संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सिद्धसिद्धान्तपद्धतिः| अमरौघप्रबोधः सिद्धसिद्धान्तपद्धतिः सिद्धसिद्धान्तपद्धतिः योगविषयः अमरौघप्रबोधः अथ योगमार्तण्डग्रन्थः प्रारम्भः गोरख उपनिषद् मत्स्येन्द्रनाथजी का पद अथ भरथरी जी का सबदी अथ चिरपटजी की सबदी अथ गोपीचंद जी की सबदी अथ जलंधरी पावजी की सबदी श्रीमद्गोरक्षनाथविरचितः - अमरौघप्रबोधः सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath. Tags : gorakshanathhath yogsanskritगोरक्षनाथसंस्कृतहठ योग अमरौघप्रबोधः Translation - भाषांतर ओं नमोsस्त्वादिनाथाय मीननाथाय वै नमः ।नमश्चौरङ्गिनाथाय सिद्धबुद्धाय धीमते ॥१॥लयादिप्रतिपन्नानां कलहोत्सुकचेतसाम् ।गोरक्षकेण कथितः प्रबोध - प्रत्ययात्मकः ॥२॥लययोगो हठश्चैव मंत्रयोगस्तृतीयकः ।चतुर्थो राजयोगश्च द्विधाभवविवर्जितः ॥३॥यच्चित्तसन्ततलयः स लयः प्रदिष्टः ।यस्तु प्रभञ्जनविधानरतो हठस्सः ।यो मंत्रमूर्तिवशगः स तु मन्त्रयोगः ।यश्चित्तबृत्तिरहितः स तु राजयोगः ॥४॥ओषध्योsध्यात्मकश्चेति राजयोगो द्विधा क्कचित् ।हठोsपि द्विविधः क्कापि वायुबिन्दुनिषेवणात् ॥५॥षट्कर्मप्रतिपत्तिहेतुकमिदं मंत्रं न तद् दृश्यते ।भ्रूनासादिषु कीटवन्न ( द ) हि मनो मग्नं कथञ्चिद्भवेत ॥आधारे पवनो न याति विविधादभ्यासतो योगिनाम् ।नित्यानन्दमयात्प्रभावनिलयाच्छ्रीराजयोगादृते ॥६॥नित्यं मंत्रयतो लभेन्न नृपतां ( तिः ) नैवाधिपत्यं तथा ।दिव्यस्त्रीनवसङ्गमोsप्यनुदिनं न ध्यायतो लभ्यते ॥हस्तिनास्तुरगः खराच्च करभः शाल्योदनं कोद्रवात् ।जायन्ते हठतः कथं वद विभो स्वीयं प्रभावं विना ॥७॥केचिन्मूत्रं पिबन्ति प्रमलमशनतः केचिदश्नन्ति लालां ।केचित्काष्ठीं प्रविष्टा युवतिभगवशाद्विन्दुमूर्ध्वं नयन्ति ॥केचित्खादन्ति धातून्निखिलतनुसिरा वायुसञ्चारदक्षाः ।नैतेषां देहसिद्धर्विगतनिजमनो राजयोगादृतेsस्मात् ॥८॥चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे एषाsमरोली वज्रोली सहजोली मतेति च ॥९॥तथाच श्रीसम्पुटे :-बिभ्राणः पवनं हठान्नियमितं ग्रासोsस्ति मीनोदरे ।कैवल्यो भगवान्विमुच्य सहसा यावन्नचेतत्यसौ ॥तं चोक्त्वा गिरिशेन भाषितमिदं कालो न चेतः परं ।पार्वत्या सह मीननाथमवदनित्यं चिरं जीमहि ॥१०॥यदि जीवेदोषधीभिः संसारे निरुपद्रवे ।आमयास्ता जराग्रस्ता म्रियन्ते भिषजः कथम् ॥११॥चरकानुचरणचतुराश्चटुलधियः सुश्रुतश्रवणलोलाः ।अमरस्कौषधि.... वा ...ज्या कथमखिलंगतं तत्क्षयो भवति ॥१२॥बिन्दुनादौ महौषध्यौ विद्येते सर्वजन्तुषु ।तावविज्ञाय सरेsपि म्रियन्ते गुरुवर्जिताः ॥१३॥चालयेत्संवृतं वायुं भानुमग्निंच धुक्ष्यति ।ज्वलन्नसौ चलत्यस्माद्वीजश्चलति पार्वति ॥१४॥यो जानात्यनयोस्सारं सद्गुरोरुपदेशतः ।कालक्लेशजराव्याधिपापमृत्युभयं कुतः ॥१५॥निर्याते चित्तरागे व्रजति खररुचौ मेरुमार्गं समन्तात् ।दुद्रज्ञे ( ? ) वन्हिभावे स्रवति शशधरे पूरयत्याशुकाये ॥उद्यत्यानन्दवृन्दे त्यजति तव ममेत्यादि मोहान्धकारे ।प्रोद्भिन्ने ब्रह्मरन्ध्रे जयति शिव शिवा सङ्गमः कोप्यपूर्वः ॥१६॥एक एवामरौघो हि राजयोगाभिधानकः ।लयादिभिस्समायुक्तश्चतुर्थो दीयते कथम् ॥१७॥मृदुमध्याधिमात्रश्च अधिमात्रतरस्तथा ।चतुर्धा साधको ज्ञेयस्तत्सोपानमिहोच्यते ॥१८॥मन्दोत्साही मन्दरागी पराधीनो विदूषकः ।व्याधिस्थो हीनसत्वश्च ग्र ( गृ ) हवासी मृदुः स्मृतः ॥१९॥समबुद्धिः समाभ्यासी समकायः समाश्रयः ।मध्यस्थः सर्वकार्येषु मध्यसत्वोsभिधीयते ॥२०॥क्षमावीर्यनयैर्युक्तो वयस्थस्सत्त्ववानपि ।स्वाधीनश्च खरश्शूरस्सोsधिमात्रो निगद्यते ॥२१॥सर्वशास्त्रकृताभ्यासो मनोज्ञो वीर्यशौर्यवान् ।निर्मोहस्सर्वसम्पन्नो निर्विकारो महाश्रयः ॥२२॥अधिमात्रतरस्सोsपि महाकायः प्रवर्तते ।तरन्ति भवोम्भोधिं तारयन्ति परानपि ॥२३॥मृदवे दीयते मंत्रो मध्याय लय उच्यते ।अधिमात्रे हठं दद्यादमरौघो महेश्वरे ॥२४॥तत्र मंत्रम् :-अह ( ओ ) मिति एकाक्षरं मंत्रं तच्च सप्रणवादिकम् ।शिवं शम्भुं हृदि ध्यात्वा द्वादशे भिन्नमण्डले ॥२५॥एकलक्षजपान्मृत्युं नाशयेदतिदारुणम् ।दशांशं हवनं कृत्वा क्षौद्रक्षीरघृताम्बुजैः ॥२६॥अथलय :-कामरूपे शिवं देवं लिङ्गाभं मणिसन्निभम् ।स्रवन्तं चामृतरसं यो ध्यायेन्निजविग्रहे ॥२७॥निरन्तरकृताभ्यासात्षण्मासात् सिद्धिभाग्भवेत् ।वलीपलितनिर्मुक्तो जीवेदब्दशतत्रयम् ॥२८॥अथ हठ :-पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् ।प्रसारितं पदं धृत्वा कराभ्यां पूरयेन्मुखे ॥२९॥कण्ठे बन्धं समारोप्याधाराद्वायुमूर्धतः ।यथा दण्डाहतस्सर्पो दण्डाकारः प्रजायते ॥३०॥ऋजुभूता तदा शक्तिः कुण्डली सहसा भवेत् ।तदासौ मरणावस्था जायते द्विपुटाश्रिता ॥३१॥महारोगा महाक्लेशा जीर्यन्ते मरणादयः ।महामुद्रांच तेनैनां वदन्ति विबुधोत्तमाः ॥३२॥महामुद्राकृता येन साधकाय प्रसिध्यति ।कथ्यतेsसौ महाबन्धो जरामरणनाशकः ॥३३॥पूरयित्वा मुखे वायुं हृदये चु ( चि ) बुके कृते ।निभृतं योनिमाकुञ्चेन्मनो मध्ये नियोजयेत् ॥३४॥अयं च सर्वनाडीनामूर्ध्वं गतिविशोधनः ।त्रिवेणीसङ्गमं कृत्वा केदारं प्राययेन्मनः ॥३५॥रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना ।महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥३६॥सव्यं प्रसारितं पादं कराभ्यां धारयेद् दृढम् ।आन्दोलनं ततः कूर्याच्छरीरस्य त्रिमार्गतः ॥३७॥पुनरास्फालनं कट्यां सुस्थिरं कण्ठमुद्रया ।वायुना गतिमाहृत्य कृत्वा पूरककुम्भकौ ॥३८॥समहस्तयुगो भूत्वा समपादयुगस्तथा ।वेधयेत्क्रमयोगेन चतुष्पीठं तु वायुना ॥३९॥आस्फालयेन्महामेरू वायुवज्राग्निकोटिभिः ।पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥४०॥सोमसूर्याग्निसम्बन्धं जानीयादमृताय वै ।मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः ॥४१॥एतत्त्रयं महागुण्यं जरामृत्युविनाशनम् ।अष्टधा क्रियते चैतत् यामे यामे दिने दिने ॥४२॥वह्निवृद्धिकरं चैव अणिमादिगुणप्रदम् ।पुण्यं सञ्चयसंहारि पापौघभिदुरं सदा ॥४३॥सम्यगूशिक्षावतामेवं स्वल्पं प्रथमसाधने ।वह्निस्त्रीपथसेवानामादौ वर्जनमाचरेत् ॥४४॥आरम्भश्च घटश्चैव प्रत्ययश्च तृतीयकः ।निष्पत्तिः सर्वयोगेषु योगावस्था चतुर्विधा ॥४५॥ब्रह्मग्रन्थेर्भवेद् वेधादानन्दानुभवः स्वयम् ।विचित्रक्वणको देहेsनाहतः श्रूयते ध्वनिः ॥४६॥द्विव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् ।सम्पूर्णहृदयश्शूर आरम्भे योगिनो भवेत् ॥४७॥द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः ।दृढासनो भवेद्योगी ज्ञानादेव समप्रभः ॥४८॥विष्णुग्रन्थेस्तथा वेधात् परमानन्दसूचकः ।अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत् ॥४९॥तृतीयायां ततो भित्त्वा विपाको ( विहायो ) मर्द्दलध्वनिः ।महाशून्यं तदा जातं सर्वसन्धि ( सद्धि ) समाश्रयम् ॥५०॥चित्तानन्दं ततो जित्वासहजानन्दसम्भवः ।दोषमृत्यु - जरा - दुःख - क्षुधा - निद्राविवर्जितः ॥५१॥रुद्रग्रन्थिं ततो भित्त्वा सत्वपीठगतोsनिलः ।निष्पत्तौ वैणवश्शब्दः क्वणन्वीत ( न्निव ) क्वणो भवेत् ॥५२॥एकीभूतं तदा चित्तं राजयोगाभिधानकम् स्रुष्टिसंहारकर्ताsसौ योगीश्वरसमोभवेत् ॥५३॥न नादो न च बिन्दुश्च न चेतो नाप्यचेतनः ।नाभ्यासदुस्तरं किञ्चित् राजयोगो निगद्यते ॥५४॥लीनं यत्र चराचरं लयवशात् तल्लिङ्गमित्युच्यते ।सा शक्तिर्यदचिन्त्यरूपगहनाल्लोकत्रयोद्भासिनी ॥तद्ध्यानं यदशेषवस्तुविषयव्यापारहीनं मनः ।तत्क्षात्र ( ? तत्क्षेत्रं ) यदसीमकालपटलध्यानासनं हेलया ॥५५॥पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः ।काठिन्यात्पृथिवी ज्ञेया पानीयं यद् द्रवाकृतिः ॥५६॥दीपनं तु भवेत्तेजः स्पर्शे वायोस्तथा भवेत् ।आकाशे चेतनं सर्वं ज्ञातव्यं योगमिच्छता ॥५७॥षट्च्छातान्यधिकान्यत्र सहस्राण्येकविशतिः ।अहोरात्रं वहेच्छ्वासो वायुमण्डलरेचनात् ॥५८॥तत्पृथ्वीमण्डले क्षीणे बलिरायाति देहिनाम् ।तोये क्षीणे तृणानीव चिकुराः पाण्डुराः क्रमात् ॥५९॥तेजःक्षीणे क्षुधाक्लान्तिर्नश्यते मारुते श्लथे ।वेपथुश्च भवेन्नित्यं साहसेनैव जीवति ॥६०॥इत्थंभूतक्षयान्मृत्युर्जीवितं भूतधारणात् ।प...ञ्चेद्वर्षशते लक्ष्येन्नान्यथा मरणं भवेत् ॥६१॥यामाष्टककृताभ्यासात्सर्वाञ्छ्वासान् ग्रसत्यसौ ।स षोडशकलोपेतश्शशी तिष्ठति पूरकान् ( त् ) ॥६२॥निस्तरङ्गे स्थिरे चित्ते वायुर्भवति मध्यगः ।रविरूर्ध्वपदं याति विन्दुना याति वश्यताम् ॥६३॥आनन्दपूरितो योगी जायते शिवसन्निभः ।तदेश्वरगुणास्सर्वे दृश्यन्ते दशमासतः ॥६४॥इत्यमरौघसंसिद्धौ गोरक्षेण प्रकाशितः ।लयाद्युपायकौशल्यप्रबोधप्रत्ययात्मकः ॥६५॥सर्वचिन्तां परित्यज्य दिनमेकं परीक्ष्यताम् ।यदि तत्प्रत्ययो नास्ति तदा मे तु मृषा वचः ॥६६॥रुमो ( ? ) मरीचि खद्योत दीपज्वालेन्दु भास्कराः ।अमी कला महाबिम्बं विश्वबिम्बं प्रकाशते ॥६७॥प्रबोधं यो न जानाति सोsमरौघं न विन्दति ।समीभावे समुत्पन्ने चित्ते द्वैतविवर्जिते ॥६८॥अहं ममेत्यपीत्युक्त्वा सोsमरौघं विचिन्तयेत् ।चित्तं जीवितमित्याहुरचित्तं मरणं विदुः ॥६९॥चित्ताचित्ते समीभूते जीवन्मुक्तिरिहोच्यते ।यत्र स्वभावसद्भावो भाषितुं नैव शक्यते ॥७०॥न जीवति ततः कोsपि न च कोsपि मरिष्यति ।राजयोगं पदं प्राप्य सर्वसत्त्ववशङ्करम् ॥७१॥सर्वं कूर्यान्न कूर्याद्वा यथारुचि विचेष्टितम् ।नग्नः कोsपि गुहासु दिव्यवसनः कौपीनवासाः क्कचित् ।दिव्यस्त्रीसुरतान्वितोsपि कुहचित्स ब्रह्मचारी क्वचित् ।भिक्षाहाररतः क्कचित् क्कचिदपि प्राप्नोति भोगास्पदम् ।सर्वत्राप्रतिबद्धवृत्तिरखिलक्लेशापहा योगिराट् ॥७२॥श्रीमद्गोरक्षनाथेन सदामरौघवर्तिना ।लयमंत्रहठाः प्रोक्ताः राजयोगाय केवलम् ॥७३॥कायेनैव परीक्षेत वाक्पटुः किं करिष्यति ।चिकित्सापाठमात्रेण रोगिणः किं करिष्यति ॥७४॥॥ इति श्रीमद्गोरक्षनाथविरचितं - अमरौघप्रबोधं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 25, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP