संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथापीठनामा प्रथमो लम्बक| गुणाढ्यकथा कथापीठनामा प्रथमो लम्बक प्रथमस्तरङ पाटलिपुत्रकथा उपकोशाख्यायिका वररुचिमुक्तिर्नाम द्वितीयो गुच्छः गुणाढ्यकथा पुष्पदन्तमाल्यवान्नमकथा कथापीठानामा गुणाढ्यकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत गुणाढ्यकथा Translation - भाषांतर माल्यवान्पार्वतीशापादवतीर्य महीतलम् । अमात्यः सुचिरं भूत्वा शातवाहनभूपतेः ॥१॥ गुरुर्गुणवतां लोके गुणाढ्य इति विश्रुतः । काणभूतिं समासाद्य शापबन्धादमुच्यत ॥२॥ जातिस्मरः स पृष्टोऽथ कथान्तरे काणभूत्ना । उवाच निजवृत्तान्तं कथा श्रुत्वा हरोदिताम् ॥३॥ अभूतां दाक्षिणात्यस्य द्विजातेः सोमशर्मणः । वत्सगुल्माभिधौ पुत्रौ श्रुतार्था कन्यका तथा ॥४॥ गते सभार्ये कालेन त्रिदिवं सोमशर्मणि । श्रुतार्था यौवनवती भ्रात्रोश्चिन्तावहाभवत् ॥५॥ कदाचिदथ कन्या सा गर्भिणी दुःखदा तयोः । बभूव पाण्डुरमुखी गर्भजृम्भास्खलद्गतिः ॥६॥ परस्परं शङ्कितयोर्भ्रात्रोः सा प्राह लज्जिता । स्वयं वृताहं नागेन ततो मे गर्भसंभवः । इत्युक्त्वा ध्यानमास्थाय ताभ्यां नागमदर्शयत् ॥७॥ सोऽब्रवीद्वासुकिभ्रातृपुत्रोऽहं दयिता च मे । शापाद्विद्याधरवधूः कन्येयं युवयोः स्वसा ॥८॥ गणावतारः पुत्रोऽस्या भविष्यति गुणाधिकः । उक्त्वेत्यदर्शनं याते भुजङ्गे मामसूत सा ॥९॥ मज्जन्मावधिशापौ च वत्सगुल्मौ निजं ततः । प्राप्तौ विद्याधरपदं कालेन जननी च मे ॥१०॥ ततो निखिलविद्यानामाश्रयो वेदपारगः । शातवाहनभूपालं द्रष्टुं यातोऽस्मि तत्पुरम् ॥११॥ तत्राश्रृणवमाश्चर्यं कलविद्याश्रयाः पथि । कथाः पण्यगृहद्यूतगीतवाद्यादिजीविनाम् ॥१२॥ कश्चिदाह घनातोद्यततवाद्येऽस्मि कोविदः । कश्चित्प्राह प्रगल्भोऽहमेक एव धनार्जने ॥१३॥ उवाच कश्चिद्विक्रीय गतासुं मूषकं पुरा ।चणकैर्हेमकोटीनां प्रभुरद्यास्मि भूरिदः ॥१४॥ कश्चित्प्रोवाच विक्रीय धनिनो मुग्धकामुकान् । वेश्यागृहेशु मतिमान्दातातीव भजेऽस्मि तम् ॥१५॥ श्रृण्वन्निति गिरस्तत्र नृपं वैश्रवणोपम म् । प्रविश्य शिष्यैः सहितो दृष्ट्वाहं मन्त्रितां श्रितः ॥१६॥ तत्र मन्त्रिपदं प्राप्य द्रष्टुमुद्यानमुत्तम म् । मया गोदावरीतीरे कात्यायिना विनिर्मितम् ॥१७॥ इति श्रुत्वा कथामध्ये काणभूतिरुवाच तम् । स शातवाहनाभिख्यां कथं प्राप्तो नरेश्वरः ॥१८॥ इति पृष्टो गुणाढ्यस्तं प्रोवाच विकचद्युतिः । दीपकर्णाभिधो राजा हरपूजारतोऽभवत् ॥१९॥ तस्य शक्तिमती देवी वल्लभाभूच्छुचिस्मिता । यस्याः कटाक्षबाणेन जनृम्भे विजयी स्मरः ॥२०॥ ततः कदाचिदानन्दसिन्धौ मधुपबान्धवे । आमोदमन्दरे काले कलिकालंकृते मधौ ॥२१॥ देवीकुचस्थले राजा प्रफुल्ललकुचस्थले । विजाहर स्मरोदारः स्वैरं हारिणि हारिणी ॥२२॥ राजपुत्री रतश्रान्ता स्रस्तकर्णोत्पला ततः । अवाप निद्रामुद्याने बालानिलचलालका ॥२३॥ सुखप्रसुप्तामभ्येत्य तां भुजङ्गोऽदशत्करे । रम्यं छिनत्ति सहसा पापः कालकुठारिकः ॥२४॥ स तया रहितो राजा विरहक्षामविग्रहः । ब्रह्मचर्यव्रतः स्वप्ने ददर्श वरदं शिवम् ॥२५॥ सिंहाधिरूढो विपिने सप्तवर्षः शिशुः स्थितः । अपुत्रस्य स ते पुत्रो भविष्यति वरान्मम ॥२६॥ इत्युक्तवाक्यमालोक्य प्रणतः शंकरं नृपः । अपश्यत्काननं गत्वा बालं केसरिवाहनम् ॥२७॥ डिम्भे च नलिनीखण्डक्रीडाडम्बरतत्परे । जिघृक्शुर्भूमिपालस्तं जघानैकेषुणा हरिम् ॥२८॥ शार्दूलो निहतस्तेन यक्षो भूत्वा वराकृतिः । त्वत्प्रसादादहं मुक्तः शापादित्यभ्यधान्नृपम् ॥२९॥ शातनामास्मि यक्षः प्राग्धनदानुचरो वने । मुनिभिः कन्यकाकामी शप्तः सिंहत्वमागतः ॥३०॥ सिंहीभूत्वा च सा कन्या शिशुं हरिणलोचनम् । अजीजनदिमं काले मत्त एव महाबलम् ॥३१॥ तस्यां विमुक्तशापायामहं विधृतबालकः । त्वच्छराघातनिर्मुक्तशापः प्राप्तो निजां श्रियम् ॥३२॥ इति वादिनमामन्त्र्य शातयक्षं नरेश्वरः । शातवाहनामसाद्य पुत्रं प्रायान्निजां पुरीम् ॥३३॥ इत्यन्वर्थान्वितः काले दीपकर्णसुतो नृपः । ररक्ष वसुधां धन्वी धैर्यभूः शातवाहनः ॥३४॥ स कदाचिद्वरोद्याने विमाने पुष्पधन्वनः । वसन्ते कामिनीकान्तो जलकेलिरतोऽभवत् ॥३५॥ निशिञ्चन्कङ्कणमणिच्छायाशवलवारिणा । तरुणीनां स्तनतटे विजहार स्मरोपमः ॥३६॥ तत्रैका महिषी राज्ञा हता सावेगमम्बुना । मामोदकेन राजेन्द्र ताडयेत्यभ्यधान्नृपम् ॥३७॥ श्रुत्वेति मूर्खो भूपालः क्षिप्रमाहृत मोदकः । मा वारिणेति देव्यास्तद्वचो श्रुत्वा ह्रियं ययौ ॥३८॥ शब्दज्ञाभिः स देवीभिर्भृत्यैश्च श्रुतशालिभिः । सान्तर्हासं मनाग्दृष्टो बभूव भृशखेदितः ॥३९॥ अस्पृष्टतीर्थसलिलैरजापैतरपस्विभिः । त्रिलोचनमनाराध्य कथं विद्याधिगम्यते ॥४०॥ सोऽथ शोकाग्निसंतप्तः समुत्सारितसेवकः । अविज्ञातामयोऽविद्यैस्तस्थौ मौनी दिवानिशम् ॥४१॥ कालेन शर्ववर्माख्यो मन्त्री सह मया नृपम् । प्रोवाच राजन्नस्थाने कोऽयं शोकग्रहस्तव ॥४२॥स्वयं शिक्षितया किं ते विद्यया चक्रवर्तिनः । विबुधास्त्वां निषेवन्ते पश्य शक्रमिवेश्वरम् ॥४३॥ अथाहमवदं ध्यात्वा गुणाढ्योऽहं यथार्थवाक् । पण्डितं त्वां विधास्यामि पञ्चभिर्वत्सरैरिति ॥४४॥ ततोऽब्रवीच्छर्ववर्मा मासैः षड्भिर्बहुश्रुतम् । अहं नृपं करिष्यामि विश्राम्यन्तु भवद्विधाः ॥४५॥ इति श्रुत्वा विहस्याहं कुपितस्तारमभ्यधाम् । भाषात्र ये भविष्यामि मौनीपारंगते त्वयि ॥४६॥ शर्ववर्माब्रवीदस्मि वोढा द्वादशवत्सरान् । त्वत्पादुके प्रतिज्ञैषा यदि मे न फलिष्यति ॥४७॥ प्रतिज्ञायेत तपसा विलोक्य वरदं गुहम् । स कातन्त्रेण नृपतिं मासैश्चक्रे बहुश्रुतम् ॥४८॥ ततः पराजितो मौनी नृपेण स्थातुमर्थितः । शिष्याभ्यां सहितो दुःखाद्यातोऽहं दिशमुत्तराम् ॥४९॥ तपसा तत्र रुद्राणीं दृष्ट्वा तद्वचसा ततः । त्वामासाद्य गते शापे मया जातिः स्मृता सखे ॥५०॥ ज्ञात्वा देवीप्रसादेन त्यक्तभाषात्रयोऽप्यहम् । पैशाचिमनपभ्रंशसंस्कृतप्राकृतां श्रितः ॥५१॥ गुणाढ्यकथा ॥६॥ N/A References : N/A Last Updated : October 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP