संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|चतुर्दारिकानामा पञ्चमो लम्बकः| हरस्वाम्याख्यायिका चतुर्दारिकानामा पञ्चमो लम्बकः शक्तिदेवसमागमकथा शिवमाधवाख्यायिका हरस्वाम्याख्यायिका शक्तिदेवप्रवहणभङ्गकथा अशोकदत्ताख्यायिका देवदत्ताख्यायिका शक्तिदेवकथा चतुर्दारिकनामा हरस्वाम्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत हरस्वाम्याख्यायिका Translation - भाषांतर श्रुत्वेति वचनं पुत्र्याः प्राह शोकाकुलो नृपः । पुत्रि त्वया प्रतिज्ञाय संशये जनिता वयम् ॥५४॥ त्वां यौवनवतीमाह कन्यकैव सुमध्यमे । अप्रत्ययश्च लोकोऽयं न जाने किं भविष्यति ॥५५॥ अन्यं भर्तारमासाद्य कल्पिताश्चर्यवादिनः । नरास्त्यक्तस्वकर्माणो मोदन्ते साधुनिन्दया ॥५६॥ परापवादं संहृष्टा गुणलेशासहिष्णवः । लीलयोत्पादयन्त्येव मिथ्यादोषं सतां खलाः ॥५७॥ कुसुमाख्ये पुरे पूर्वं तपस्वी नियतेन्द्रियः । उवास ब्राह्मणवरो हरस्वामी गुणाधिकः ॥५८॥ ततः कदाचिज्जनिता मध्ये तद्गुणसंस्तवे । उवाच दुर्जनः कश्चिदुष्माभिः किं तु न श्रुतम् ॥५९॥ बाला दुरात्मनानेन भक्षिता निखिलाः पुरे । इति तत्पप्रथे वाक्यमेकद्वित्रिचतुःक्रमात् ॥६०॥ हा हरस्वामिना कृत्स्ना बालका भक्षिताः पुरे । प्रवाह इति सर्वत्र बभूव निरवग्रहः ॥६१॥ ब्रह्मोत्तरे जनपदे तद्विवासनसंगते । निजापवादनिर्विण्णो हरस्वामी सभां ययौ ॥६२॥ तमागतमभिप्रेक्ष्य सामर्षभयविह्वला । चकम्पे भक्षणभयात्कृतान्तालोकनादिव ॥६३॥ ततो व्यजिज्ञपत्सर्वान्हरस्वामी कृताञ्जलिः । दारका भक्षिताः कस्य मया ब्रूतां स संसदि ॥६४॥ कियन्तस्ते कियन्तस्ते पुत्राः सन्तीति तान्क्रमात् । पप्रच्छ भक्षितास्तेभ्यः कियन्तश्चेति गण्यताम् ॥६५॥ श्रुत्वेति तस्य वचनं गणयित्वा निजान्सुतान् । निर्विकारा वयमिति प्रययुर्लज्जिता द्विजाः ॥६६॥ इत्यनालोक्य सद्भावं वदन्त्येके तथा परे । पशूनामिव यूथोऽयं गतानुगतिको जनः ॥६७॥ इति हरस्वाम्याख्यायिका ॥३॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP