संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| शूरसेनाख्यायिका सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम शूरसेनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शूरसेनाख्यायिका Translation - भाषांतर सुभगाविभ्रमोभ्द्रान्तभ्रूविलासचलाः श्रियः । आकल्पं स्थिरतां यान्ति यद्वरात्स शिवोऽस्तु वः ॥१॥स विद्याधरसामन्तमस्तकन्यस्तशासनः । भेजे समस्तकान्ताभिः स्मरलीलामहोत्सवम् ॥२॥प्रियाविलासरसिके सानन्दे नरवाहने । सेवाक्षणमिवासाद्य वसन्तः प्रत्यदृश्यत ॥३॥पल्लवेषु च वल्लीनां मानसेषु च सुभ्रुवाम् । कपोलेषु च मत्तानां ( रोगः कोऽपि व्यवर्तत ॥४॥नमोऽस्तु स्थाणवे तस्मै प्लुष्टो येन मनोभवः । सहकारमन्दग्धैनमित्यूचुः प्रोषितास्तदा ॥५॥नवसंभोगसंगीत््रङ्गमलसद्रवः । लुलोठ पिककण्ठेषु मान्मथो जयडिण्डिमः ॥६॥सहसाङ्कुरितो लेभे मदनः कामपि श्रियम् ।तटीषु वचनान्तानां ) हृदयेषु च रागिणाम् ॥७॥कूजन्मधुकरश्रेणीवितता चूतमञ्जरी । बभार तारक्रेंकारस्मरकार्मुकविभ्रम म् ॥८॥स्तबकाः सिन्दुवारस्य तरलभ्रमराकुलाः । ययुः सितासितरुचो मधुलक्ष्मीकटाक्षताम् ॥९॥तरुणीचरणाघातुफुल्लेनाशोकशास्विना । अमन्त्य स्मरस्यैव प्रतापो विभ्रमक्षतिः ॥१००॥कान्तागण्डूषविकसद्बकुलोद्भूतएणुभिः ।यशोभिरिव पुष्पेषोः पाण्डुराः ककुभोऽभवन् ॥११॥तस्मिन्नानन्दमधुरे मालतीकलिकाकुले । काले विलासिनीलीलानुकूले कलितानिले ॥१२॥फुल्लवल्लीनिकुञ्जेषु लवङ्गामोदनिर्भरे ।पपौ मधु मृगाक्षीभिर्मित्रैश्च नरवाहनः ॥१३॥मधौ मधुमदालोलाः प्रियाः सुहृदयाः सुहृत् ।फलं राज्यतरोरेतच्छेषमाडम्बरं श्रियः ॥१४॥पुष्पाकरश्रियं वीक्ष्य दक्षिणानिलवीजिताम् । परागौघदुकूलाङ्कां गोमुखः प्राह भूपतिम् ॥१५॥भ्रमभ्द्रमरसंहादभीमभ्रुकुटिविभ्रमः । अयं विरहिणां कालः कालो देव विजृम्भते ॥१६॥अस्मिन्विकसिताशोकचूतचम्पककिंशुके । कामकेलिकलाकाले वियुक्तः को नु जीवति ॥१७॥राजपुत्रः पुरा शूरः शोरसेनाभिधो वधूम् । सुषेणां स्वैरमामन्त्र्य राजसेवापरो ययौ ॥१८॥गते तस्मिन्वनान्तेषु संततोत्फुल्लशालिना । संतोषितालिजालेन वसन्तेन विजृम्भितम् ॥१९॥मधौ मधुरसंलापे कोकिलालिकुलाकुले ।सुषेणा वल्लभं स्मृत्वा बभूव गतजीविता ॥२०॥शूरसेनोऽपि तामेत्य दृष्ट्वा निपतितां प्रियाम् । मुमोह को हि सहते शसा दयिताक्षयम् ॥२१॥परस्परानुरागाग्निदग्धौ वीक्ष्य च चण्डिका । कुलदेवी तयोर्जीवं दिदेशामृतसीकरैः ॥२२॥इति शूरसेनाख्यायिका ॥१॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP