सुरतमञ्जरीकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पालकः कथयित्वेति सुतस्नेहादयाचत ।
दूतैरुत्पलदत्ताख्यं चण्डालं तां सुमध्यमाम् ॥१८१॥
याचितः प्राह मातङ्गो भुञ्जते यदि मे गृहे ।
अष्टादशसहस्राणि द्विजानां राजशासनात् ॥१८२॥
तदियं दीयते कन्या राज्ञे सुरतमञ्जरी ।
इति तत्प्रेरितो राज्ञा भोक्तुं विप्रानचोदयत् ॥१८३॥
भीता नृपादधर्माच्च द्विजास्ते शरणं ययुः ।
उज्जयिन्यां महाकालं चण्डालान्नविकूणिताः ॥१८४॥
ततः कृशांस्तानादद्भयात्त्राणं त्रिलोचनः ।
द्विजेन्द्रो न स चण्डालः शापाद्विद्याधरो हि सः ॥१८५॥  
युश्माभिर्दृष्टमात्रोऽसौ स्वां तनुं प्रतिपत्स्यते ।
न दूष्य इति रुद्रस्य शासनात्ते ययुर्द्विजाः ॥१८६॥
ततस्तद्दर्शनादेव स विद्याधरतां गतः ।
उवाच पालकं हृष्टः स तामादाय सुन्दरीम् ॥१८७॥
अहं मतङ्गदेवाख्यो राजा विद्याधरेश्वरः ।
नियुक्तो गौरिमुण्डेन नरवाहवधे पुरा ॥१८८॥
ततोऽहं तद्वधोद्युक्तः प्रच्छन्नः शूलपाणिना ।
शप्तश्चण्डालतां यातो द्विजसंघागमावधि ॥१८९॥
सोऽहं विमुक्तशापोऽद्य पुत्री सुरतमञ्जरी ।
दत्तेयं त्व पु त्राय मया कर्पूरहासिनी ॥१९०॥
इति तेनार्पितां प्राप्य तां दृष्ट्वावन्तिवर्धनः ।
विललास स्मरावासमानसो रतिलालसः ॥१९१॥
विद्याधरोऽपि तां दत्वा सुतां सुरतमञ्जरीम् ।
नभो विगाह्य प्रययौ लोलहारांशुमण्डलः ॥१९२॥
याति काले स्मरस्मेरा रत्नपर्यङ्कशायिनी ।
केनापि मायिनाभ्येत्य सा हृता नेत्रकौमुदी ॥१९३॥
ततस्तद्विरहायाससंतप्तेऽवन्तिवर्धने ।
पालकान्तःपुरे तारं चचारारोदनध्वनिः ॥१९४॥
अथ देव त्वदादेशादयं धूमशिखः क्षणात् ।
अवन्तिवर्धनं मां च गॄहीत्वाप्तस्त्वदन्तिकम् ॥१९५॥
इति सुरतमञ्जरीकथा ॥७॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP