मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे| नमो हनुमते तुभ्यं नमो मार... मारुती स्तोत्रे भीमरूपी महारुद्रा वज्र हन... श्री आञ्जनेय स्वामी परदेव... ॥ श्रीः॥ ॥ श्री आञ्... हनुमन्नञ्जनीसूनो महाबलपरा... ॐ अस्य श्रीअनन्तघोरप्रलयज... नमो हनुमते तुभ्यं नमो मार... ॐ अस्य श्रीविचित्रवीरहनुम... बाल समय रबि भक्षि लियो तब... वीताखिलविषयेच्छं जातानन्द... । हनुमानुवाच । तिरश्चामपि... ॐ अस्य श्रीहनुमद्वाडवानलस... हनुमानंजनासूनुः वायुपुत्र... नमोऽस्तु ते हनूमते दयावते... श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् गोष्पदी-कृत-वारीशं मशकी-क... हनुमानुवाच । तिरश्चामपि य... लांगूलमृष्टवियदम्बुधिमध्य... स्फुरद्विद्युदुल्लासवाला... वामे करे वैरिभिदं वहन्तं ... अक्षादिराक्षसहरं दशकण्ठदर... शृणु देवि प्रवक्ष्यामि स्... प्रस्तावना मनोजवं मारुततुल्यवेगं जित... ॐ अस्य श्रीहनुमद्वडवानलस्... रक्ता ङ्गरागशोभढयं शोणपुच... ॐ श्रीपत्र्चवदनायात्र्जने... लोपामुद्रोवाच ॥ कुम्भोद... वीताखिल- विषयेच्छं जातानन... गोष्पदी- कृत- वारीशं मशकी... उद्यदातिय संकाशं उदार भुज... विभीषणकृतम् हनुमत्स्तोत्रम् - नमो हनुमते तुभ्यं नमो मार... हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service Tags : hanumanmarutistotraमारुतीस्तोत्रहनुमान श्रीगणेशाय नमः । Translation - भाषांतर नमो हनुमते तुभ्यं नमो मारुतसूनवे ।नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥१॥नमो वानरवीराय सुग्रीवसख्यकारिणे ।लङ्काविदाहनार्थाय हेलासागरतारिणे ॥२॥सीताशोकविनाशाय राममुद्राधराय च ।रावणान्तकुलच्छेदकारिणे ते नमो नमः ॥३॥मेघनादमखध्वंसकारिणे ते नमो नमः ।अशोकवनविध्वंसकारिणे भयहारिणे ॥४॥वायुपुत्राय वीराय आकाशोदरगामिने ।वनपालशिरश्छेदलङ्काप्रासादभञ्जिने ॥५॥ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे ।सौमित्रिजयदात्रे च रामदूताय ते नमः ॥६॥अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे ।लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥७॥रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥८॥परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥९॥महाभयरिपुघ्नाय भक्तत्राणैककारिणे ।परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥१०॥पयःपाषाणतरणकारणाय नमो नमः ।बालार्कमण्डलग्रासकारिणे भवतारिणे ॥११॥नखायुधाय भीमाय दन्तायुधधराय च ।रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥१२॥प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने ।करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥१३॥बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ।विहङ्गमाय सर्वाय वज्रदेहाय ते नमः ॥१४॥कौपिनवाससे तुभ्यं रामभक्तिरताय च ।दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥१५॥कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।स्वाम्याज्ञापार्थसङ्ग्रामसङ्ख्ये सञ्जयधारिणे ॥१६॥भक्तान्तदिव्यवादेषु सङ्ग्रामे जयदायिने ।किल्किलाबुबुकोच्चारघोरशब्दकराय च ॥१७॥सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे ।सदा वनफलाहारसन्तृप्ताय विशेषतः ॥१८॥महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।वादे विवादे सङ्ग्रामे भये घोरे महावने ॥१९॥सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद् भयं न हि ।दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ॥२०॥राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥२१॥पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः ।तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥२२॥सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् ।सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥२३॥विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् ।ये पठिष्यन्ति भक्त्या वै सिद्ध्यस्तत्करे स्थिताः ॥२४॥इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादेविभीषणकृतं हनुमत्स्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP