TransLiteral Foundation

उपकोशाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


उपकोशाख्यायिका
अवतीर्य धरां शापात्पुष्पदन्तो गणाग्रणी: ।
चिरं भूत्वा महामात्यो योगनन्दस्य भूपते: ॥१॥
मुहुर्नि: सारसंसारकलनां कलयन्धिय: ।
कात्यायनामिधो द्रष्टुं प्रयर्यो विन्ध्यवासिनीम्‍ ॥२॥
तपसा दर्शनं प्राप्य देव्यास्तव्दचसा गुहाम्‍ ।
गत्वापश्यन्महाभूतं पिशाचनिचयाचितम्‍ ॥३॥
काणभूतिं तमासाद्य पूजां प्राप्य व्दिजोचिताम्‍ ।
पप्रच्छ विकटाकारमटवीवासकारणम्‍ ॥४॥
स पृष्ट: प्राह यक्षोऽहं पापमित्रनिषेवणात्‍ ।
शप्तो धनाधिपतिना घोरां प्राप्त: पिशाचताम्‍ ॥५॥
इदं निरुदकं स्थानं शुष्ककण्टकिपादपम्‍ ।
शापोपनतमत्युग्रं पापेनाधिष्ठितं मया ॥६॥
भविता शापमोक्षो मे पुष्पदन्तसमागमात्‍ ।
श्मशानवासिन: शंभो: श्रुतं कथयतो मया ॥७॥
निशम्येति वचस्तस्य शनै: कात्यायन: कथाम्‍ ।
सस्मार पुष्पदन्तोऽहमिति संविदमास्थित: ॥८॥
काणभूतिस्ततस्तस्माच्छुश्रावाश्र्वर्यशालिनीम्‍ ।
कथां विद्याधरेन्द्राणां सप्तानां चक्रवर्तिनाम्‍ ॥९॥
त्वामभ्येत्य यदा मौनी ब्राह्मणो दक्षिणापथात्‍ ।
गुणाढय: श्रोष्यति त्वत्त: कथामेतां मयोदिताम्‍ ॥१०॥
तदाशापान्तमासाद्य भवान्स च गमिष्यत: ।
इति कात्यायन: प्राह कथान्ते तमुदारधी: ॥११॥
महत्तमं तमालक्ष्य तपसा मर्त्यविग्रहम्‍ ।
पप्रच्छ जन्मवृत्तान्तं काणभूति: कुतूहलात्‍ ॥१२॥
स तेन पृष्टोऽकथयन्निजांश्र्वर्यमयीं कथाम्‍ ।
द्रष्टुमभ्युत्सुक: शंभुमवाप्य निजसंविदस्‍ ॥१३॥
कौशाम्ब्यामभवव्दिप्र: सोमदत्तापराभिध: ।
अग्रिसोम: श्रुते: क्षेत्रं पवित्रचरितव्रत: ॥१४॥
तस्याहं वसुदत्तायां जात: श्रुतधराभिध: ।
कात्यायनो वररुचिश्र्वेत्यन्वर्थकृताहृय: ॥१५॥
बालस्य मम कालेन याते पितरि पञ्चताम्‍ ।
प्रतिश्रयार्थिनौ पान्थावस्माकं विशतुर्गुहम्‍ ॥१६॥
व्याडीन्द्रदत्तनामानौ तौ मे मतिमतां वरौ ।
ततो यदृच्छयायातनटनृत्यानुकारिणम्‍ ॥१७॥
यथा दृष्टघनातोद्यगीताभिनयकोविदम्‍ ।
विस्मयं जग्मतुर्वीक्ष्य ज्ञानग्रहणधारणै: ॥१८॥
अतीव विस्मितौ क्षिप्रं प्रहर्षोत्फुल्ललोचनौ ।
विज्ञाय नामधेयं मे मन्मातरमवोचताम्‍ ॥१९॥
ब्राह्मणौ वेतसपुरे वशिष्ठकुलसंभवौ ।
करम्भो देवसोमश्र्व श्लाघ्यमानौ बभूवतु: ॥२०॥
मातुस्तयो: स्वतनयौ भ्रान्तौ विद्यार्थिनौ महीम्‍ ।
पुरं पाटलिपुत्राख्यं कार्तिकेयवराद्रतौ ॥२१॥
विद्या वर्षव्दिजे सन्ति प्राप्येति स्कन्दशासनम्‍ ॥
प्रहृष्टवदनौ तत्र प्रविष्टौ वर्षमन्दिरम्‍ ॥२२॥
निवेद्य निजवृत्तान्तं वर्षोपाध्यायगेहिनी ।
आवाभ्यां गुरुवृत्तान्तं पृष्टा प्राह प्रियंवदा ॥२३॥
शंकरस्वामिनामाभूद्रह्मणो वेदपारग: ।
वर्षोपवर्षौ तस्येमौ तनयावतनुत्विष: ।
संप्राप्य विद्यामतुलां विश्रुतो लोकपूजित: ॥२४॥
कनीयानुपवर्षोऽस्य मम भर्तुर्महाधन: ।
ज्येष्ठश्र्वासावविज्ञातो मौर्ख्याद्दारिद्यमन्दिरम्‍ ॥२५॥
तत: कदाचिव्दिभवोन्मत्ता सरलचेतसे ।
उपवर्षस्य दयिता स्वयं वर्षाय निस्त्रपा ॥२६॥
भक्ष्यं जघनमुद्राडं पिष्टोव्दर्तननिर्मितम्‍ ।
ददौ प्रहृष्टस्तत्प्राय स च मह्यं न्यवेदयत्‍ ॥२७॥
स्त्रानप्रयासचकिता रजसो विनिवृत्तये ।
कुर्वन्ति शीतकालेषु स्त्रियस्तव्दिगतत्रपा: ॥२८॥
तमालोक्यास्मि निर्विण्णा त्यक्ता थूत्कृत्य भूतले ।
हा हता मूर्खभार्याहमित्यशोचमधोमुखी ॥२९॥
विमृष्य लज्जित : क्षिप्रं गत्वा चक्रे ततस्त्प: ।
वर्षो येनास्य भगवानभवव्दरदो गुह: ॥३०॥
देयं श्रुतधरायेदं ज्ञानामित्याप्तशासन: ।
सर्वज्ञतामवाप्यासौ पुन:प्राप्त: स्वमन्दिरम्‍ ॥३१॥
इत्युपाध्यायिनीवाक्यं श्रुत्वावां प्रणतौ गुरो: ।
आज्ञां श्रुतधराहाने प्राप्य भ्रान्तौ महीतलम्‍ ॥३२॥
कालेन त्वद्रॄहे मातर्दृष्टो‍ऽसौ तनयस्तव ।
यथार्थनामा मतिमानयं श्रुतधर: शिशु: ॥३३॥
आवां वररुचिश्र्वायं त्वद्दतो वर्षमन्दिरम्‍ ।
विद्यार्थिन: स्वस्तिमन्तो गच्छाम: शाधि न: शिवम्‍ ॥३४॥
ताभ्यामभ्यर्थिता माता कथंचिदथ मां शिशुम्‍ ।
आदिदेशाश्रुवदना प्रत्यग्रविहितव्रतम्‍ ॥३५॥
हृष्टस्तदनुग: प्राप्य वर्षवेश्म शनैरहम्‍ ।
तस्मात्प्राप्याखिलान्वेदान्विद्यानामाश्रयो‍ऽभवम्‍ ॥३६॥
तत: कदाचिदेकान्ते भुक्तान्ते समवस्थित: ।
पृष्ट: पाटलिपुत्रीयामुत्पत्तिं प्राह मे गुरु: ॥३७॥
अनावृष्टिहते काले भ्रातरो ब्राह्मणास्त्रय: ।
भार्यास्तिस्त्र: परित्यज्य पुरा जग्मुर्दिगन्तरम्‍ ॥३८॥
अजीजनत्सुतं काले तासामेकैव गर्भिणी ।
हेमलाभ: सदा तस्य मूर्धि गौरीपतेर्वरात्‍ ॥३९॥
प्रत्यहं खलु लब्धेन सहस्रेण स बालक: ।
कालेन पुत्रकाभिख्य: प्राप्य राज्यं जनप्रिय: ॥४०॥
तस्मिन्हरार्चनरते दातरि व्यक्तिमागते ।
भ्रान्त्वा दिगन्तानाजग्मुर्भिक्षार्थं ते व्दिजास्त्रय: ॥४१॥
विज्ञाय जननीवाक्यात्पुत्रकस्तान्महीपति: ।
पितरं च पितृव्यौ च सदा हृष्टोऽभ्यपूजयत्‍ ॥४२॥
सुखोषितास्ते शनकै: संभोगाद्दॄप्ततां ययु: ।
कं वा नाभिनवा लक्ष्मीर्वारुणीव विमोहयेत्‍ ॥४३॥
तेषां बुध्दिरभूद्राढमस्मिन्पुत्रे निपातिते ।
स्वयं राज्यमवष्टभ्य तिष्ठाम इति निश्र्विता: ॥४४॥
ते विन्ध्यवासिनीपूजामपदिश्यात्मजं नृपम्‍ ।
निन्युर्गृहं समाधाय तव्दधाय महाभटान्‍ ॥४५॥
तव्दिज्ञाय गुरुणां स प्रतीकारपराडमुख: ।
विन्घ्याटवीं विवेशैकस्त्यक्तराज्योऽथ पुत्रक: ॥४६॥
पुत्रके त्यक्तराज्येऽथ जाते तेषां व्दिजन्मनाम्‍ ।
राज्यं हृतं कातराणां शत्रुभिर्बलवत्तरै: ॥४७॥
पुत्रकोऽप्यटवीं प्राप्य निर्जनां धैर्यसागर: ।
अमर्त्योचितसंचारमवाप गिरिकन्दरम्‍ ॥४८॥
भ्रात्रोरसुरयो: पैत्रे धने विवदमानयो: ।
धावतोरधिको वेगो य: स स्वामी धने पितु: ॥४९॥
इति तव्दचसा वेगगमने द्रुतयोस्तयो: ।
उपानहौ च यष्टिं च प्राप्य पात्रं च तत्र स: ॥५०॥
यष्टिं समस्तनिर्माणे नभोगत्यामुपानहौ ।
पात्रं निखिलभोगेषु स प्राप्येप्सितसिध्दिदम्‍ ॥५१॥
साकज्जिकपुरीं गत्वा गूढं वृध्दा गृहे वसन्‍ ।
सेव्यमानस्तया प्राज्ञ: सततं काञ्चनप्रद: ॥५२॥
महेन्द्रवर्मणो राज्ञस्तनयां रुपशालिनीम्‍ ।
विश्रुतां तत्र शुश्राव पाटलां पाटलाधराम्‍ ॥५३॥
उपानहौ समादाय रात्रावुत्पत्य खेचर: ।
आकाशमन्दिरगतां तत्प्रविश्य ददर्श स: ॥५४॥
शयानां शयने स्वच्छे निजकान्त्युत्तरच्छदे ।
नभोगति: स तां सुप्तामैन्दवीमिव देवताम्‍ ॥५५॥
लावण्यसलिलस्मेरस्मरकल्लोलिनीमिव ।
खचरैरिव विन्यस्तां मानसाकर्षणौषधिम्‍ ॥५६॥
यौवनोद्यानसंरुढां विलासलतिकामिव ।
तां विलोक्य स्फुरद्रत्नकतिकामिव ॥५७॥
सहसा बोधयाम्येनां सुखसुप्तामहं कथम्‍ ।
चित्रन्यस्त इव क्षिप्रमिति ध्यानपरोऽभवत्‍ ॥५८॥
चिन्तादोलायिते तस्मिन्बहि: कश्र्वित्प्रसडत: ।
यामिको यामिकं प्राह स्वैरं निजकथान्तरे ॥५९॥
निद्रामुद्रितलोललोचनरुचिभ्राजिष्णुकर्णोत्पला
मर्धावृत्तनिमेषहुंकृतिपदां जृम्भाभिरामां मुहु: ॥
य: प्राप्येन्दुमुखीं स्वयं न सहसा कण्ठे समालम्बते
स प्राय: किमु पापदग्धविधिना सृष्ट: शिलापुत्रक: ॥६०॥
इत्याकर्ण्य प्रहृष्ट: स पुत्रक: प्राह विस्मित: ।
मामिवोद्दिश्य साधूक्तमहो केनापि धीमता ॥६१॥
इत्युक्त्वा पाटलां कण्ठे जग्राह मदनाकुल: ।
नवोत्कम्पिकुचन्यस्तह स्तस्वस्तिककञ्चुकाम्‍ ॥६२॥
सा तेन त्रासविचलल्लोचनव्याकुलोत्पला ।
क्रान्तानताननाम्भोजा गजेनेव सरोजिनी ॥६३॥
श्यामेव विस्फुरच्चित्रहारमौक्तिकतारका ।
स्मरस्मयभयभ्रान्तिभाजनं सहसाभवत्‍ ॥६४॥
एवं प्रतिनिशं श्यामा संगमानडभडिना ।
तेन कान्तबसन्तेन स्वैरं सा पुष्पिताभवत्‍ ॥६५॥
कालेन स परिज्ञातो राज्ञा प्रच्छन्नकामुक: ।
आदाय पाटलां व्योम्ना प्रययौ जाहृवीतटस्‍ ॥६६॥
सुखोषितस्तत्र तया सेव्यमानोऽथ पुत्रक: ।
चकार नगरं यष्टिलेखाभिर्हेममन्दिरम्‍  ॥६७॥
पाटला वचसा राज्ञा पुत्रकेणाथ निर्मितम्‍ ।
पुरं पाटलिपुत्राख्यमिदं विद्यानिवेशनम्‍ ॥६८॥
पाटलिपुत्रकथा ॥१॥
===========================
इति श्रुत्वा गुरोर्विद्या: प्राप्य सर्वा: सुखोषित: ।
अवापमुपकोशाख्यामुपवर्षगुरो: सुताम्‍ ॥६९॥
उपकोशामवाप्याहं नीलनीरजलोचनाम्‍ ।
स्मरसाम्राज्यमभजं भाजनं सुखसंपद: ॥७०॥
व्याडीन्द्र्दत्तहिते सर्वज्ञे मयि विश्रुते ।
पाणिनिर्नाम वर्षस्य शिष्य: पूर्वं जडाशय: ॥७१॥
तपसा शंकरात्प्राप्य नवं व्याकरणं वशी ।
दिनान्यष्टौ विवादे मे प्रतिवादी च मेऽभवत्‍ ॥७२॥
मया जिते ततस्तस्मिन्हुंकारेण विमोहयन्‍ ।
जहार नो हर: कोपादैन्द्रव्याकरणस्मृतिम्‍ ॥७३॥
सहसा विस्मृते तस्मिंस्तपसे कृतनिश्चय: ।
द्रष्टुं स्मरहरं भर्ग वरदं पार्वतीपतिम्‍ ॥७४॥
हिरण्य़गुप्तनाम्नोऽथ वणिज: प्रतिवेश्मन: ।
हस्ते गृहव्ययधनं विनिक्षिप्य गते मयि ॥७५॥
उपकोशा विरहिणी नवयौवनशालिनी ।
श्रुतज्ञा प्रोषिता योग्यं व्रतं चक्रे पतिव्रता ॥७६॥
याति काले कदाचित्तां हारिणीं हंसगामिनीम्‍ ।
तनुस्वच्छाम्बरस्मेरस्फारफेनविलासिनीम्‍  ॥७७॥
विस्तीर्णश्रोणिपुलिनां श्यामां नेत्रनवोत्पलाम्‍ ।
सततस्नायिनीं गडां व्रजन्तीं यमुनामिव ॥७८॥
युवा लक्ष्मीमदोन्मत्त: क्ष्मापतेर्दण्डवासिक: ।
पुरोहितश्च मन्त्री च ददृशु: स्मरमज्जरीम्‍ ॥७९॥
तां वीक्ष्य मन्मथावेशात्स्थितेष्वथ पृथक्पृथक्‍ ।
तेषु मन्त्रिसुत: प्राह प्रथमं भज मामीति ॥८०॥
स्रानात्प्रतिनिवृत्ता सा वीक्ष्य संध्यामुपस्थिताम्‍ ।
भीता तमभ्यधादस्तु तृतीयेऽ ह्रि निशागमे ॥८१॥
समागमस्तव मया वञ्चयित्वेति तं ययौ ।
तस्मात्प्रतिनिवृत्ताथ पुरोहितमुवाच सा ॥८२॥
व्दितीययामे यामिन्यास्तृतीयेऽ ह्रि वशास्मि ते ।
उक्त्वेति तस्मादुत्तीर्णा द्ण्डेवासिकमभ्यधात्‍ ॥८३॥
तृतीयेऽह्रि तृतीयांशे शर्वर्यां वशगास्मित ते ।
इति संविदमाधाय त्यक्त्वा तानविशद्रृहम्‍ ॥८४॥
कीर्णोत्पला इव दृशो विधाय चकितेक्षितैः ।
प्रस्तुतापह्नवापाया निजभर्तृधनार्थिनीम् ॥८५॥
हिरण्यगुप्तोऽपि गृहे तामयाचत संगम म् ।
तृतीयेऽह्नि निशाशेषे स्वाधीना तेऽस्मि का क्षतिः ।
इत्युवा तं परिजने कथामेतां न्यवेदयत् ॥८६॥
ततः प्राप्ते तृतीयेऽह्नि तस्या मन्त्रिसुतो गृहम् ॥८७॥
उपकोशा तमवदन्नास्नाते त्वयि मे रतिः ।
इति तस्या गिरा स्नातुं विवेशान्धगृहोदरम् ॥८८॥
तत्रोद्वर्तनमादाय मसृणं तैलकज्जलम् ।
लिलिपुश्चेटिकास्तस्य चिरं गात्राणि कामिनः ॥८९॥
अथान्यस्मिन्निशायामे तूर्णं प्रपते पुरोहिते ।
मञ्जूषरूपं संदर्श्य विवृतं दारुकोष्टकम् ॥९०॥
प्रविस प्रविश क्शिप्रमसौ प्राप्तो गृहाधिपः ।
इत्युक्त्वा कोष्टके ज्येष्ठमुपकोशा न्यवेशयत् ॥९१॥
दत्वा लोहार्गलां तस्मिन्पुरोहितमुवाच सा ।
नास्नातोऽर्हसि मां स्प्रष्टुमिति सोऽपि तथा कृतः ॥९२॥
तस्मिंस्तैलमशीलिप्ते तृतीयोऽपि समाययौ ।
सत्यं स्मरविदग्धेन मुग्धः को न विडम्बितः ॥९३॥
पुरोहितेऽपि विन्यस्ते तत्रैव भयविह्वले ।
सोऽपि क्रमेण तेनैव पिशाचसदृशः कृतः ॥९४॥
हिरण्यगुप्ते संप्राप्ते रात्रिशेषे वणिग्वरे ।
दारुभाण्डे तथैवासौ निहितो दण्डवासिकः ॥९५॥
अथोपकोशा वणिजमुपविष्टं वरासने ।
कोष्ठकाभिमुखी प्राह निक्षेपो दीयतामिति ॥९६॥
हिरण्यगुप्तस्तामाह भज मां चारुलोचने ।
तव भर्त्रा विनिक्षिप्तं विद्यते सुतनो धनम् ॥९७॥
सा श्रुत्वेत्यवदत्तारं श्रृण्वन्तु गृहदेवताः ।
भूतानि साक्षिणः सन्तु विद्यतेऽस्मिन्धनं मम ॥९८॥
इत्युक्त्वा स्नानकूटेन कृत्वा तमपि कज्जलैः ।
दुष्प्रेक्ष्यमब्रवीत्क्षीणा क्षपा गच्छेति सत्वरम् ॥९९॥
वणिक्संतर्जनभयात्प्रययौ संवृताननः ।
भक्ष्यमाणो लुब्धकानां कृतकोलाहलैः श्वभिः ॥१००॥
इति रक्षितचारित्रा गते तस्मिन्मनस्विनी ।
प्रातर्नन्दस्य नृपतेः सर्वास्थानसभां ययौ ॥१०१॥
उपवर्षस्य दुहिता भार्या वररुचेः सती ।
प्राप्तेत्यावेदिता तत्र मानिता भूभुजावदत् ॥१०२॥
निह्नुतं वणिजा राजन्मम भर्तुर्धनं बहु ।
न्यासं हिरण्यगुप्तेन प्रमानमधुना नृप ॥१०३॥
ततस्तस्मिन्समाहूते प्राप्ते वितथवादिनि ।
उपकोशावदद्देव साक्षिणः सन्ति मे गृहे ॥१०४॥
आनीयन्तां मम गृहाद्देवताः कोष्ठकस्थिताः ।
ता वक्ष्यन्ति यथातथ्यमित्युक्त्वा विरराम सा ॥१०५॥
नृपाज्ञया समानीते मञ्जूषाकोष्ठके नरैः ।
विन्यस्ते च सभामध्ये पुनराह पतिव्रता ॥१०६॥
भो भो सततपूजाढ्याः सत्यं मे ब्रूत देवताः ।
क्षिप्रं दहामि मञ्जूषां साक्ष्ये चेन्मौनमाहितम् ॥१०७॥
श्रुत्वेति भीतास्ते प्राहुः सत्यमस्त्येव ते धनम् ।
हस्ते हिरण्यगुप्तस्य साक्षिणोऽत्रा त्रयो वयम् ॥१०८॥
इत्याकर्णाद्भुतं सर्वे विस्मितास्ते सभासदः ।
ददृशुस्तां समुद्धाट्य मषीलिप्तान्दिगम्बरान् ॥१०९॥
ततो विदितवृत्तान्तस्तान्निगृह्य महीपतिः ।
धनेन धर्मभगिनीमुपकोशामपूजयत् ॥११०॥
अत्रान्तरे वराच्छंभोः स्मृतव्याकरणोऽप्यहम् ।
श्रुत्वा निजगृहोदन्तं प्रहृष्टो गुरुमभ्यगाम् ॥१११॥
उपकोशाख्यायिका ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-02T19:48:34.1500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

CAṀPAKA(चंपक)

  • A vidyādhara. Once he visited the banks of river Yamunā with his wife Madālasā when they got from the forest nearby a child. The child in later years became famous as Ekavīra, founder of the Hehaya dynasty. (See EKAVĪRA). 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.