TransLiteral Foundation

बालकाण्डम् - काव्य २५१ ते २९९

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य २५१ ते २९९
जनकस्य वचः श्रुत्वा साकेतेशोsप्युवाच तम्,
` प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा. ॥२५१॥
यथा वक्ष्यसि धर्मज्ञ ! तत्करिष्यामहे वयम् '
तच्छ्रुत्वा स विदेहेशः परं विस्मयमागतः. ॥२५२॥
राजाज्ञया शतानंदो दूतान्प्रस्थाप्य शीघ्रगान्
आनयामास सुपुरः सांकाश्यायाः कुशध्वजम्. ॥२५३॥
मतिमान्मैथिलः प्राह मंत्रिश्रेष्ठं सुदामनम्,
` आनयस्व सुतैः सार्धं राघवं सपुरोहितम्. ' ॥२५४॥
जनकप्रेषितो मंत्री राजानं प्रणतोsब्रवीत्,
` स त्वां व्यवसितो द्रष्टुं वैदेहः सपुरोधसम्. ॥२५५॥
य एते ब्राह्मणाः सर्वे सचिवास्तव बांधवाः
तनुजा मनुजाधीश ! सहैभिस्त्वां दिदृक्षति. ' ॥२५६॥
जनेंद्रस्तद्वचः श्रुत्वा हृष्टः सर्षिगणस्तदा
संधुरगमत्तत्र जनको यत्र वर्तते. ॥२५७॥
यशस्विनं नृपं प्राह राजा दशरथस्तदा,
` विश्वामित्राभ्यनुज्ञातो वसिष्ठो भगवान्गुरुः ॥२५८॥
राजन्वक्ता च कर्ता च सर्वमेभिर्द्विजैः सह. '
एवमुक्त्वा दशरथे तूष्णींभूते स्वयं मुनिः ॥२५९॥
महांतं कीर्तयामास रघोरन्वयमादितः,
` अस्मिन्रघोरजस्तस्य पुत्रो दशरथो नृपः ॥२६०॥
श्रीरामलक्ष्मनावस्याप्यनयोरर्थ आत्मजे
सीतोर्मिले ते वरये सदृशोः सदृशे प्रभो ! ' ॥२६१॥
राजोवाच, ` निमेर्वंशं कीर्तैत्व निजात्मजे
वध्वौ ददामि ते ब्रह्मंस्त्रिर्वदामि न संशयः. ॥२६२॥
महानुभाव ! गोदानं पितृकार्यं च कारय,
रामलक्ष्मनयो राजंस्ततो वैवाहिकं कुरु. ' ॥२६३॥
जनकं गाधिजः प्राह, ` कुशध्वजसुताद्वयम्
राजन् ! भरतशत्रुघ्नपत्न्यर्थे वरये पुनः. ' ॥२६४॥
यदुक्तं भवता ब्रह्मंस्तदस्तु च्छात्र एष ते
एतदुत्तरफल्गुन्यां चतुर्णामस्तु भंगलम्. ' ॥२६५॥
राजैवमुक्त्वा जनको स वसिष्ठं सकौशिकम्
विसर्जयामास मुदा स्तुत्वा दशरथं नृपम्. ॥२६६॥
महामना रघूत्तंसस्तद्गोदानविधौ गवाम्
ददौ चत्वारि लक्षाणि ब्राह्मणेभ्यो यथाविधि. ॥२६७॥
जनकस्य पुरीं प्रपतस्तदा भरतमातुलः
युधाजिद्भागिनेयं स्वं गृहं नेतुं पितुर्गिरा. ॥२६८॥
य उक्तः समयस्तस्मिन्सीतां रामाय मैथिलः
उर्मिलां लक्ष्मनायादाद्विधिवद्भूरिदक्षिणः. ॥२६९॥
जनकस्यानुजः प्रादाधरतायापि मांडवीम्
शत्रुघ्नाय च सत्कृत्य श्रुतकीर्तिं कुशध्वजः. ॥२७०॥
यस्मिन्मुहूर्ते विजये विवाहोsभून्महात्मनाम्.
पुष्पवृष्टिरभूद्दिव्या दिव्यदुंदुभिनिस्तनः. ॥२७१॥
राघवाणां विवाहेsभून्नृत्यमप्सरसामपि
गंधर्वपतयस्तत्र समागत्य जगुः कलम्. ॥२७२॥
महः सोsत्यद्भुतस्तत्र सदारा जनकार्चिताः
गताः स्वशिबिरं वीराः सर्वे रामपुरःसराः. ॥२७३॥
श्रीमंतावाप्तकल्याणावयोध्यामिथिलापती
आपृच्छ्य गाधिजस्तप्तुं ययावुत्तरपर्वतम्. ॥२७४॥
राजा दशरथो, याते गादिजे मिथिलाधिपम्
आपृच्छ्य सुसतो गंतुमुद्यतोsभून्निजां पुरीम्. ॥२७५॥
महात्मा जनकः कन्याधनं बहुविधं मुदा
गवां शतसहस्रानि बहूनि स्वंबराणि च ॥२७६॥
जनुः स्वं सफलीकर्तुं पत्यश्वरथकुंजरम्
कन्याशतं च प्रत्येक दासीदासान्वरान्मणीन्. ॥२७७॥
यक्षेश इव हेम्नश्च रजतस्य महामनाः
बह्वीः कोटीः प्रसन्नात्मा ददौ यद्यदनुत्तमम्. ॥२७८॥
रागह्वं ससुतं सर्षिं समनुज्ञाप्य सानुगम्
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः. ॥२७९॥
महीपतिरथायोध्यामागच्छन्नात्मजैः सह
ददर्श दुर्निमित्तानि सुनिमित्तानि कानिचित्. ॥२८०॥
जनितत्रास उर्वीशः पप्रच्छ गुरुमात्मनः
` हृदयोत्कंपि किमिदं दृश्यते भगवन्नि'ति. ॥२८१॥
` यद्यप्यस्ति भयं राजन्नैव स्थास्यति तच्चिरम्
मा भैर्भद्रं त' इत्युक्तो वसिष्ठेन महात्मना. ॥२८२॥
जमदग्निसुतं राजा ददर्श क्षत्रियांतकम्,
वाते शांते समुन्मूल्य गुरूनपि तरून्क्षणात्. ॥२८३॥
यमात्क्रूरतरं राम जामदग्न्यं निरीक्ष्य ते
वसिष्ठप्रमुखा विप्राः पूजयामासुरानताः. ॥२८४॥
रामं दाशरथिं रामो जामदग्न्योsब्रवीद्रुषा
` शैवं भग्नं श्रुतं सज्ज्य त्वमिदं वैष्णवं कुरु. ' ॥२८५॥
मन्युं शमयितुं प्रह्वं वृद्धं दशरथं स्थितम्
अनादृत्य वसिष्ठादीन्वदंतं दारुणा गिरः. ॥२८६॥
श्रीमान्दाशरथी रामस्तत्कराद्वैष्णवं धनुः
आदाय लीलयारोप्य सज्यं कृत्वा महाशरम्. ॥२८७॥
राज्ञां कालमुवाचेदं वचनं ` शृणु भार्गव !
ब्राह्मणोsसीति पूज्यो मे विश्वामित्रकृतेन च ॥२८८॥
मनो मे त्वद्वधे नास्ति, जामदग्न्य ! वद द्रुतम्
गतिं वा तव धर्मं वा हन्म्यमोघो ह्ययं शरः. ' ॥२८९॥
जमदग्निसुतः प्राह, ` गतिं हंतुं न मेsर्हसि
जहि त्वं शरमुख्येन धर्ममप्रतिभं मम. ॥२९०॥
यदहं विश्वनाथेन त्वयाद्य विमुखीकृतः
न चेयं मम काकुत्स्थ ! व्रीडा भवितुमर्हति. ' ॥२९१॥
रामो दाशरथिः श्रीमांश्चिक्षेप शरमद्भुतम्.
दृष्ट्वा धर्मं हतं नैजं वैष्णवेन महेषुणा. ॥२९२॥
महेन्द्रं पर्वतश्रेष्ठं रामं कृत्वा प्रदक्षिणम्
पूजितो भार्गवः पृष्ट्वा जगामात्मगतिं प्रभुः. ॥२९३॥
जलेशहस्ते श्रीरामो ददौ तद्वैष्णवं धनुः
ऋषीन्नत्वा ततः प्राह पितरं विह्वलं प्रभुः. ॥२९४॥
यथागतं गतस्तात ! भार्गवस्तव वाहिनी
प्रयात्वयोध्याभिमुखी त्वया नाथेन पालिता. ' ॥२९५॥
जग्राह रामं बाहुभ्यां मूर्ध्न्युपाघ्राय चासकृत्
पुनर्जातं नृपो मेने पुत्रमात्मानमेव च. ॥२९६॥
ययावयोध्यां मुदितो मुदितां ध्वजमालिनीम्
पुत्रैरनुगतः श्रीमान् श्रीमद्भिः स महायशाः. ॥२९७॥
राजा भरतशत्रुघ्नौ द्रष्टुं मातामहं ततः
युधाजिता मातुलेन सह प्रेषितवान्मुदा. ॥२९८॥
मनांसि रामः सर्वेषां रंजयामास सद्गुणैः
स वारिदो, जनौघस्तु मयूर इव तत्परः. ॥२९९॥
इति श्रीमन्मंत्ररामायणे बालकांडे श्रीरामनंदनमयुऊरविरचिते त्रयोविंशो मंत्रः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

PṚTHŪDAKA(पृथूदक)

RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.