संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथापीठनामा प्रथमो लम्बक| कथापीठानामा कथापीठनामा प्रथमो लम्बक प्रथमस्तरङ पाटलिपुत्रकथा उपकोशाख्यायिका वररुचिमुक्तिर्नाम द्वितीयो गुच्छः गुणाढ्यकथा पुष्पदन्तमाल्यवान्नमकथा कथापीठानामा कथापीठानामा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कथापीठानामा Translation - भाषांतर श्रुत्वा गुणाढ्यकथितं काणभूतिरुवाच तम् ।शोणितेन लिख क्षिप्रं सप्तानां चक्रवर्तिनाम् ॥८४॥ कथां विद्याधरेन्द्राणां कथयामि स्थिरो भव । इति श्रुत्वा लिलेखाशु सप्तलक्षाण्यनन्यधीः ॥८५॥ प्राहिणोत्तां लिखित्वा च शातवाहनभूभुजे । स च लक्ष्मीमदोन्मत्तो नामन्यत विश्रृङ्खलः ॥८६॥ पैशाचीवाग्मषीरक्तं मौनोन्मत्तश्च लेखकः । इति राजाब्रवीत्का वा वस्तुसारविचारणा ॥८७॥ बुध्द्या त्यजन्त्यनासाद्य मूर्खाश्चाचर्वणक्षमाः । श्रोतारो नाप्रसिद्धेषु राजतां क्क सुभाशिताम् ॥८८॥ अवमानावधूतां तां कृत्वा मौनी बृहत्कथाम् । व्याख्याय शिष्यसहितो गुणाढ्योऽवाचयत्स्वयम् ॥८९॥ जुहावाग्नौ महाकोपः पत्रं पत्रमनारतम् । तस्मिन्व्याख्यातरि कथां निःशेषमृगपक्षिणः ॥९०॥ त्यक्ताहारां समभ्येत्य शुश्रुवुः साश्रुलोचनाः । ततस्तच्छुष्कमांसाशी नृपतिर्भृशमातुरः ॥९१॥ विवेद लुब्धकगिरा मृगाणां शोषकारणम् । द्रष्टुं सुमहदाश्चर्यमाययौ शातवाहनः ॥९२॥ लक्षैकशेशामासाद्य ततो राजा बृहत्कथाम् । शुशोच चर्वणासक्तप्रेक्षमाणः पदं पदम् ॥९३॥ सदा पूर्णः क्क शीतांशुः क्क दृष्टममृतं बहु । क्क वा हरमुखोद्गीर्णा लभ्यते निखिला कथा ॥९४॥ श्रुत्वा गुणाढ्यदखिलं वृत्तान्तं कौतुकाकुलः । ययौ तच्छिष्यसहितः समादाय नृपः कथाम् ॥९५॥ गुणाढ्योऽपि परिज्ञानवह्निनिर्दग्धविग्रहः । माल्यवत्पदमासाद्य विजहार हरप्रियः ॥९६॥ राजापि तच्छिष्यसमर्पितश्रीरवाप्य पूर्वाभ्यधिकप्रभावः । कथां त्रिनेत्राननपद्मसूतिं सौभाग्यपूतां कथयञ्जहर्ष ॥९७॥ इति क्षेमेन्द्रविरचिते बृहत्कथासारे कथापीठानामा प्रथमो लम्बकः समाप्तः ॥ N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP