पुष्पदन्तमाल्यवान्नमकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गुणाढ्येनेति कथितं श्रुत्वा संहृष्टमानसः ।
काणभूतिः पुनः प्राह मुमुक्षुः शापबन्धनात् ॥५२॥
त्वदागमनमद्यैव मन्त्रिणा कथितं निशि ।
मम दिव्यदृशा धनं रक्षसा भूतिवर्मणा ॥५३॥
इदं कथय तावत्त्वं विपुलं कौतुकं हि मे ।
त्वं कथं माल्यवान्नाम्ना पुष्पदन्तः कथं च सः ॥५४॥
इति पृष्टः पिशाचेन गुणाढ्यः प्राह दिव्यधीः ।
द्विजाग्रहारे जाह्नव्यास्तीरे बहुसुवर्णके ॥५५॥
विर्पो गोविन्ददत्ताख्यो बभूव श्रुतिपारगः ।
पञ्चासंस्तस्य तनयाः सुरूपाः शास्त्रवर्जिताः ॥५६॥
मूर्खान्विनष्टमर्यादांस्तान्दृष्ट्वाभ्यागतो द्विजः ।
वैश्वानराभिधस्तेषां निनिन्द पितरं क्रुधा ॥५७॥
गोविन्ददत्तोऽप्यभ्येत्य प्रसाद्य क्रुद्धमग्रजम् ।
शुशोच तनयान्मौनी चण्डालानिव वर्जयन् ॥५८॥
ततः कनीयाञ्ज्येष्ठश्च पुत्रकौ तस्य लज्जया ।
जग्मतुस्तपसा द्रष्टुं देव्देवं त्रिलोचनम् ॥५९॥
विचित्रमाल्यैर्वलयैरर्चयित्वा महेश्वरम् ।
तद्वरान्माल्यवान्नाम योऽभवत्सोऽ‍हमग्रजः ॥६०॥
धन्योऽपरश्च यतधीर्वरं प्राप्य महेश्वरात् ।
कालेन भुक्तसंभोगो गणतां प्राप्स्यतीति सः ॥६१॥
चन्द्रमौलेर्वरं प्राप्य विद्यार्जनरतो महीम् ।
भ्रान्त्वा गुरुं वेदकुम्भमवाप श्रुत््परम् ॥६२॥
स कदाचिच्छ्रियं नाम भूपतेर्वसुवर्मणः ।
ददर्श यौवनवतीं तनयामतनुद्युतिम् ॥६३॥
सापि स्मरेणाभिहता तेन रूपवशीकृता ।
संज्ञां दन्तेन पुष्पाणी खण्डयन्ती मुहुर्व्यधात् ॥६४॥
संज्ञानभिज्ञो विवशः पुष्पचापशिलीमुखैः ।
तदन्वर्थमुपाध्यायाद्विवेद सरलाशयः ॥६५॥
उद्याने पुष्पदन्ताख्ये गूढं संवित्तया कृता ।
गुरोः श्रुत्वैव तत्रैव प्रयातस्तामवाप्तवान् ॥६६॥
तामासाद्य सुधासिक्तशरीर इव कातरः ।
जग्राह कण्ठे सोत्कण्ठमुत्कण्ठस्मरलालसः ॥६७॥
सा बभाषे तमानन्दमन्दिरं स्मितसुन्दरी ।
कथं ज्ञाता त्वया संज्ञा पृष्ट इत्यब्रवीच्च सः ॥६८॥
संतप्ते मयि विज्ञातमुपाध्यायेन धीमता ।
श्रुत्वेति सा वृषं मेने तं विशानविवर्जितम् ॥६९॥
ततो भयापदेशेन त्यक्त्त्वा तं हंसगामिनी ।
प्रययौ मुग्धमनसं रमन्ते न हि योषितः ॥७०॥
लज्जावमानविधुरस्तद्वियोगाग्नितापितः ।
स मुमोहेन्दुवदनाध्यानस्तिमितलोचनः ।
अत्रान्तरे व्रजन्व्योम्ना भगवान्पार्वतीपतिः ॥७१॥
तं विलोक्य कृपाविष्टो देव्या च स्वयमर्थितः ।
दिदेश पञ्चचूडाख्यं गणं तद्वाञ्छिताप्तये ॥७२॥
स धूर्जटिसमादिष्टः समेत्य ब्राह्मणान्तिकम् ।
तं समाश्वास्य विहितब्रह्मवेषो ज्वलन्निव ॥७३॥  
द्विजं कृत्वा वधूवेषं वसुवर्माणमभ्यगात् ।
तमुवाच महीपालभिमां रक्ष स्नुषां मम ॥७४॥
चिरं यातसुतं यावभ्द्रान्त्वा द्रक्ष्यामि भूतले ।
इत्युक्तो न्यासभूतां तां ततो जग्राह भूपतिः ॥७५॥
कन्यकान्तःपुरे राज्ञो धृत्वा तां ब्राह्मणो ययौ ।
स राजपुत्रीमालिङ्ग्य वधूवेषः शनैर्निशि ॥७६॥
कुर्वे किं नास्मि विज्ञातस्त्वया प्रज्ञासमन्विते ।
पुरा संज्ञानभिज्ञोऽहं मूर्खोऽसीति विडम्बितः ॥७७॥
त्वया स्मरशरैः सुभ्रु सदा सर्वो विमुह्यति ।
उक्त्वेति स्मरमञ्जर्या सुन्दर्या संगतस्तया ॥७८॥
ययावलक्षितः प्रातर्विजवेषधरं गणम् ।
गणोऽपि तं समादाय तरुणं जर्जराकृतिः ॥७९॥
उवाच गत्वा राजानं प्राप्तोऽयं तनयो मया ।
स्नुषां देहीति तच्छ्रुत्वा राजा ज्ञात्वा च तां गताम् ॥८०॥
श्येनरूपेण शक्रेण शिबिर्नरपतिः पुरा ।
परीक्षितो भ्रमन्त्येवं देवा इति भयान्नृपः ॥८१॥
द्विजं प्रसाद्य प्रनतो निजां दुहितरं ददौ ।
एवं गणप्रभावेन प्राप्य राजसुतं द्विजः ॥८२॥
त्स्यामुत्पाद्य तनयं महीपालं महीधरम् ।
पुष्पदन्तो गणः सोऽभूत्तयैवोद्यानसंज्ञया ॥८३॥
पुष्पदन्तमाल्यवान्नमकथा ॥७॥

N/A

References : N/A
Last Updated : October 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP