TransLiteral Foundation

बालकाण्डम् - काव्य १५१ ते २००

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य १५१ ते २००
जयंतजनकेनासि यत्त्वं ज्ञात्वापि संगता
अदृश्या सर्वभूतानां वाताहारा भविष्यसि. ॥१५१॥
यदैतच्च वनं घोरं रामो दशरथात्मजः
आगमिष्यति द्र्धर्षस्तदा पूता भविष्यसि. ॥१५२॥
जगदेकपवित्रस्य रामस्याद्भुतकर्मणः
करिष्यसि यदातिथ्यं मत्संगं त्वं तदाप्स्यसि. ' ॥१५३॥
यथोक्तं तत्तथा जातं स गतस्तुहिनाचलम्
मेषस्य वृषणौ दत्तौ जिष्णोरग्निपुरोगमैः ॥१५४॥
राहुणेवामृतरुचेर्मंडलं राम ! सन्मुनेः
कलत्रं ग्रस्तमत्रास्त्रे दोषेण त्वं विमोचय ॥१५५॥
मया सहाश्रमे तत्त्वं प्रविशाशु रघूत्तम ! '
इत्युक्तोsसौ तथा चक्रे वक्रेतरसुहृन्मणिः ॥१५६॥
श्रीराम आश्रमे तस्मिन्प्रविष्टे गुरुणा सह
सतां सात्त्विकवृत्त्यासौ साकं प्रादुरभूत्क्षणात्. ॥१५७॥
राहित्येनैनसो यस्य साहित्येनाशु सा सती
शापस्यांतमुपागम्य गेषां दर्शनमागता. ॥१५८॥
महाविनयसंपन्नौ महन्महददर्ह्सनौ
राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा. ॥१५९॥
` जये'त्युक्त्वा रामपादौ नत्वाहल्या सुदर्शना
अर्घ्यं पाद्यं तथातिथ्यं चकार सुसमाहिता. ॥१६०॥
यतिभिः स्वांतमध्ये यो ध्येयो वेदांतवेदिभिः
प्रतिजग्राह काकुत्स्थः प्रेम्णा पूजां तया कृताम्. ॥१६१॥
रामायां मुनिवर्यस्य रामे च रघुनंदने
पुष्पवृष्टिर्महत्यासीद्दिव्यदुंदुभिनिःस्वनैः ॥१६२॥
महान्समुत्सवो ह्यासीद्गंधर्वाप्सरसां तदा,
` साधु साध्वि'ति देवास्तामहल्यां समपूजयन्. ॥१६३॥
जगाम मिथिलां रामो गौतमेनाभिपूजितः
अहल्यां प्राप्य परमां कीर्तिं च मुदितात्मना. ॥१६४॥
यजमानो मुनिं प्राप्तं श्रुत्वा सह पुरोधसा
शतानंदेन ऋत्विग्भिर्हृष्टः प्रत्युज्जागाम तम्. ॥१६५॥
जनकः पूजयामास गाधिजं परमादृतः
तौ रामलक्ष्मणौ दृष्ट्वाsकस्यात्मजावि'ति. ॥१६६॥
` यदृच्छया भुवं प्राप्तावश्विनाविव सुन्दरौ
भूषयन्ताविभं देशं चंद्रसूर्याविवांबरम्. ' ॥१६७॥
राजर्षि गाधिजः प्राह, ` प्रियौ दशरथात्मजौ
इमौ मया समानीतौ, महाभागौ महाबलौ. ॥१६८॥
मद्यज्ञविघ्नशमनावहल्यागौतमार्चितौ
द्रष्टुं तव क्रतुं प्राप्तौ शैवं चात्यद्भुतं धनुः ' ॥१६९॥
श्रीमाञ्ज्येष्टः शतानंदो गौतमस्यात्मजो मुनेः
श्रुत्वा मातुः समुद्धारं प्रहृष्टो राममब्रवीत्. ॥१७०॥
` राजपुत्र ! महाप्राज्ञ ! राजवंशविभूषण !
स्वागतं ते नरश्रेष्ठ ! दिष्ट्या प्राप्तोsसि राघव ! ॥१७१॥
मह्यां धन्यतरो राम ! त्वत्तो नास्तीह कश्चन,
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः. ॥१७२॥
जगत्यधिपतिः पूर्वमेष आसीन्महाबलः
जहार लोभात्सुरभिं वसिष्ठस्य महात्मनः ॥१७३॥
यवनैर्निर्जितः क्रूरैः कल्माषीनिर्मितैरयम्
हुंकारेण वसिष्ठस्य दग्धसैन्योsप्रभोsभवत् ॥१७४॥
रामैष रुद्रमाराध्य प्राप्यस्त्राण्यद्भुतान्यपि
वसिष्ठब्रह्मदंडेन भग्नदर्पोsभवत्पुनः, ॥१७५॥
मत्वा ब्राह्मं बलं श्रेष्ठं तुच्छं क्षात्रमयं तदा
ब्रह्मत्वकारणं घोरं चकार सुमहत्तपः. ॥१७६॥
जगत्कर्ता जगामाब्दसंहस्रांते सुरैर्वृतः
` मन्ये गाधिज ! राजर्षिं त्वामि' त्युक्त्वा दिवं ययौ. ॥१७७॥
यत्कृतं तद् वृथा मत्वा भूय एव महातपाः
तपश्चचार रामायं ब्रह्मर्षित्वाप्तये भृशम्. ॥१७८॥
जगत्प्रथित इक्ष्वाकुवंशजो नृपसत्तमः
त्रिशंकुरिति यन्नाम वसिष्ठेन महात्मना ॥१७९॥
यस्त्यक्तो गुरुपुत्रैश्च नीतश्रांडालतां हठात्
स एनं शरणं प्राप्तोsमुना संप्रेषितो दिवम्. ॥१८०॥
रामान्यामद्भुतां सृष्टिं कर्तुमेष समुद्यतः
प्रार्थितस्त्रिदशैः सर्वैर्विरराम महायशाः. ॥१८१॥
` महान्विघ्नः प्रवृत्तोsत्र ' इति मत्वायमीश्वरः
पुष्करेषु तपस्तेपे रामभद्र ! महातपाः. ॥१८२॥
श्रीमानयं शुनःशेपं मृत्युपाशादमोचयत्
अंबरीषाध्वरे राम ! यत्कृते शप्तवान्सुतान्. ॥१८३॥
राघवायं तपस्तेपे दश वर्षशतान्यमुम्
` ऋषिस्त्वमसि भद्रं त ' इति ब्रह्माब्रवीत्पुनः ॥१८४॥
महत्तपः पुनश्चक्रे तत्रापि स्नातुमागताम्
दृष्ट्वैव मेनकां देवीमभजद्दश वत्सरान्. ॥१८५॥
जनाधिपैष तत्रापि ज्ञात्वा देवैस्तपो हृतम्
कौशिकीतीरमासाद्य तपस्यामकरोत्पराम्. ॥१८६॥
यतात्माब्दसहस्राणि तपः पर्वत उत्तरे
घोरं चकार रामास्माद्देवतानामभूद्भयम्. ॥१८७॥
राजीवासन एत्या, ` महर्षे ! वत्स ! कौशिक !
महत्त्वमृषिमुख्यत्वं ददामि तव तोषितः. ' ॥१८८॥
महादेवमुवाचायं भवान्यपि पितामह !
महर्षिरिति मां नाह किमहं न जितेंद्रियः ? ' ॥१८९॥
जगत्स्रष्टामुमाह, ` त्वमद्यापि न जितेंद्रियः
जितेंद्रियत्वं दुष्प्रापमिति मन्यामहे वयम्. ॥१९०॥
यतस्व वत्स ! तत्प्राप्तुमित्युक्त्वा त्रिदिवं गतः.
ऊर्ध्वबाहुर्वायुभक्ष्यः पुनर्घोरं तपोsचरत्. ॥१९१॥
जगत्युग्रतपस्त्रस्ते रंहा जंभारिणा बलात्
प्रेषिता लोभनं कर्तुं मुनेरस्य रघूत्तम ! ॥१९२॥
यदुक्तमात्मना कार्यं महेंद्रस्तस्य सिद्धये
पिकभावमुरीकृत्य तस्याः पार्श्वमुपागमत्. ॥१९३॥
रामया राम ! याश्चेष्टा मनसो लोभनोचिताः
आरब्धः सन्निधावस्य समधुस्मरया तया. ॥१९४॥
मन्युना तां शशापायं, ` शैली स्थास्यसि दुर्भगे !
वर्षायुतमिति ज्ञात्वा शक्रक्रुत्यमिति प्रभो ! ॥१९५॥
` श्रीमान्ब्राह्मण एतस्माच्छापात्त्वामुद्धरिष्यति. '
इत्थं चकार भगवानयं तस्यामनुग्रहम्. ॥१९६॥
राजा सुराआण्मेतस्य तपोपहरणे कृते
निर्गतः स च कंदर्पस्तप्तोयमपि तद्दिशः. ॥१९७॥
महामुनिरयं पूर्वां दिशं प्राप्य सुदारुणम्
सहस्रवर्षपर्यंत काष्ठमौनं व्रतं श्रितः. ॥१९८॥
जपतां वर एतस्मिन्व्रतांते होक्तुमिच्छति,
शक्रो ब्राह्मणरूपेण सिद्धमन्नमयाचत. ॥१९९॥
यद्यप्यन्नमशेषं तद्भक्षितं राम ! जिष्णुना
न किंचिदवदद्विप्रं मौनव्रतमुपाश्रितम्. ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुरल्ली

  • स्त्रीन , लहान खेकडा ; कर्कट . हा मृगाच्या पावसांत उप्तन होतो . ( सं . कुलीरक ) 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.