TransLiteral Foundation

बालकाण्डम् - काव्य २०१ ते २५०

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य २०१ ते २५०
रात्रिंदिवमनुच्छ्वासं मौनमासीत्पुनस्तथा
अस्यानुच्छ्वसमानस्य मूर्घ्नि धूमो व्यजायत. ॥२०१॥
महता तपसा राम ! सर्वेsस्य त्रिदिवौकसः
मोहिताः कौशिकस्यार्थे पितामहमथाब्रुवन्, ॥२०२॥
` जगद्योने ! प्रभो ! sस्माभिर्लोभितः कोपितोsप्यलम्,
न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्युत. ॥२०३॥
यद्यस्याभीप्सितं देव ! कौशिकस्य न दीयते
त्रैलोक्यनाशो भविता न चिरादेव निश्चयात्. ' ॥२०४॥
जलजप्रभवो देवैः सहागत्यैनमब्रवीत्.
` ब्रह्मर्षे ! स्वागतं तेsस्तु तपसा स्म सुतोषिताः, ॥२०५॥
यत्तेsभिलषितं सर्वं दत्तं कौशिक ! तन्मया
दीर्घयुर्भव भद्रं ते, गच्छ सौम्य ! यथासुखम्. ' ॥२०६॥
रामायं मुदितो नत्वा व्याजहार महामतिः
` ब्राह्मण्यं यदि मे प्राप्तं त्वया दत्तं पितामह ! ॥२०७॥
ममायं परमः कामः सत्योsस्त्वद्य नमोsस्तु ते.
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु सत्यदृक्. ' ॥२०८॥
श्रीमान्वसिष्ठस्त्रिदशैः सर्वैरेत्य प्रसादितः
` रह्मर्षिस्त्वमसीत्येवं प्राहैनं गाधिजं स्वयम्. ॥२०९॥
राघवैवंप्रहावोsयं विश्वामित्रो गुरुस्तव
वसिष्ठं पूजयामास ब्राह्मण्यप्राप्तिकारणम्. ॥२१०॥
महिमा गाधिजस्यैवं शतानंदेन वर्णितः
यं श्रुत्वाभूत्प्रमुदितो रामः सौमित्रिणा सह. ॥२११॥
जनकः प्रांजलिर्वाक्यमुवाच कुशिकात्मजम्
` धन्योsस्म्यनुगृहीतोsस्मि यस्य हे मुनिपुंगव ! ॥२१२॥
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक !
पावितोsहं त्वया ब्रह्मन् दर्शनेन महामुने ! ' ॥२१३॥
महात्मा मैथिलः प्रातः कृतकर्मा सराधवम्
तमाजुहाव स ब्रह्मसमाजं मुनिसत्तमम्. ॥२१४॥
महात्मा मैथिलः प्रातः कृतकर्मा सराघवम्
तमाजुहाव स ब्रह्मसमाजं मुनिसत्तमम्. ॥२१५॥
जनकः प्राह सत्कृत्य सरामं कौशिकं मुनिम्
` स्वागतं तेsस्तु भगवन्नाज्ञापय करोमि किम् ? ' ॥२१६॥
यज्वानं तं मुनिः प्राह द्रष्टुमैशं समागतौ
इमौ दाशरथी वीरौ क्षत्रियौ लोकविश्रुतौ. ॥२१७॥
जनक ! क्षत्रियश्रेष्ठ ! रामलक्ष्मणयोर्धनुः
तद्दर्शयानयोर्दृष्ट्वा प्राप्तकामौ पयास्यतः. ' ॥२१८॥
यज्वोवाच, ` मने ! शर्वप्रमुखैरमरैर्धनुः
न्यस्तं दक्षाध्वरध्वंसे देवराते निमेः सुते. ॥२१९॥
राजभिर्देवताबुद्धया पूजितं निमिवंशजैः
अथ क्ष्मां कर्षता लब्धा सा सीता नाम मत्सुता ॥२२०॥
मयापि वीर्यशुक्लेति स्थापितेयमयोनिजा
वरयामासुरागत्य नृपा मे कन्यकां वराम्. ॥२२१॥
श्रीमंस्तेभ्यो न मे दत्ता वीर्यशुल्केति दारिका
शैवं सज्यं धनुः कर्ता भर्ता स दुहितर्मम. ॥२२२॥
राजानस्ते धनुर्वीर्यं जिज्ञासव इहागताः
न शेकुर्ग्रहने तस्य धनुषस्तोलनेsपि च. ॥२२३॥
मया ततो नृपाः सर्वे प्रत्याख्याता मुने ! बलाः
मिथिलां रुरुदुः क्रुद्धा युद्धायाभ्युद्यता बलात्. ॥२२४॥
जन्ये भग्नाः सुरैर्दत्तचतुरंगबलेन ते
तदेत द्दर्शयिष्यामि रामलक्ष्मणयोर्धनुः. ॥२२५॥
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने !
सुतामयोनिजां सीतां दद्यां दाशरथेरहम्. ॥२२६॥
राजानं कौशिकः प्राह, ` तर्हि दर्शय मा चिरम्. '
तेनाज्ञप्ताः स्वसचिवा ` धनुरानीयता'मिति. ॥२२७॥
मनुष्याणां सहस्त्राणि पंचलोहमयीं पुरः
तन्मंजूषामष्टचकां युक्त्याप्यूहुः कथंचन. ॥२२८॥
जनकं मंत्रिणः प्रोच्यु`रानीतं धनुरैश्वरम्. '
प्रांजलिः स मुनिं प्राह, ` भगवन् ! दर्शयानयोः ॥२२९॥
यस्य शेकुः सुरा दैत्या राक्षसा नैव पूरणे
आरोपणे समायोगे वेपने तोलने तथा. ' ॥२३०॥
जनकस्य वचः श्रुत्वा विश्वामित्रो महायशाः
` वत्स राम ! धनुः पश्य ' इति राघवमब्रवीत्. ॥२३१॥
यथान्यायं गुरोः पादौ नत्वा रामो महाबलः
तां मंजूषां समुद्धाट्य दृष्ट्वा माहेश्वरं धनुः, ॥२३२॥
राघवोsपृच्छ`देतस्य तोलनं पूरणं प्रभो !
कर्तुभिच्छामि संस्पृश्य यथाज्ञा भक्तोरिह. ' ॥२३३॥
महर्षिः कौशिको ` बाढं ' नृपश्च समभाषत
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः. ॥२३४॥
श्रीमान्नरसहस्राणां पश्यतां रघुनंदनः
आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः. ॥२३५॥
राम आरोपयित्वा ज्यां पूरयामास तेजसा
तद्बभंज धनुर्मध्ये नरश्रेष्ठो महायशाः. ॥२३६॥
महानासीद् ध्वनिस्तस्य निर्घात इव दारुणः
निपेतुर्मानवा भूमौ तेन नादेन मोहिताः. ॥२३७॥
जनकं गाधिजं वीरौ वर्जयित्वा च राघवौ
धनुर्ध्वानेन सहसा सर्वेsपि व्याकुलीकृता. ॥२३८॥
यथास्थिते जने तस्मिन्विमोहे प्रकृतिं गते
उवाच प्रांजलिराक्यं जनको मुनिपुंगवम्. ॥२३९॥
` रामोsयं दृष्टसामर्थ्यो भगवन् गाधिनंदन !
अत्यद्भुतमचिंत्यं च धनुरारोपणादि यत्. ॥२४०॥
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक !
सीता प्राणैर्बहुमता देया रामाय मे सुता. ॥२४१॥
जवेन मंत्रिणो यांतु भवतोsनुमतेन मे
नृपं दशरथं शीघ्रमानयंतु पुरीं मम. ' ॥२४२॥
` यत्तेsभिलषितं राजंस्तदस्त्वि'त्यब्रवीन्मुनिः
अयोध्यां प्रेषयामास सचिवान्दत्तशासनान्. ॥२४३॥
जनकप्रेषिता दूतास्त्रिरात्रमुषिताः पथि
अयोध्यां प्राविशन्हृष्टा नत्वा दशरथं प्रभुम् ॥२४४॥
यथावृत्तं समाचख्युस्तच्छ्रुत्वा मुदितो नृपः
वसिष्ठवामदेवादीन्पुरस्कृत्य विनिर्ययौ. ॥२४५॥
राज्ञा संप्रार्थिता विप्रा मार्कंडेयादयो रथैः
निर्ययुर्हृष्टचित्तास्ते नागराः सूतमागधाः. ॥२४६॥
महती मुदिता सेना संपन्ना चतुरंगिणी
राजानमृषिभिः सार्धं व्रजंतं पृष्ठतोsन्वगात्. ॥२४७॥
श्रीमंतंमागतं श्रुत्वा सामात्यं सपुरोहितम्
मैथिलः पूजयामास प्रत्युद्गम्य रघूत्तमम्. ॥२४८॥
राजोवाच, ` स्वागतं ते, दिष्ट्या प्राप्तोsसि राघव !
दिष्टया वसिष्ठो जाबालिरागतः काश्यपोsप्ययम्. ॥२४९॥
मत्कुलं पूजितं लोके संबंधाद्राघवैः सह
श्वःप्रभाते विवाहं त्वं निर्वर्तयितुमर्हसि. ' ॥२५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

blocked

  • अवरुद्ध 
  • अवरुद्ध, कोंडलेला 
  • कोंडलेला 
  • अवरुद्ध 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.