संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथापीठनामा प्रथमो लम्बक| वररुचिमुक्तिर्नाम द्वितीयो गुच्छः कथापीठनामा प्रथमो लम्बक प्रथमस्तरङ पाटलिपुत्रकथा उपकोशाख्यायिका वररुचिमुक्तिर्नाम द्वितीयो गुच्छः गुणाढ्यकथा पुष्पदन्तमाल्यवान्नमकथा कथापीठानामा वररुचिमुक्तिर्नाम द्वितीयो गुच्छः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वररुचिमुक्तिर्नाम द्वितीयो गुच्छः Translation - भाषांतर प्रतिश्रुत्य गुरोस्तत्र हेमकोटीश्चतुर्दश । व्याडीन्द्रदत्तसहितः प्रयातो नन्दभूपतिम् ॥११२॥ एकोनं जातरूपस्य यस्य कोटीशतं गृहे । तस्याथ नन्दनृपतेरेककोट्यर्थिनः शनैः ॥११३॥ प्रतिष्ठानपुरं हृष्टा यस्मिन्नेव दिने गताः । तस्मिन्नेव दिने दैवात्स भूपालो व्यपद्यत ॥११४॥ अकालाशनिसंकाशं तच्छ्रुत्वा दुःखिता वयम् । दिनैकजीवने राज्ञो लोभान्मन्त्रं समास्थिताः ॥११५॥ अथेन्द्रदत्तः संमन्त्र्य संत्यज्य निजविग्रहम् । विवेश राज्ञो योगेन शरीरमनिलोपमः ॥११६॥ तस्मिन्प्रविष्टे सहसा समुत्तस्थौ स भूपतिः । व्याडिं निधाय रक्षार्थमिन्द्रदत्तकलेवरे ॥११७॥ अभ्येत्य याचितो राजा स मया गुरुदक्षिणाम् । इन्द्रदत्तसमाविष्टः सुत्पोत्थित इवाथ सः । मन्त्रिणं शकटालाख्यं दीयतामित्यभाषत ॥११८॥ केनाप्याविष्टदेहोऽयमिति निश्चित्य बुद्धिमान् । अदाहयन्मन्त्रिवरः सोऽन्विष्य प्रेतविग्रहान् ॥११९॥ ततो नन्दशरीरस्थो दग्धदेहोऽतिदुःखितः । इन्द्रदत्तो रहः प्राह मां व्याडिं चाश्रुगद्गदः ॥१२०॥ द्विजो भूत्वा कथं लोभादस्मिञ्शूद्रकलेवरे । स्थास्यामि शकटालेन निर्दग्धनिजविग्रहः ॥१२१॥ इति दुःखाकुलं व्याडिरहं च नृपतिं शनैः । वीतशोकं समाधाय तद्राज्ये मन्त्रितां श्रितौ ॥१२२॥ गूढं निबद्धमूलोऽपि विनाशभयशङ्कितः । सततं नृपतिर्वैरं शकटाले व्यचिन्तयत् ॥१२३॥ योगनन्दोऽथ कालेन मन्त्रयित्वा चिरं मया । बद्धान्धकूपे चिक्षेप शकटालं सुतैः सह ॥१२४॥ बद्धः पुत्रशतं प्राह प्राप्यैकं पुरुषाशनम् । सोऽश्नातु यः प्रतीकारे शक्तो भूमिपतेरिति ॥१२५॥ अशक्ता वयमित्युक्ते तैः स तद्भुक्तवांस्तदा । उपवासकृशाङ्गाश्च तत्र ते निधनं ययुः ॥१२६॥ योगनन्दोऽपि संप्राप्य विभूतिं रतिमाययौ । कुम्भेषु च करीन्द्रानां कुचेषु च मृगीदृशाम् ॥१२७॥ गुरवे दक्षिणां दत्त्वा विमुखो भव संततेः । व्याडी विरक्तहृदयः समामन्त्र्य विनिर्ययौअ ॥१२८॥ इति नन्दस्य साचिव्यं प्राप्तस्य मम जाह्नवी । भक्त्या बभूव वरदा सदा हेमशतप्रदा ॥१२९॥ ततः कालेन करुणाकूणितेन मया नृपम् । विबोध्य शकटालोऽपि तमःकूपाद्विमोक्षितः ॥१३०॥ पुनर्मन्त्रिपदं प्राप मदेकशरणः सदा । प्रदध्यौ मनसा वैरं शकटालो महीपतेः ॥१३१॥ कदाचिदथ गङ्गायां करपञ्चनिजाङ्गुलीः । दर्शयन्तं ततो दृष्ट्वा मामपृच्छत्सकौतुकः ॥१३२॥ अदर्शनं करं नीत्वा संदर्श्य स्वाङ्गुलुद्वयम् । द्वावप्यभेद्यौ तिष्ठन्तु पञ्चेत्यहमथाभ्यधाम् ॥१३३॥ इति मे बुद्धिविभवं दृष्ट्वा विस्मयमाययुः । राजा च शकटालश्च ये चान्ये तत्र संगताः ॥१३४॥ एवं नन्दशरीरस्थः संभोगासक्तमानसः । इन्द्रदत्तो विसस्मार ब्राह्मण्यं कोपमाश्रितः ॥१३५॥ तस्य लक्ष्मीमदान्धस्य संभोगासक्तचेतसः । ईर्ष्यालोर्ददृशुर्नैव मरुतोऽपि वधूजनम् ॥१३६॥ स कदाचित्प्रियां तुङ्गवलभीशिखरस्थितः । तिथिप्रश्ने द्विजन्मानं भाषमाणां प्रियं वचः ॥१३७॥ विलोक्य क्रोधविवशो भ्रकुटीकुटिलाननः । ब्राह्मणस्य वधं क्षिप्रं दण्डवासिकमभ्यधात् ॥१३८॥ स तीव्रशासनेनाशु राज्ञादिष्टः पुराधिपः । निनाय निग्रहस्थानं ब्राह्मण संभ्रमाकुलम् ॥१३९॥ कृष्यमाणं महाकायैर्द्विजमालोक्य वर्त्मनि । जहास विक्रयन्यस्तो मत्स्यो विगतजीवितः ॥१४०॥ तदृष्ट्वा महदाश्चर्यं निवृत्तो दण्डवासिकः । व्यजिज्ञपन्महीपालं राज्ञा पृष्टा वयं च त त् ॥१४१॥ शकटालप्रभॄतिषु क्षमापतेः क्षणमन्तिके । विस्मयध्यानमूकेषु ध्यात्वा पृष्टोऽहमभ्यधाम् ॥१४२॥ निवार्यतां मद्वचसा ब्राह्मणो वधसाहसात् । प्रवक्तास्म्यद्भुतं प्रातर्मत्स्यहासस्य कारणम् ॥१४३॥ इत्युक्त्वाहं त्रिपथगां गत्वा निशि निशातधीः । अपृच्छं मत्स्यहासस्य हेतुं पृष्टाब्रवीच्च सा ॥१४४॥ योऽयं शिशिरसंकाशशापावलयसंकुलः । करालस्तालविटपी च्छन्नोऽत्र श्रोष्यसि स्थितः ॥१४५॥ इत्यहं तद्गिरा गूढं स्थितस्तालतरोरधः । अर्धरात्रे महाकायामपश्यं रजनीचरीम् ॥१४६॥ कृतानुयात्रां विकटाकारराक्षसपुत्रकैः । दीप्तोर्ध्वकेशनयनां कालरात्रिमिवापराम् ॥१४७॥ ततो मातुः प्रणयिनां निबिडाडिम्भरक्षसाम् । भोजनं देहि देहीति तेषामश्रृणवं गिरः ॥१४८॥ प्रातर्विशसिता पुत्राः स विप्रो राजशासनात् । दिनमेकं परित्रातो मन्त्रिणा मत्स्यहासतः ॥१४९॥ तस्यैव मांसैः षण्मासांस्तृप्तिं यास्यथ बालकाः । मातुः श्रुत्वेति पप्रच्छुस्ते मत्स्यस्मितकारणम् ॥१५०॥ साब्रवीदीर्ष्यया राजा मूर्खो द्विजवधे विभुः । अन्तःपुरेषु स्त्रीरूपान्न वेत्ति पुरुषान्स्थितान् ॥१५१॥ एतन्मत्स्येन हसितं श्रुत्वैतद्राक्षसीवचः । प्रातर्विदितवृत्तान्तो नरेन्द्रमवदं रहः ॥१५२॥ अन्तःपुरेषु स्त्रीरूपाः स्थितास्ते मा द्विजे क्रुध । अजातश्मश्रवो देव देवीनां दयिता नराः ॥१५३॥ मत्स्यस्य हसिते हेतुरयमेव नरेश्वर । श्रुत्वेति तान्नरान्राजा निजग्राह प्रियाश्च ताः ॥१५४॥ योगनन्दमत्स्यहासकथा ॥३॥ ============================अथ कालेन भूपाले सर्वास्थानसभास्थिते । प्रतिज्ञां चित्रवैचित्र्ये कृत्वा चित्रकरोऽविशत् ॥१५५॥ स चिन्तयित्वा चित्रज्ञो राजानं दयितासखम् । लिलेख लेखकुशलः प्रतिबिम्बमिवाम्बुनि ॥१५६॥ ततः कदाचित्तं राज्ञः प्रतिमापट्टमद्भुतम् । अपश्यमहमेकान्ते नूतनान्तःपुरे स्थितम् ॥१५७॥ तत्र सर्वगुणोपेतां दृष्ट्वा नरपतेस्तनुम् । विद्युद्दत्ताभिधां देवीं विलोक्य स्फुटलक्षणाम् ॥१५८॥ मानोन्मानप्रमाणज्ञश्चित्रवैचित्र्यसिद्धये । ध्यात्वाह तिलकं तस्या गुह्यदेशे न्यवेशयम् ॥१५९॥ ततः संपूर्णलावण्यां कदाचिदवलोक्य ताम् । चित्रस्थां महिषीं राजा चुकोपेर्ष्याविनष्टधीः ॥१६०॥ जघने लक्षणं देव्याः केनेदमुपपादितम् । नादृष्ट्वा विहितं मन्ये प्राहेत्यन्तःपुराश्रयात् ॥१६१॥ देव कात्यायनेनेदं न्यस्तं मन्त्रिवरेण ते । इति वर्षधराच्छ्रुत्वा शकटालमुवाच सः ॥१६२॥ पापो वररुचिः क्षिप्रं हन्यतामिति तद्वचः । प्रतिगृह्यैव मामेत्य शकटालो गृहेऽवदत् ॥१६३॥ राज्ञा तव वधो दिष्टश्चित्रे तिलककारिणः । कर्ता नास्मि च तद्वाक्यं त्वं हि देवो न मानुषः ॥१६४॥ अयत्नेन समर्थस्त्वं निहन्तुमपकारिणम् । इति ज्ञात्वा मया भीत्या रक्षितोऽसि न गौरवात् ॥१६५॥ दुर्नीत्याभिहतो राजा ध्रुवमेव विनङ्क्ष्यति । नौरिवाकर्णधारा श्रीर्मन्त्रिहीना हि सीदति ॥१६६॥ असमीक्षितकारित्वाच्छोच्यो नन्दस्त्वया विना । आदित्यवर्मणो राज्ञः किं कथा न श्रुता त्वया ॥१६७॥ इत्युक्त्वा शकटालो मां धृत्वा गूढं स्वमन्दिरे । हतो मयेति राजानं चौरं हत्वा व्यजिज्ञपत् ॥१६८॥ निगॄहीतं तु मां राज्ञा ज्ञात्वा पुरनिवासिनः । शुश्रुवुर्दुःखसंतप्ता बन्धुहीना इवानिशम् ॥१६९॥ प्रच्छन्नचारी सौहार्दात्ततोऽहमवदं निशि । शकटाल सखे धार्ष्ट्यात्स्वबुद्ध्या रक्षितस्त्वया ॥१७०॥ अस्ति मे राक्षसो मित्रं स हन्ति मम हिंसकान् । भवता रक्षितो ह्यात्मा वर्तमानेन मद्धिते ॥१७१॥ इत्युक्त्वा दीप्तनयनं ध्यानमात्रादुपस्थितम् । करालाकारविस्फारं राक्षसं तमदर्शयत् ॥१७२॥ ततस्तद्दर्शनाद्भीतः शकटालोऽभ्यभाषत । कथान्तरे मया पृष्टः कथामादित्यवर्मणः ॥१७३॥ आदित्यवर्मणो राज्ञः पुरा स्वैरवती प्रिया । अप्राप्तसंगमा भर्त्रा गर्भमाधत्त निस्त्रपा ॥१७४॥ स तां विनष्टचारित्रां ज्ञात्वान्तःपुररक्षिणाम् । वचसा शिववर्माख्यं महामात्यमशङ्कत ॥१७५॥ तं वयस्यस्य नगरं नृपतेर्भोगवर्मणः । गूढलेखोदितवधं बद्धमूलं विसृष्टवान् ॥१७६॥ भोगवर्माणमासाद्य शिववर्मार्थ शङ्कितः । गूढलेखोदितं राजा विवेद वधमात्मनः ॥१७७॥ सोऽब्रवीद्भोगवर्माणं तूर्णं छिन्धि शिरो मम । न चेत्प्रभुहितोद्युक्तः स्वयं छेत्स्यामि मस्तकम् ॥१७८॥ श्रुत्वेति विस्मितेनाशु पृष्टो राज्ञाब्रवीत्पुनः । पतामि यत्र निहतस्तत्रावृष्टिभयं भवेत् ॥१७९॥इत्याकर्ण्य भयाद्राजा विवेच्य सह मन्त्रिभिः । सुरक्षितं प्रयत्नेन स्वपुरं विससर्ज तम् ॥१८०॥ अत्रान्तरे वधूरूपं स्थितमन्तःपुरे नरम् । आदित्यवर्मा विज्ञाय पश्चात्तापं समाययौ ॥१८१॥ आदित्यवर्मकथा ॥४॥ =========================इत्येवं कर्णचपला मदान्धा राजकुञ्जराः । विशृङ्खला विनश्यन्ति पतिताः स्मरशासने ॥१८२॥कंचित्कालं भवानास्तां प्रच्छन्नो मद्गृहे सुखम् । विशुद्धं भवतो भावं नृपो ज्ञास्यति सानुगः ॥१८३॥ कथं ते राक्षसो मित्रमभवत्कौतुकं मम । इत्येवं शकटालेन पृष्टो विश्रब्धमभ्यधाम् ॥१८४॥ नन्दस्य राज्ञो नगरे प्रत्यहं दण्डवासिके । भक्षिते रक्षता पूर्वं वृतोऽहं तत्पदे क्रमात् ॥१८५॥ दण्डाधिपत्यमासाद्य राज्ञाहं स्वयमर्थितः । रक्षसा कालरूपेण तेनैव निशि संगतः ॥१८६॥ स मामुवाच चकितं वञ्चनायोग्रविग्रहः । रूपेणाभ्यधिका नारी का सत्यं कथ्यतामिति ॥१८७॥ या यस्याभिमता लोके सा तस्याधिकरूपिणी । स निशाम्येति मद्वाक्यं संतुष्टो मित्रतामगात् ॥१८८॥ इत्युक्त्वा शकटालस्य वचसा प्रयताशयः । प्रध्यातमात्रां सहसा साक्षाद्गङ्गामदर्शयम् ॥१८९॥ सा धूर्जटिजटाजूटमालिका जननीव माम् । समाश्वास्य ययौ तूर्णं हारवल्ली नभश्रियः ॥१९०॥ कदाचिदथ नन्दस्य हरिगुप्ताभिधः सुतः । वनं तुरङ्गमाकृष्टो विवेश मृगयारसात् ॥१९१॥ तस्मिंस्तमालगहने गजगण्डालिमण्डलैः । मूर्च्छातलनिरालोके तस्य रात्रिरवर्तत ॥१९२॥ ततो वनेचरभयादारुह्य तरुमास्थिते । राजपुत्रे समभ्यायादृक्षः सिंहभयाद्द्रुतः ॥१९३॥ तमेव तरुमारुह्य तमुवाच वनेचरः । न भेतव्यं त्वया भ्रातर्वत्स्यामो रजनीमिह ॥१९४॥ करालकेसरसटः क्रुद्धदृष्ट्यंशुसंचयैः । विपाटयन्निव तमः शार्दूलोऽयमधः स्थितः ॥१९५॥ निद्रां भजस्व रात्र्यर्धं रक्षमाणः सखे मया । त्वयि प्रबुद्धे रात्र्यर्धमहं स्वपिमि निर्भयः ॥१९६॥ इति तद्वचसा तत्र सुप्ते राजसुते हरिः । ऋक्षमाह प्रसुप्तोऽयं नरो मे त्यज्यतामिति ॥१९७॥ सोऽवदद्धन्त निःसत्त्वो हरिणाधिपते भवान् । न हि मित्रद्रुहः पापं शाम्येज्जन्मशतैरपि ॥१९८॥ इत्युक्त्वा सोऽपि सुष्वाप प्रतिबद्धे नृपात्मजे । राजन्यमाह सिंहोऽथ त्यजैनं त्वं सुहृन्मम ॥१९९॥ इति सिंहवचः श्रुत्वा मित्रं सुप्तमशङ्कितम् । उत्सङ्गन्यस्तमूर्धानं राजसूनुरपातयत् ॥२००॥ सहसा पातितस्तेन नखैर्विष्टभ्य पादपम् । उर्तीर्णो बलवद्दैवाद्दुःखा हि खलसंगतिः ॥२०१॥ शशाप कुपितोऽभ्येत्य तमृक्षो विगतत्रपम् । यो ज्ञास्यति कथामेतां स ते त्राणमिति ब्रुवन् ॥२०२॥ उन्मत्तोऽथ स तच्छापाद्गत्वा प्रातर्निजां पुरीम् । प्रविश्य विगतच्छायः शोकदः क्ष्मापतेरभूत् ॥२०३॥पुत्रमुन्मादविधुरं योगनन्दो विलोक्य तम् । सस्मार मां विपत्प्राप्तः शकटालस्ततोऽवदत् ॥२०४॥ देव जीवत्यसौ मन्त्री हितः कात्यायनस्तव । श्रुत्वेति नृपतिः पुत्रं प्राहिणोत्तं मदन्तिकम् ॥२०५॥ ऋक्षसिंहकथाभिज्ञो मोचयित्वा नृपात्मजम् । ततोऽहमगमं द्रष्टुं योगनन्दं ह्रिया नतम् ॥२०६॥ कथं ज्ञातस्त्वया शापः पृष्टोऽहमिति भूभुजा । यथा ते तिलकं बद्ध्वा बुद्धं चेत्यभ्यधामहम् ॥२०७॥ योगनन्दपुत्रशापमोक्षौ ॥५॥ ==============================अथ राजानमामन्त्र्य राजकार्यविरक्तधीः । प्राप्तोऽस्मि पाटलिपुरीमश्रौषं गृहचेष्टितम् ॥२०८॥ योगनन्देन निहते दिक्षु व्यक्तिं गते त्वयि ।माता ते स्वर्ययौ शोकादुपकोशाग्निमाविशत् ॥२०९॥ उपवर्षेण कथितं श्रुत्वेत्यशनिदारुणम् । अगमं तपसा द्रष्टुं निःसङ्गो विन्ध्यवासिनीम् ॥२१०॥ वियोगदावदग्धानां तृष्णासंतप्तचेतसाम् । सुखाय सर्वसंन्यासः संतोषामृतनिर्झरः ॥२११॥ ततस्तपोवनस्थोऽहं योगनन्दपुरोहितम् । वार्तां यदृच्छयायातमपृच्छं कौतुकाकुलः ॥२१२॥ स प्रोवाच मया पृष्टस्त्वयि याते स भूपतिः । प्रज्ञया शकटालेन स पुत्रो विनिपातितः ॥२१३॥ चरणाघातकोपेन मूलोद्धृतकुशं पथि । स दृष्ट्वा कोपनं विप्रं मत्या श्राद्धे महीपतेः ॥२१४॥ न्यवेशयन्मुक्तशिखं चाणक्यं नाम दुःसहम् । उपविश्टमधः पङ्क्त्यां शकटालस्तमब्रवीत् ॥२१५॥ राज्ञावमानितोऽसीति स च जज्वाल तद्गिरा । चाणक्यनाम्ना ते नाथ शकटालगृहे रहः । कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः ॥२१६॥ योगनन्दे यशःशेषे पूर्वनन्दसुतस्ततः । चन्द्रगुप्तो धृतो राज्ये चाणक्येन महौजसा ॥२१७॥ एवमन्तर्ज्वलद्वैरः शकटालो महीपतिम् । निपात्य सानुगं बुध्द्या तपसे स ययौ वनम् ॥२१८॥ श्रुत्वेति कलिकल्लोलसंसारार्णवविभ्रम म् ।रुद्राणीमगमं द्रष्टुं जरामरनवारिणीम् ॥२१९॥ ततो देवीप्रसादेन दृष्टस्त्वं शापमुक्तये । स्वस्ति तेऽस्तु तनुं त्यक्त्वा प्रयाम्येष निजं पदम् ॥२२०॥ संगतस्त्वं गुणाढ्येन न चिरात्प्राप्स्यसि श्रियम् । उक्त्वेत्यामन्त्र्य संहृष्टः काणभूतिर्ययौ वनम् ॥२२१॥ महर्षिभिर्मोक्शकथाः कृत्वा दृष्ट्वाथ पार्वतीम् । सर्वत्र ज्ञाननिर्धूतविकारः स्वपदं ययौ ॥२२२॥ इति वररुचिरुग्रशापमुक्तो घनपटलादिव निर्गतः शशाङ्कः । अविकलनिजबोधदुर्गसिन्धुः शिवपदमेत्य बभूव निस्तरङ्गः ॥२२३॥ इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथापीठलम्बके वररुचिमुक्तिर्नाम द्वितीयो गुच्छः । N/A References : N/A Last Updated : October 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP