अयोध्याकांडम् - काव्य १५१ ते २००

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


रा ज पुत्रीं नतां श्वश्रूः कौसल्या मणिभूषणैः
भूषयित्वा समालिंग्य साश्रु प्राह मनस्विनी. ॥१५१॥
` प्र य ता भज भर्तारं पतिरेव गतिः स्त्रियाः
तव देवसमस्त्वेष सधनो निर्धनोऽपि वा. ॥१५२॥
भ ज नीयोऽवमंतव्यो नायं प्रव्रजितोऽपि ते
जनकस्य सुताऽसि त्वं धर्म जानासि शाश्वतम्‍. ' ॥१५३॥
सा य ज्ञक्षितिसंभूता श्वश्रूं प्रोवाच सांजलिः
` करिष्ये सर्वमेवाहं आर्या यदनुशास्ति माम्‍. ' ॥१५४॥
तां रा मः प्रांजलिः प्राह मातरं पुत्रवत्सलाम्य़
` अंब ! मा दुःखिता हूत्वा पश्येस्त्वं पितरं मम. ॥१५५॥
स म ग्रमिह संप्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्
सुप्तायास्ते गमिष्यंति नव वर्षाणि पंच च. ' ॥१५६॥
सु श्री रेवं प्रसूमुक्त्वा मातॄरन्या नतोऽब्रवीत्‍,
` संवासात्‍ परुषं किंचिदज्ञानादपि यत्कृतम्‍ ॥१५७॥
आ रा धने यत्स्खलितं मातरः शीरभूषणाः
तन्‍ मे समुपजानीत सर्वाश्चामंत्रयामि वः. ' ॥१५८॥
स म स्तास्ता इति श्रुत्वा रामस्य प्रांजलेर्गिरम्
रुरुदुर्वत्सला रामास्तस्मै प्रदुदुराशिषः. ॥१५९॥
व्य ज नानिलशीतांबुहृतमोहं धरापतिम्‍
नत्वा सौमित्रिसीताभ्यां सह रामो विनिर्ययौ. ॥१६०॥
प्र य त्नात्प्रणतं पुत्रं सुमित्रा पुत्रवत्सला
` रामं दशरथं विद्दि मां विद्धि जनकात्मजाम ॥१६१॥
त्वं रा जधानीमटवीं विद्धि शत्रुघ्नपूर्वज ! '
अश्रुपूर्णमुखीत्याह प्रस्थितं निर्जनं वनम्‍.  ॥१६२॥
अ म लात्मा ` तथे ' त्युक्त्वा नत्वा सर्वा नृपांगनाः
रामेण सीतया सार्धमारुरोह रथोत्तमम्‍. ॥१६३॥
` व्र ज तूर्ण'मिति प्राह सुमंत्रं राम आत्मवान्‍
यं जनेशो जनश्चापि ` क्षणं तिष्ठे'त्यचोदयत्‍. ॥१६४॥
प्रि य पुत्राननं द्रष्टुमुत्थाय द्वारमाअतः
गच्छत्येव द्रुतं रामे पपात हुवि भूपतिः ॥१६५॥
न ज नन्या न तातस्य न मित्राणं तथा वचः
तत्पूर्वं मानयामास रामः श्रुत्वाप्यकर्णवत्‍. ॥१६६॥
श य नं चरमं मत्वा स्त्रियो रुरुदुरुच्चकैः
कौसल्या पतिमुत्थाप्य समाश्वासयदाकुलम्‍. ॥१६७॥
सा रा ज्ञ्यस्य भुजं धृत्वा दक्षिणं मंदिरांतर
नेतुं प्रचलिता वामं कैकेयी चार्थलालसा. ॥१६८॥
अ म नोज्ञचरित्रां तामाह राजा, ` न मां स्पृश
नाहं त्वां द्रष्टुमिच्छामि न त्वं भार्या न बांधवी. ॥१६९॥
स श्री लाभात्प्रतीतः स्याद्भरतश्चेद्दुराशये !
यन्मे प्रदद्यात्प्रीत्यर्थ मा मां तद्दत्तमन्वगात्‍. ॥१७०॥
का रा मे बत ! कैकेय्या गेहमेतदसंशयम्
` मां राममातुः सदनं नयन्त्वित्यब्रवीन्नृपः ॥१७१॥
स म हिष्या गृहे गीतः शायितः शयनोत्तमे
अपश्यद्गामरहितं तदचंद्रमिवांबरम्. ॥१७२॥
र ज न्यां चिंतयन्‍ रामं भुजमुद्यम्य भूपतिः
उच्चैः स्वरेण प्राक्रोश ` द्धा ! राम ! विजहासि नौ ॥१७३॥
तं य शस्विनमत्याप्तमयोद्ध्यां पुनरागतं
दृष्ट्वालिंग्य भविष्यंति प्रहृष्टा ये त उत्तमाः. ' ॥१७४॥
न रा धीशो वदन्नित्थं महिषीमाकुलोऽब्रवीत्,
` न त्वां पश्यामि कौसल्ये ! साधु मां पाणिना स्पृश. ॥१७५॥
म म देव्यलिनी पद्मं महावातहृतं यथा
वत्सं तेऽनुगता दृष्टिरद्यापि न निवर्तते. ' ॥१७६॥
सा ज नन्यपि रामस्य विललापाकुला शुचा
` सभार्य सानुजं रामं पश्येयं कमहं नृप ! ॥१७७॥
द य या त्यक्तया नूनं मया राजन्‍ पुरा बलात्‍
वत्सेषु पातुकामेषु मातॄणां शातिताः स्तनाः. ॥१७८॥
द्वि ज राजमिहाह्लादप्रंदं विद्याविशारदम्‍
नैकपुत्रा विना पुत्रमहं जीवितुमुत्सहे. ' ॥१७९॥
व य स्येव प्रिया साध्वी सुमित्रा रामसंस्तवैः
शमयामास कौसल्याशोकमग्निमिवांबुभिः. ॥१८०॥
ची रा जिनधरं रामं गच्छंतमपराजितम्‍
सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्‍ ? ॥१८१॥
हि म रश्मिस्तथा युक्तशीतोष्णोऽतिसुखोऽनिलः
रामं सेविष्यति शुचिं न रविस्तापयिष्यति. ॥१८२॥
स श्री मान्‍ गाधिजो यस्मै सर्वास्त्राण्याशिषो ददौ,
तस्य के न भविष्यंति नम्राः, सम्राट्‍ तवात्मजः. ' ॥१८३॥
पौ रा रामं पुरीं त्यक्त्वानुगताः सर्व एव ते
पांथा वटामिव श्रान्ता वार्योघा इव धारिधिम्‍. ॥१८४॥
त म सातीरमागम्य पेत्वा तोयं द्रुमच्छदैः
सूतानुजकृते रामः सुष्वाप शयने प्रभुः. ॥१८५॥
स ज नान्वृक्षमूलेशु सुप्तानालोक्य दुःखितान्‍
अपृष्ट्वैव जगामाशु दर्शितोदग्गतिः क्षणम्. ॥१८६॥
द य मानमपि त्यक्तस्रेहं मत्वा रघूत्तमम्‍
पौरा रुदंतो निःश्रीकामयोध्यामगमन्‍ शनैः. ॥१८७॥
प रा वृत्य विना राममागतान्स्वपतीन्‍ स्त्रियः
रुदंत्यो गर्हयामासुरात्मजेष्वप्यनादराः. ॥१८८॥
गो म तीमतरत्तीर्त्वा पूर्वं वेदश्रुतिं नदीम्‍
उत्तीर्य स्यंदिकां रामो कोसलानत्यगाद्‍ द्रुतम्‍. ॥१८९॥
श्री ज ह्नुकन्यामगमन्‍ मुन्याश्रमविभूषिताम्‍
शंकरस्य जटाजूटाद्भ्रष्टां सागरतेजसा. ॥१९०॥
भ य घ्नीं संसृतेः प्राप्य शृंगबेरपुरं प्रति
तत्रेंगुदीतरोर्मूले रथात्प्रभुरवातरत्‍. ॥१९१॥
स्व ज नैः सह धर्मात्मा रामस्यात्मसमः सखा
गुहो राजा निषादानामाजगाम समुत्सुकः. ॥१९२॥
तं य शस्वी स्वयं रामः समालिंग्याब्रवीदिति
` प्रियैः पितुर्हयैस्तृप्तैरहमंग ! सुपूजितः. ' ॥१९३॥
स रा त्रावुदकं प्रास्य सुप्ते रामे धरातले
गुहः सलक्ष्मणोऽतिष्ठद्विनिद्रश्चापबाणभृत्‍. ॥१९४॥
र म णीयगुणः प्रातः सुमंत्रं बहु सांत्वयन्‍
` पितुः समीपं याही'ति प्रोवाच विरहातुरम्‍. ॥१९५॥
स श्री मान्‍ वटदुग्धेन गुहानीतेन राघवः
सलक्ष्मणो जटाः कृत्वा तीर्णो नावा समुद्रगाम्‍. ॥१९६॥
व रा हादीन्मृगान्‍ हत्वा चतुरः स कृताशनः
न्यग्रोधमूले सुप्त्वाथ प्रातर्निर्गत्य राघवः ॥१९७॥
स म दर्शिनमर्चार्हं भरद्वाजं रघूद्वहः
प्रयागे सायमासाद्य ननाम परया मुदा. ॥१९८॥
र ज नीमवसद्गामो भरद्वाजाश्रमेऽर्चितः
चित्रकूटमगात्तेन मुनिना प्रोक्तवर्त्मना. ॥१९९॥
तौ य मस्य स्वसारं तां तीर्त्वा काष्ठैः कृतप्लवौ
तस्या स्तीरे निशां नीत्वा चित्रकूटं नगं गतौ. ॥२००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP