मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे| स्फुरद्विद्युदुल्लासवाला... मारुती स्तोत्रे भीमरूपी महारुद्रा वज्र हन... श्री आञ्जनेय स्वामी परदेव... ॥ श्रीः॥ ॥ श्री आञ्... हनुमन्नञ्जनीसूनो महाबलपरा... ॐ अस्य श्रीअनन्तघोरप्रलयज... नमो हनुमते तुभ्यं नमो मार... ॐ अस्य श्रीविचित्रवीरहनुम... बाल समय रबि भक्षि लियो तब... वीताखिलविषयेच्छं जातानन्द... । हनुमानुवाच । तिरश्चामपि... ॐ अस्य श्रीहनुमद्वाडवानलस... हनुमानंजनासूनुः वायुपुत्र... नमोऽस्तु ते हनूमते दयावते... श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् गोष्पदी-कृत-वारीशं मशकी-क... हनुमानुवाच । तिरश्चामपि य... लांगूलमृष्टवियदम्बुधिमध्य... स्फुरद्विद्युदुल्लासवाला... वामे करे वैरिभिदं वहन्तं ... अक्षादिराक्षसहरं दशकण्ठदर... शृणु देवि प्रवक्ष्यामि स्... प्रस्तावना मनोजवं मारुततुल्यवेगं जित... ॐ अस्य श्रीहनुमद्वडवानलस्... रक्ता ङ्गरागशोभढयं शोणपुच... ॐ श्रीपत्र्चवदनायात्र्जने... लोपामुद्रोवाच ॥ कुम्भोद... वीताखिल- विषयेच्छं जातानन... गोष्पदी- कृत- वारीशं मशकी... उद्यदातिय संकाशं उदार भुज... श्रीहनुमत्भुजङ्गस्तोत्रम् - स्फुरद्विद्युदुल्लासवाला... हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service. Tags : hanumanmarutistotraमारुतीस्तोत्रहनुमान श्रीशंकराचार्यकृतम् Translation - भाषांतर स्फुरद्विद्युदुल्लासवालाग्रघण्टा-झणत्कारनादप्रवृद्धाट्टहासम् ।भजे वायुसूनुं भजे रामदूतंभजे वज्रदेहं भजे भक्तबन्धुम् ॥१॥ प्रपन्नानुरागं प्रभाकाञ्चनाङ्गंजगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।तृणीभूतहेतिं रणोद्यद्विभूतिंभजे वायुपुत्रं पवित्रात् पवित्रम् ॥२॥भजे रामरम्भावनीनित्यवासंभजे बालभानुप्रभाचारुहासम् ।भजे चन्द्रिकाकुन्दमन्दारभासंभजे सन्ततं रामभूपालदासम् ॥३॥भजे लक्ष्मणप्राणरक्षातिदक्षंभजे तोषितानेकगीर्वाणपक्षम् ।भजे घोरसंग्रामसीमाहताक्षंभजे रामनामातिसंप्राप्तरक्षम् ॥४॥मृगाधीशनाथं क्षितिक्षिप्तपादंघनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।वियद्व्याप्तकेशं भुजाश्लेषिताशंजयश्रीसमेतं भजे रामदूतम् ॥५॥चलद्वालघातभ्रमच्चक्रवालंकठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।महासिंहनादाद्विशीर्णत्रिलोकंभजे चाञ्जनेयं प्रभुं वज्रकायम् ॥६॥रणे भीषणे मेघनादे सनादेसरोषं समारोप्यसौमित्रिमंसे ।घनानां खगानां सुराणां च मार्गेनटन्तं ज्वलन्तं हनूमन्तमीडे ॥७॥नखध्वस्तजंभारिदम्भोलिधारंभुजाग्रेण निर्धूतकालोग्रदण्डम् ।पदाघातभीताहिजाताऽधिवासंरणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥८॥महाभूतपीडां महोत्पातपीडांमहाव्याधिपीडां महाधिप्रपीडाम् ।हरत्याशु ते पादपद्मानुरक्तिःनमस्ते कपिश्रेष्ठ रामप्रियाय ॥९॥सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथेसुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाःत्वया वायुसूनो किलानीय दत्ताः ॥१०॥समुद्रं तरङ्गादिरौद्रं विनिद्रोविलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।निरातङ्कमाविश्य लङ्कां विशङ्कोभवानेव सीतावियोगापहारी ॥११॥नमस्ते महासत्वबाहाय नित्यंनमस्ते महावज्रदेहाय तुभ्यम् ।नमस्ते पराभूतसूर्याय तुभ्यंनमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥१२॥नमस्ते सदा ब्रह्मचर्याय तुभ्यंनमस्ते सदा वायुपुत्राय तुभ्यम् ।नमस्ते सदा पिङ्गलाक्षाय तुभ्यंनमस्ते सदा रामभक्ताय तुभ्यम् ॥१३॥हनूमत्भुजङ्गप्रयातं प्रभातेप्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।पठन् भक्तियुक्तः प्रमुक्ताघजालःनराः सर्वदा रामभक्तिं प्रयान्ति ॥१४॥ N/A References : N/A Last Updated : February 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP