TransLiteral Foundation

अयोध्याकांडम् - काव्य २०१ ते २५०

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य २०१ ते २५०
ध रा मरवरान्नत्वा वाल्मीकिप्रमुखान्प्रभुः
तत्राकरोत्पर्णशालां लक्ष्मणो भ्रातुराज्ञया. ॥२०१॥
स म स्तं रामवृत्तान्तं गुहचारनिवेदितम्‍
ज्ञात्वा सुमंत्रः साकेतं प्रयायु गाढदुर्मनाः. ॥२०२॥
रा ज मार्गेण सचिवः सुमंत्रः पिहिताननः
यत्र राजा दशरथस्तदेवोपययौ गृहम्‍. ॥२०३॥
आ य ताक्ष्यस्तु ता दृष्ट्वा सूतं रामं विनागतम्‍
रुरुदुर्नृपतेर्भार्या, मूर्च्छितो न्यपतन्नृपः. ॥२०४॥
र ज न्यामथ षष्ठ्यां स शापं स्मृत्वा तमात्मनः
महिषीं कथयामास राजा दशरथः स्वयम्‍. ॥२०५॥
` क्ष य प्रियेण सत्त्वानां निशायां शब्दवेधिना
शूद्राकुक्षिभवो वैश्यपुत्रो देवि ! मया हतः. ॥२०६॥
मां रा ज्ञि ! तत्पिता प्राह कुपितः पुत्रघातिनम्‍
` यथाहं पुत्रशोकेन त्वमप्यार्तो मरिष्यसि. ' ॥२०७॥
स म मासून्‍ मुनेः शापः प्राप्तो हर्तुमसंशयः
अंजलिं ते अक्रोम्यद्य साध्वि ! मंतुं क्षमस्व मे. ' ॥२०८॥
वि श्री रत्वाकुलो राजा ` हा ! रामे'ति वदन् मुहुः
अर्धरात्रे स्मरन्‍ पुत्रं जीवितांतमुपागमत्‍. ॥२०९॥
तं रा त्र्यन्ते मृतं ज्ञात्वा रुरुदुः सकलाः स्त्रियः
भूयः शोकार्णवे मग्नं सर्वमन्तःपुरं पुरम्‍. ॥२१०॥
तं म ह्याः पालकं तैलद्रौण्यां संवेश्य साध्वः
चक्रुर्वसिष्ठेनादिष्टाः सचिवाः कार्यमस्य यत्‍. ॥२११॥
स ज वेन पटून्‍ दूतान्‍ वसिष्ठः प्राहिणोत्स्वयम्‍
गत्वा भरतशत्रुघ्नावानयामासुराशु ते ॥२१२॥
प्र य त्रात्सप्तहिर्गत्वा दिनैस्तावद्भिरेव ते
दूता हरतशत्रुघ्नावानीय पुनरागताः. ॥२१३॥
त्व रा वानेत्य मातुः स ज्ञात्वा दुष्कर्म तत्तथा
गर्हयामास तां पापां भरतो भरतो रूषः. ॥२१४॥
` आ म बुद्धेऽहिते ! क्रूरे ! भूरेषा तस्य धर्मतः
यः कौसल्यासुतः श्रीमांस्त्वया रामो विवासितः ॥२१५॥
त्वं ज गन्निंद्यचरिता, रामस्य त्वयि मातृधीः
अतोहं न त्यजामि त्वां दुष्टां तस्यैव गौरवात्‍. ' ॥२१६॥
प्र य तः सोऽसकृद्रोषात्तां धिक्कृत्यातिवत्सलाम्‍
कौसल्यां सांत्वयामास चक्रे तातस्य सत्क्रियाम्‍. ॥२१७॥
स्व ज नन्याः समक्षं तां मंथरां हंतुमुद्यतम्‍
शत्रुघ्नं वारयामास भरतो रामसाध्वसात्‍. ॥२१८॥
गे य कीर्तिर्गुरोराज्ञां विलंघ्यापि महामतिः
भरतस्त्यक्तराज्येहः श्रीरामं शरणं ययौ. ॥२१९॥
वी रा मात्यगुरुभ्रातृमातृपौरसुहृद्वृतः
भरतः शृगबेरस्थगुहेन सह संगतः. ॥२२०॥
तं म हर्षिर्भरद्वाजः परीक्ष्य शुचिमानसम्‍
ससैन्यं पूजयामास विससर्जाग्रजप्रियम्‍. ॥२२१॥
तं श्री मंतं चित्रकूटे ददर्श भरतोऽग्रजम्‍
पतित्वा पादयोस्तस्य रुरोदातीव भक्तिमान्‍. ॥२२२॥
प रा सुंपितरं श्रुत्वा ` हा ! ताते'ति भृशं रुदन्‍
सदारः सानुजो रामस्तस्मै नद्यां जलं ददौ. ॥२२३॥
स म माप्तैर्वसिष्ठाद्यैः सचिवैर्मातृभिर्भृशम्‍
गुरुरभ्यर्थितो रामो भरतेन निवर्तनम्‍. ॥२२४॥
तं ज गादानुजं राम'श्चतुर्दश समा वने
मया स्थेयं, त्वया कार्य राज्यं तातस्य शासनात्‍. ॥२२५॥
श्रे य एतत्परं विद्वन्नस्तु सत्य वचः पितुः
प्रियमस्याश्च मे मातुर्निर्बंधं तात मा कुरु. ॥२२६॥
भा रा पनयनं तेऽहं कर्ता पूर्णे चतुर्दशे
मा रोदीस्तात ! वर्षाणि गमिष्यंत्याशु मा शुचः. ' ॥२२७॥
तं म हा मुनयः क्षिप्रं दशकंठवधैषिणः
भरतं प्रोचुरार्यस्य ग्राह्यं रामस्य ते वचः. ' ॥२२८॥
द्वि ज वर्यो वसिष्ठोऽपि प्रोवाचैवं ततः प्रभुम्‍
भरतः प्रार्थयामास पादुके हेमभूषिते. ॥२२९॥
` द य यार्याधिरोह त्वं पादाभ्यां भक्तवत्सल !
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः. ' ॥२३०॥
त ज स्वीशः सोधिरुह्य व्यवमुच्य च पादुके
प्रायच्छत्पुरुषव्याघ्रो भरताय महात्मने. ॥२३१॥
प्र य तो राममाहासावहं पूर्णे चतुर्दशे
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्‍. ' ॥२३२॥
आ रा ध्यं भरतो नत्वा रामं कृत्वा प्रदक्षिण्म
मूर्घ्नि ते पादुके धृत्वा प्रययौ साश्रुलोचनः. ॥२३३॥
तं म हर्षिं भरद्वाजं नत्वाऽयोध्यां गतो व्रती
नंदिग्रामेऽवसन्मातॄः संस्थाप्य पितुरालये. ॥२३४॥
स श्री मान्‍ राघवो हंतुमैंद्रं काकं कृतागसम्‍
चिक्षेपाशु कुशे ब्राह्मं संयोज्य प्रितकृत्‍ श्र्यः. ॥२३५॥
प रा भूतः स बभ्राम सर्वत्र त्रस्तमानसः
ब्रह्मणो वचनाद्रामं प्राणार्थी शरणं गतः. ॥२३६॥
स म र्थेनातिकारुण्यात्‍ सीतावचनगौरवात्‍
रक्षितोऽस्राय दत्वैकं तदक्षि प्राणसंकटे. ॥२३७॥
द्वि ज वृंदपतेः श्रुत्वा तत्र पीडां प्रभुः खरात्‍
रावणावरजात्‍ पापात्‍ जनस्थाननिवासिनः. ॥२३८॥
भ य द्रुतेषु विप्रेषु तत्रत्येषु गिरेस्ततः
रामोऽत्रेराश्रमं गत्वा प्रणनाम तमादरात्‍. ॥२३९॥
दा रा नुजान्वितं रामं भगवानन्निरादृतः
संप्रेक्ष्यांगीचकारातिप्रेम्णा पुत्रमिवौरसम्. ॥२४०॥
स म शीलां महाभागामनसूयां प्रियां स्वयम्‍
` प्रतिगृह्णीष्व वैदेहीमिमा'मित्यब्रवीन्मुनिः. ॥२४१॥
नि ज पत्न्या महासाध्व्याः प्रभावं तपसोऽद्भुतम्‍
रामायासावाचचक्षे ` श्रुणु वत्से 'ति सादरम्‍. ॥२४२॥
सा य दाभूदनावृष्टिर्दश वर्षाणि राघव !
अनया तात ! सृष्टानि मूलानि च फलानि च. ॥२४३॥
भो ! ज न्हुकन्याप्यनया स्नानार्थे च तपस्विनाम्‍
आहूय सहसा वत्स ! स्वाश्रमेऽस्मिन्प्रवर्तिता. ॥२४४॥
भ य प्रसमनं राम ! विघ्नानां लीलया कृतम्‍
दशवर्षसहस्त्राणि तपस्तप्तं पुरा‍ऽनया. ॥२४५॥
सु रा णामपि कार्यार्थमनयोग्रप्रभावया
दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ! ॥२४६॥
न म स्कार्यां समस्तानामिमां राम ! तपस्विनीम्‍
अभिगच्छतु वैदेही वृद्धामक्रोधनां प्रति. ' ॥२४७॥
स श्री मान्मैथिलीमाह ` श्रुतं त्वेतन्मुनेर्वचः
श्रेयोऽर्थं राजपुत्रि ! त्वमभिगच्छ तपस्विनेम्‍. ' ॥२४८॥
ध रा कन्या तथेत्युक्त्वा मुनेः पत्नीं महासतीम्‍
अह्यवादयदव्यग्रां स्वं नाम समुदाहरत्‍. ॥२४९॥
सा म हर्षिप्रियां नत्वा तापसीं तां दमान्विताम्‍
बद्धांजलिपुटा हृष्टा पर्यपृच्छदनामयम्‍. ॥२५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दहानीदह

  • अ. देववून . - आफ . ( फा .) दहानीदह आयद - देववून टाकावें . 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.