TransLiteral Foundation

अयोध्याकांडम् - काव्य १०१ ते १५०

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य १०१ ते १५०
त्वां ज नेश्वरमायातः प्रष्टुं पृष्ट्वा सुहृज्जनम्‍
वनं गंतु सुतः सिद्धस्तव सत्यपराक्रमः. ' ॥१०१॥
तं य त्रादब्रवीद्राजा, ` सुमंत्र ! श्रुणु मे वचः
दारैः परिवतः सर्वैर्द्रष्टुमिच्छामि राघवम्‍. ' ॥१०२॥
दा रा स्ते तत्र भूभर्तुराज्ञायाज्ञां सुमंत्रतः
कौसल्यां परिवार्यार्ता आजग्मुस्ताम्रलोचनाः. ॥१०३॥
स म हिष्या तया सार्धत्रिशतस्त्रीभिरावृतः
उवाच राजा तं सूतं, ` सुमंत्रानय मे सुतम्‍. ' ॥१०४॥
तं श्री मंतं सुतं दृष्ट्वा सूतानीतं महीपतिः
उत्पपातासनात्तोर्णमार्तः स्त्रीजनसंवृतः. ॥१०५॥
आ रा दालिंगनं कर्तुमभिदुद्राव वेगतः
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्च्छितः. ॥१०६॥
त म सा व्याकुलं रामोऽह्यपतत्तं सलक्ष्मणः
स्त्रीसहस्रनिनादोभू`द्धा हा रामे'ति वेश्मनि. ॥१०७॥
रा ज श्रेष्ठं परिष्वज्य भुजाभ्यां रामलक्ष्मणौ
सीता च निन्युः पर्यके रुदंतस्तं शनैस्त्रयः. ॥१०८॥
श य ने लब्धसंज्ञं तं रामः प्रोवाच सांजलिः
` आपृच्छे त्वां महाराज ! पश्य त्वं कुशलेन माम्‍. ॥१०९॥
मां रा जन्नियमन्वेतु जानके भवदाज्ञया,
लक्ष्मणं चानुजानीहि वार्यमाणौ न चेच्छतः. ॥११०॥
स म हीश उवाचैनं, ` कैकेय्या वरदानतः
मोहितं मां निगृह्य त्वं भव राम ! भुवः पतिः. ' ॥१११॥
प्रां ज लिस्तमुवाचासौ रामः सत्यपराक्रमः
` भवान् वर्षसहस्राय महाराज ! धरापतिः ॥११२॥
प्रि य कृद्दंडकारण्यं, राज्यं नाद्य मुदे मम.
तव पादौ ग्रहीष्यमि प्रतिज्ञान्ते पुनः पितः ! ' ॥११३॥
` र ज नीं त्वमिमामेकां पुत्र ! मा गच्छ सर्वथा
त्वया सहाहं भोक्ष्यामि ' दीनो राजाब्रवीदिति. ॥११४॥
` प्रि य वत्सैतदाश्चर्य्म नैव ज्येष्ठः सुतो मम
अपानृतकथं यत्त्वं तातं मां कर्तुमिच्छसि. ' ॥११५॥
तं रा मः प्राह, ` ये मेऽद्य न गुणाः श्वस्तु ते पितः !
वृणे गमनमेवातः सर्वकामाप्तिरत्र मे. ॥११६॥
वि म र्शो भास्तु, वसुधा भरताय प्रदीयताम्‍
भवान्सत्यप्रतिज्ञो‍ऽस्तु वनं गच्छाम्यहं पितः ! ॥११७॥
स श्री मान्सुतमालिंग्य श्रुत्वैवं मूर्च्छितोऽभवत्.
देव्यः समस्ता रुरुदुः कैकेयीं ताभृते भृशम्‍. ॥११८॥
क्रू रा मनार्थां कैकेयीं सुमंत्रः प्राह, ` किं त्वया
प्रारब्धं ? व्यसने देवि ! मा मज्जय रवोः कुलम्‍. ॥११९॥
न म हीं भरतो जातु त्रातुमर्हो‍‍ऽग्रजे सति,
वयं तत्र गमिष्यामो यत्र रामो गमिष्यति. ॥१२०॥
द्वि ज स्ते विषये कश्चिन्नानार्ये ! वस्तुमर्हति,
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चांततः. ॥१२१॥
त्वं य त्पत्युर्न मरणाद्भीता होता महाजनात्‍
दुःशीलं तव मन्येऽहं यथा मातुस्तयैव हि. ॥१२२॥
धी रा वदंति निंबान्न स्रवेत्क्षौद्रं न तन्मृषा
पितॄन्‍ समनुजायंते नरा, मातरमंगनाः ' ॥१२३॥
स म क्षं नृपतेरित्थं सुमंत्रकृतगंजना
न तत्याजाग्रहं दुष्टाऽब्रवीद्दशरथस्ततः. ॥१२४॥
` रं ज नायास्य सुहृदो वणिजो वारयोषितः
सेना व्याधाश्च निर्यांतु धनवस्त्रान्नराशयः. ' ॥१२५॥
भ य माप्यात्रपोवाच, ` नृपैवं क्रियते यदि
निःसारं भरतो राज्यं शून्यं नाभिप्रपत्स्यते. ' ॥१२६॥
तां ज गत्यधिपः प्राह, ` पूर्वमेव ममाहिते !
सर्व त्यक्त्वा वनं रामो यात्वित्येवं न किं वृतम्‍ ? ॥१२७॥
सा य शस्कारिणी प्राह, ` तव वंशेऽसमंजसम्‍
यथा तत्याज सगरास्त्वमप्येनं तथा त्यज. ' ॥१२८॥
स रा जा तद्वचः श्रुत्वा तां ` धिगि'त्यब्रवीत्तदा
कैकेय्याः सेवकजनः सर्वोपि व्रीदितोऽभवत्‍. ॥१२९॥
तां म हामात्र उद्गोषः सिद्धार्थोऽप्यबवीत्‍ हितम्‍
तदप्यणु प्रभोः पादानतया न तया श्रुतम्‍ ॥१३०॥
` स श्री मान्‍ सगरः पौरबालघ्नं सूनुमत्यजत्‍
रामः किमकरोत्पापं येनैवमुपरुध्यते ? ॥१३१॥
न रा घवे वयं दोषं पश्यामो, यदि पश्यसि
त्वमद्य ब्रूहि तत्त्वेन, तदा रामो विवास्यते. ' ॥१३२॥
तां म नुष्येश्वरोऽथाह, ` भुंक्ष्व राज्यं यथासुखम्‍
अनुव्रजिष्याम्यद्याहं रामं सर्वैर्जनैः सह. ' ॥१३३॥
रा ज न्मे त्यक्तराज्यस्य किं सैन्येन धनेन वा
त्यक्त्वा गजं कः कक्ष्यायां कुरुते मानसं कृती. ॥१३४॥
स्व य मेवानुजानामि सर्वं प्रीतेन चेतसा
खनित्रपिटके चोभे चीराण्येवानयंतु मे. ' ॥१३५॥
सा रा म इत्युक्तवति स्वयं केकयकन्यका
चीराण्याहृत्य तं प्राह, ` परिधत्स्वे'ति निस्त्रपा. ॥१३६॥
स म हाईमवक्षिप्य सूक्ष्मं वासो रघूत्तमः
मुनिवस्त्रमवस्ताथ लक्ष्मणोऽप्युरुलक्षणः. ॥१३७॥
न ज ग्राह न सा चीरं सीता कौशेयवासिने,
परं तत्प्रेक्ष्य संत्रस्ता पृषती वागुरामिव. ॥१३८॥
भ य लज्जाकुला राममुवाचाकुशला सती
` कथं नु चीरं बध्नंति मुनयो वनवासिनः ? ' ॥१३९॥
नि ज कंठे सती कृत्वा चीरं तस्थौ, तदा प्रभुः
तस्या बबंध तत्तूर्ण कौशेयस्योपरि स्वयम्. ॥१४०॥
न य नैर्मुमुचुस्तोयं तदा रामस्य मातरः
ऊचुर्वत्स ! नियुक्तेयं वनवासे न, मा नय. ' ॥१४१॥
धी रा ग्रणीर्वसिष्टस्तां निर्भर्त्स्यानयमास्थिताम्‍
कैकेयीमब्रवीत्‍ क्रुद्धः सबाष्पो नयधर्मवित्‍. ॥१४२॥
` न म हीं भरतः पित्रा ह्यदत्तां शास्तुमिच्छति
त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः. ' ॥१४३॥
स श्री मानेवमुक्त्वा तां बहु सद्वृत्तवर्जिताम्‍
सीतामप्याह, ` वत्से ! त्वं चीरं मा स्पृश जातुचित्‍. ' ॥१४४॥
गु रा वेवं वदत्यार्तो राजा धिक्कृत्य तां खलाम्‍
तस्थाववाक्शिरास्तूष्णीं रामस्तमिदमब्रवीत्‍. ॥१४५॥
` म म धार्मिक मातेयं कौसल्या त्वां न गर्हते
मया हीनामिमां देव ! भूयः संमंतुमर्हसि. ' ॥१४६॥
रा ज श्रेष्ठ इति श्रुत्वा वनं संप्रिस्थितं सुतम्‍ !
नाशक्रोद्द्रष्टुमत्यार्तो विललापातिवत्सलः. ॥१४७॥
` अ य सा घटितं नूनं हृदयं मे न दीर्यते,
विवत्सा बहवो जीवाः कृतास्तन्मामुपस्थितम्‍. ' ॥१४८॥
न रा धिपो विलप्यैवं सुमंत्रं प्राह, ` मे रथम्‍
आनय त्वमितो नेतुं रामं जनपदांतरम्‍. ' ॥१४९॥
स म यज्ञस्तथा चक्रे तं पुनः प्राह पार्थिवः
` रथे स्थापय जानक्या वासांस्याहूषनानि च. ' ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

deed of partnership

  • भागीदारी विलेख 
  • (also partnership deed) 
  • साझेदारी विलेख 
  • = partnership deed 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.