संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| गोपालसंन्यासकथा सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम गोपालसंन्यासकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत गोपालसंन्यासकथा Translation - भाषांतर विद्याधरीवचः श्रुत्वा मूर्च्छितो नरवाहनः । पपात सुहृदामग्रे वज्राहत इवाचलः ॥३७॥( विद्याधरीभिरभितः कदलीपल्लवानिलैः । व्रीज्यमानः शनैः संज्ञामवाप्य विललाप सः ॥३८॥हा विलासरसावास हा गाम्भीर्यमहोदधे । हा सप्तभुवनोद्यानफुल्लकीर्तिलतावन ॥३९॥हा दक्षिण्यनिधे देव हा तात सुतवत्सल । ) क्कासि मे वचनं देहि वत्सेत्यमृतनिर्भरम् ॥४०॥अहो नु निरनुक्रोशः सज्जनक्रकचोऽन्तकः । कथाशेषः कृतो येन त्वमपि क्ष्माविशेषकः ॥४१॥स त्वं वत्समहीपतेरगणितं रूपेण चन्द्रस्मयः पेठे न स्तुतिरञ्चिता न रचितश्चित्रं गुणेष्वञ्जलिः । देव्यो येन सतीव्रतेन च कृता दूरान्नतिः केवला कालः केवललोलुपः स निखिलां लोकावलीमश्नुते ॥४२॥श्रीमत्तत्पृथुहारनिर्भरमुरः शौर्यापराद्रेस्तटं तौ स्तम्भप्रतिभं भुजावपि जगत्प्राकाररक्षार्गले । कीर्तिः स्वर्गनदी सुवर्णकमलं वक्त्रं क्कं तातस्य त - द्दृष्ट्वाहं पुनरिन्दुवृन्दयशसो धिङ्मे चिरं जीवितम् ॥४३॥इत्युक्तवति शोकाग्निसंतप्ते नरवाहने । रुरुदुर्गोमुखमुखा देव्यस्ता बाष्पलोचनाः ॥४४॥तेषां करुणमाक्रन्दं श्रुत्वाश्रुलुलितेक्षणाः । बभूवुर्भुवनोद्यानकेलिबालकुरङ्गकाः ॥४५॥ततो निभृतसंचारा विनयानतदृष्टयः । विविशुः शोकविवशा विद्याधरधराधराः ॥४६॥तेषां कुण्डलकेयूरपद्मरागारुणांशुकैः । शोकाग्निना दह्यमाना मूर्तेनेवाभवन्दिशः ॥४७॥ततः कृतोदकस्नानो वृतो विद्याधरेश्वरैः । मातरं साश्रुनयनः शुशोच नरवाहनः ॥४८॥ तं शोकवडवावह्निकथ्यमानमिवाम्बुधिम् ।वीक्ष्य पिङ्गलगान्धारः प्राह वायुपथस्तथा ॥४९॥देव धैर्यव्ययः कोऽयं तवापि महतां कुले । नहि निःसारसंसारविकाराः प्रभविष्णवः ॥५०॥नहि शोकः प्रियभ्रंशे कर्तव्यो वृद्धसेविभिः ।भवेऽप्यभावसद्भावे भावा भ्रूभङ्गभङ्गुराः ॥५१॥एकेऽद्य श्वस्तदपरे तत्परेऽह्नि तथापरे । यान्ति निःसीम्नि संसारे कः स्थाता योऽनुशोचति ॥५२॥ ध्रुवं न कुर्युर्मुनयस्तपांसि विजने वने । यदि न स्युरमी भावाः पर्यन्तविशरारवः ॥५३॥ लक्ष्मीरम्भाकुठारस्य भोगाम्भोदनभस्वतः । विलासवनदावाग्नेः को हि कालस्य विस्मृतः ॥५४॥न गुणा हीनविद्यानां श्रीमतां क्षीणसंपदाम् । कृतान्तपण्यशालायां समानः क्रयविक्रयः ॥५५॥( अन्धस्य दर्पणेनेव गीतेनेव हतश्रुतेः । गतस्य कोऽर्थः शोकेन नेक्षते न श्रृणोति यः ) ॥५६॥ अकस्मात्संगतो नाम यद्यकस्माद्विनङ्क्ष्यति । शोकः किं तत्र सर्वे हि य आन्ति चायान्ति जन्तवः ॥५७॥अश्रुतिर्बन्धुतां धत्ते कथं नष्टस्य नश्वरः । स्कन्धेन पङ्गुना पङ्गुर्बत वर्त्मनि नीयते ॥५८॥जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् । ममायमिति मुग्धानां नासौ तेषां न तस्य ते ॥५९॥प्रयाति चपला लक्ष्मीः स्रवत्यायुरलक्षितम् ।इति वस्तुस्वभावेऽस्मिन्कोऽनुशोचति तत्त्वधीः ॥६०॥गताञ्शोचति को नाम यः प्रातः शोच्यते परैः । छिन्नहस्तो विहस्तश्च कथं बन्धाति कङ्कणम् ॥६१॥रुद्यते जीवतां पुंसां येषा कालो भयंकरः ।निस्तीर्णकालभङ्गास्तु न शोच्या विगतासवः ॥६२॥न तज्जगति पश्यामो विचिन्त्य निखिलं धिया । दुष्प्रापं यत्प्रयत्नेन न लीढं कालजिह्वया ॥६३॥नृगनाभागसगरा निगीर्णा येन हेलया । जृम्भमाणे महाकाले तस्मिन्को नाम मुच्यते ॥६४॥विकोशाशापलाशेऽस्मिन्संसाराभसरोरुहे । कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥६५॥तेजो नास्ते गुणाः सा श्रीस्तत्सुखं ताश्च केलयः । कालसंकल्पकलया नेयन्ते स्मृतिशेषताम् ॥६६॥विकचत्कवलक्रीडा यस्य ब्रह्माण्डपिण्डकैः । सर्वंकषाय कालाय नमस्तस्मै महाशिने ॥६७॥इति तद्वचनन्यस्तशोकाग्निर्नरवाहनः ।भर्गग्रस्तविषस्याप दुग्धाब्धेरुपमां शनैः ॥६८॥गोपालचरितं ज्ञातुं विसृष्टा पुनरागता । विद्या विद्याधरेन्द्राय ततः सर्वं न्यवेदयत् ॥६९॥देव वत्सेश्वरादिष्टं दत्वा राज्यमुदारधीः । पालकाय स्वयं भ्रात्रे गोपालस्तपसे गतः ॥७०॥ प्रणयात्प्रार्थ्यमानोऽपि स पौरैर्रनुयायिभिः । जटावल्कलभृत्प्राह न्यस्तसंसारवासनः ॥७१॥स्मेरचामरहासिन्यो वल्लभाः कस्य न श्रियः ।किंतु ताः पवनालोलकदलीदलचञ्चलाः ॥७२॥ सुखिनो जातनिर्बन्धकर्मबन्धो हि वासना । विशरारुः समाहारः सर्वाग्रहपरिग्रहः ॥७३॥तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।सहजोऽन्तस्थितस्तस्य चिरादामूलमुद्धृतिः ॥७४॥आशालतावलयितं बद्धमूलमविद्यया ।को हि पातयितुं शक्तः सुखेन भवपादपम् ॥७५॥धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो । अवसन्ना विनश्यन्ति क्षुद्रा क्षौद्ररसेष्विव ॥७६॥अस्मिञ्शरीरकुसुमे भृङ्गवज्जीविते स्थिते । चपलेषु न भावेषु ताटस्था ममतोचिताः ॥७७॥परिच्छिन्नाशिनः किं भे कोटिभिर्भूरिसंचयैः । न पश्यामि गतः किंचित्कोऽयं सर्वग्रहो मम ॥७८॥अपर्याप्तसमस्तेच्छाः सक्ता दारैर्धनैः सुतैः । कालव्यालसमाक्रान्ता नीयन्ते हन्त जन्तवः ॥७९॥तरङ्गतरलैरर्थैर्भोगैर्भ्रूभङ्गभङ्गुरैः । मुहूर्तशेषैस्तारुण्यैरविलब्धो रराम कः ॥८०॥आत्मयज्ञात्मपुण्यानामात्मतीर्थोपसेविनाम् । त्यक्तापमानस्पर्शानां नैव शोचन्ति बान्धवाः ॥८१॥जरन्मृगः श्रृङ्गमिव त्वचं वृद्धः इवोरगः । पक्षीवेन्मथितं शालं बन्धमुज्झति तत्त्ववित् ॥८२॥भावाः स्वभावविशरारव एव ताव -त्संश्लेषलेखदृढरागि मनश्च तेषु । तत्सर्वथा बहुवियोगविषाकुलानां शान्त्यै मणिस्तनुभृता विततौ विवेकः ॥८३॥इत्युक्त्वा पौरपुरतो बान्धवांस्तपसे गतः । कश्यपस्याश्रमं श्रीमानसिताचलकन्दरम् ॥८४॥इति विद्यानिगदितं निशम्य नरवाहनः । जगाम मातुलं द्रष्टुं सुहृद्भिः सह सानुगः ॥८५॥दयिताध्यासितपदं विमानं कमलासनम् । आरुह्य व्योममार्गेण सोऽविशत्कश्यपाश्रम म् ॥८६॥प्रणम्य कश्यपं तत्र गोपालसचिवं ययौ ।तं विलोक्य जटापुञ्जव्यञ्जितोरुतपःप्रभम् ॥८७॥प्रसन्नतरुसच्छाये निर्वैरहरिकुञ्जरे । प्रणम्य साश्रुनयनः प्रोवाच नरवाहनः ॥८८॥मातुल स्नेहजलधिं जनकं जननीं च ताम् । क्क पुनर्बत पश्येयमित्युक्त्वा कश्मलं ययौ ॥८९॥तं शोकविवशं वीक्ष्य विद्याभृच्चक्रवर्तिनम् ।गोपालः प्राह मा मैवं कृथास्त्वं धैर्यभूधरः ॥९०॥राजन्दलितकर्पूरपरागविशदं यशः । जगत्सु गीयते यस्य न शोच्यः स पिता तव ॥९१॥सा च चारित्रसाविती सौभाग्यगिरिपुत्रिका । याता वासवदत्ता ते धन्या कीर्तिसरस्वती ॥९२॥मातुलस्येति वचसा मन्दशोकः सहानुगः । तत्रैव तस्थौ विद्याभिः कल्पितोदारमन्दिरः ॥९३॥इति गोपालसंन्यासकथा ॥३॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP