संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|अयोध्याकांडम्| काव्य २५१ ते ३०० अयोध्याकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० अयोध्याकांडम् - काव्य २५१ ते ३०० महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २५१ ते ३०० Translation - भाषांतर प्रां ज लिं जानकीमाह ब्राह्मणी ब्रह्मवादिनी ` बालापि वत्से ! प्रौढा त्वं दिष्ट्या धर्ममवेक्षसे. ॥२५१॥प्रि य मेतं त्वमेवं चेद्वत्से ! नित्यमनुव्रता शुद्धं यशश्च धर्मं च जगत्सु जमवाप्त्यासि. ॥२५२॥` म म सर्वं प्रियं मातर्जातं त्वत्पाददर्शनात, कृतकृतास्मि ते दृष्ट्या दुर्लभोऽयमनुग्रहः. ' ॥२५३॥भा ज नं तां प्रसादस्य ज्ञात्वा सीतामथाब्रवीत्, ` इदं दिव्यं वरं माल्यं भूषणान्यंबरं वरम् ॥२५४॥भा ज नं तां प्रसादस्य ज्ञात्वा सीतामथाब्रवीत् ` इदं दिव्यं वरं माल्यं भूषणान्यंबरं वरम् ॥२५५॥प्र य च्छामि गृहाण त्वमंगरागं च कन्यके ! शोभयिष्यसि गात्राणि सर्वमेतत्सदा नवम्. ' ॥२५६॥स्र ज स्तथांगरागं च वस्त्रमाभूषणानि सा प्रतिगृह्यांतिके तस्थौ बद्धांजलिरुदारधीः. ॥२५७॥प्रि य मस्या मुनेः पत्न्याः कर्तुं सीता स्वयंवरम् आत्मनः कथयामास पृष्टं सर्वं सविस्तरम्. ॥२५८॥तां रां मोऽलंकृतां दृष्ट्वा जानकीमनसूयया जहर्ष लक्ष्मणोऽप्यत्रिं मुनिमापृच्छय निर्ययौ. ॥२५९॥स म यूरमिवांभोदो मुनिसंघं प्रहर्षयन् वनं विवेश श्रीरामो मनः शुद्धं सतामिव. ॥२६०॥इति श्रीरामनंदनमयूरविरचिते श्रीमन्मंत्ररामायणेऽयोध्याकांडे विंशतितमो मंत्रः समाप्तः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP