संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|चतुर्दारिकानामा पञ्चमो लम्बकः| शक्तिदेवकथा चतुर्दारिकानामा पञ्चमो लम्बकः शक्तिदेवसमागमकथा शिवमाधवाख्यायिका हरस्वाम्याख्यायिका शक्तिदेवप्रवहणभङ्गकथा अशोकदत्ताख्यायिका देवदत्ताख्यायिका शक्तिदेवकथा चतुर्दारिकनामा शक्तिदेवकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शक्तिदेवकथा Translation - भाषांतर क्षिप्रं पाटय मे गर्भं नैतदश्रेयसे तव । इति तद्वाक्यमाकर्ण्य शुश्राव नभसो गिरम् ॥२४९॥ शक्तिदेवाचिरादेव गर्भं पाटय पाटय । राजा कनकपुर्यां त्वं व्योमचारी भविष्यसि ॥२५०॥ इत्युक्तस्तद्विधायासौ त्यक्तदेहां प्रियां पुरः । आकाशगामिनीं दृष्ट्वा गगनादश्रृणोत्पुनः ॥२५१॥ कण्ठे पीडय गाधं त्वं गर्भमेनं विनिःसृतम् । श्रुत्वेति मुष्टिना गाढं तं जग्राह महाशयः ॥२५२॥ स तेन पीडितो गर्भः खङ्गोऽभूद्भुजगच्छविः । फुल्लोत्पलवनानीव यत्प्रभाभिरभून्नभः ॥२५३॥ यातायां बिन्दुलेखायां प्राह दाससुता पतिम् । अयं खङ्गस्त्वया प्राप्तो विद्याधरगतिप्रदः ॥२५४॥ अहं कनकलेखाख्या बिन्दुलेखा च या त्वया । शयने विगतप्राणा दृष्टा वल्लभ ता वयम् ॥२५५॥ स्थिता कनकपुर्यां सा ज्येष्ठा चन्द्रप्रभा मम । क्षिप्रं तदेहि गच्छाव शापोऽसौ विगतोऽद्य नः ॥२५६॥ इति तद्वचसा व्योम समुत्पत्य तया सह । शक्तिदेवो ययौ खङ्गी पुरीं तां कनकाह्वयाम् ॥२५७॥ चतस्रः कन्यकाः प्राप्य स्मरसागरचन्द्रिकाः । तत्र विद्याधरो भूत्वा न््दानन्दविभ्रमः ॥२५८॥ शशिखण्डश्रियं प्राप्य शक्तिदेवो महाशयः । शक्तिवेगाभिधां लेभे खङ्गविद्याधरेश्वरः ॥२५९॥ इत्याससाद विभवं वत्सेश्वर चिराय यः । सोऽहमेवागतो द्रष्टुं त्वत्पुत्रं नरवाहनम् ॥२६०॥ सर्वविद्याभृतां नाथो दृष्टोयं तनयस्तव । स्वस्त्यस्त्विदानीं गच्छामि पुनरस्तु समागमः ॥२६१॥ इति शक्तिदेवकथा ॥७॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP