संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| तारावलोकाख्यायिका सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम तारावलोकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत तारावलोकाख्यायिका Translation - भाषांतर वचो भरतरोहस्य श्रुत्वेति नरवाहनः । मोचितां राजपुत्राय ददौ सुरतमञ्जरीम् ॥१९६॥तामादाय गते तस्मिन्विद्यया पालकात्मजे । दूतं मुमोच दुर्वृत्तं कृपया नरवाहनः ॥१९७॥ततः कदाचिदास्थानसमासीनं तमभ्यधात् । प्रियासुहृन्मन्त्रिवृत्तं कश्यपः श्रेयसां निधिः ॥१९८॥चक्रवर्तिपदं प्राप्य राजन्विद्याधरश्रियम् । नयोपायगुणोद्योगैः कुर्वीथा नित्ययौवनम् ॥१९९॥ मदेन नष्टा बहवः शूरा ये चक्रवर्तिनः । वह्निज्वाला जलेनेव श्रीर्मदेनोपशाम्यति ॥२००॥ कौतुकेनेव कामिन्यो गीतेनेव मृगाङ्गनाः । दर्पाङ्कुरेन नश्यन्ति पेशला नृपतिश्रियः ॥२०१॥ मन्त्रगुप्तिरविश्वासो विक्रान्तिर्मित्रसंग्रहः । विनयश्चेति भूपानां लक्ष्मीरक्षासमुच्चयः ॥२०२॥दानशीलाः क्षमावन्तः समानाः सुखदुःखयोः । धैर्यद्वितीया राजानो वसुधानन्दनिर्झराः ॥२०३॥आसीच्चन्द्रावलोकाख्यः शिबीनामुर्वराप्तिः । तस्य तारावलोकोऽभूत्तनयो यशसां निधिः ॥२०४॥यद्यत्प्रार्थयते यो यस्तत्तस्मै प्रददाम्यहम् ।इत्यसौ राजतनयो व्यधात्पटहघोषणम् ॥२०५॥कुलक्रमागतस्तस्य बभूव जयकुञ्जरः । यस्य दन्तार्गलयुगं रक्षा भुवनमन्डले ॥२०६॥तच्छत्रुप्रेरिताः प्राप्य ब्राह्मणास्तं ययाचिरे । गजं कुवलयापीडं मानपीडाकरं द्विषाम् ॥२०७॥तमकृत्रिममायूरच्छत्रं भ्रमरकुण्डलैः । याचितः प्रददौ तेभ्यो राजपुत्रो जयद्विपम् ॥२०८॥दत्ते तस्मिन्महानागे रक्षागेहे जयश्रियः ।पौराणाम जातुदुःखानां सोऽभवच्छोच्यतां नृपः ॥२०९॥( ततो विवासितः सर्वैरमात्यैर्जनकेन च । ययौ तपोवनं दाता स सभार्यः सपुत्रकः ॥२१०॥अरण्ये याचितोऽभ्येत्य ब्राह्मणैः पुत्रकावपि ।रालक्ष्मणनामानौ माद्रीं च दयितां ददौ ॥२११॥ततस्तुष्टे सुरपतौ विस्मिते द्युसदां गणे । श्वेतं कुञ्जरमादाय तमेत्य श्रीरयाचत ॥२१२॥प्रति विद्याधरेन्द्राणां भज त्वं चक्रवर्तिताम् । इति तच्छासनात्प्राप सानुगः स महत्पदम् ॥२१३॥इत्येवं सत्त्वयुक्तानां नम्राणां सत्यवादिनाम् । क्षमाप्रसन्नमनसां स्वयमाया)न्ति संपदः ॥२१४॥इति तारावलोकाख्यायिका ॥८॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP