभिपूरितक्रन्ददन्तरदिगद्रिकन्दरम् ॥७०॥उध्दृतैकचरनाम्बुजप्रभासृज्यमानपरिवेषविग्रहम् ।उत्पलोदरसहोदराम्बिकालोचनान्तवलनैकगोचरम् ॥७१॥शम्बरीयवनिकामथाक्षिपन्यसप्रपश्चमयनर्तनं शिव: ।द्रगदर्शयत गोणिकासुतं व्याघ्रपादमितरानृषीनपि ॥७२॥तेन ते स्वयमिदं जगन्मृषा जानते स्म परमार्थत: पुन: ।ब्रह्म तत्परमनादि सच्चिदानन्दलक्षणमनन्तमव्दयम् ॥७३॥इत्यवेक्ष्य नटनं जगत्पतेर्भक्तिभारलुलितेन चेतसा ।तुष्टुवुस्तमखिला: शरीरिण; श्रेयसा स समयोजयच्च तान् ॥७४॥नृत्तं तत्फणिपतये स दर्शयित्वा प्राहेदं प्रणयकिरा गिरा गिरीश: ।त्व कृत्वा भुवि पदशास्त्रवार्तिकानां भाष्यं तव्दिवृणु ततो दिवं व्रजेति ॥७५॥आज्ञाप्यैवं फणिनमपरान्सोऽनुगृह्याक्षिपातै - र्गौर्या साकं विधिहरिगणैश्चापि शंभुस्तिरोऽभूत् ।हर्षाश्चर्यास्तिमितहृदयौ व्याघ्रपाद्रौणिकेया - वस्तूयेतामृषिभिरनटद्यत्कृते चन्द्रचूड: ॥७६॥इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते चतुर्थ: सर्ग: । N/A References : N/A Last Updated : May 02, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP