TransLiteral Foundation

बालकाण्डम् - काव्य ५१ ते १००

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य ५१ ते १००
राक्षसांतकरः श्रीमान्हनूमान्मारुतात्मजः
वज्रसंहननः साक्षाद्रुद्रतुल्यपराक्रमः ॥५१॥
महांतो जज्ञिरेsसंख्याः सुरांशाः सत्यविक्रमाः
ऋक्षवानरगोपुच्छास्तुच्छा येषां पुरः परे. ॥५२॥
श्रीमती द्वादशे मासे चैत्रे शुक्ले पुनर्वसौ
कौसल्या जनयद्रामं नव्म्यां कर्कटे शुभे. ॥५३॥
राजप्रियायां कैकेय्यां जज्ञे सत्यपराक्रमः
पुष्ये मीने शुभे लग्ने भरतः सद्गुणाकरः. ॥५४॥
महिते समये सार्पे कुलीरे शुभलक्षणौ
पुत्रौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ. ॥५५॥
जज्ञिरे नृपतः पुत्राश्चत्वारः सद्गुणाकराः
सुरूपाः सुमहात्मानो रुच्या प्रोष्ठपदोपमाः ॥५६॥
यदैषा संभवो दव्यो गंधर्वा ननृतुर्जगुः
नेदुर्दुंदुभयो दिव्या पेतुः सुमनसश्च खात्. ॥५७॥
राजा महोत्सवे तस्मिन्विप्रादिभ्यो धनं मुदा
नानाविधं भूरि ददौ तदौदार्यं सुनिस्तुलम्. ॥५८॥
महो महानयोध्यायामासीद्दशरथो यदा
चकार नामकरणं तेषामह्नि त्रयोदशे. ॥५९॥
जना जगुः श्रुतं राज्ञः सूनोर्ज्येष्ठस्य यत्कृतम्
नाम राम इति प्रेम्णा वसिष्ठेन पुरोधसा. ॥६०॥
यच्च पुत्रस्य कैकेय्या भरतेति तथा द्वयोः
लक्ष्मणेति सुमित्रायाः शत्रुघ्नेति च पुत्रयोः. ॥६१॥
जगृहुः कृतसंस्कारा विद्याः सर्वाः कलाश्च ते,
श्रीरामस्त्वधिकस्तेषां ग्रहाणामिव भास्करः. ॥६२॥
यथान्योन्यमतिस्रिग्धौ कुमारौ रामलक्ष्मणौ
तथा भरतशत्रुघ्नौ क्षणार्धविरहासहौ. ॥६३॥
राघवोsथ महाभागस्तेषां दारक्रियां प्रति
चिंतयामास धर्मात्मा सोपाध्यायः सबांधवः. ॥६४॥
महात्मनश्चिंतयतो मंत्रिमध्येsस्य तत्क्षणम्
गाधिजोsभ्यगमद्राज्ञे द्वास्थैरावेदितो द्रुतम्. ॥६५॥
श्रीमंतं तं मुनिं राजा प्रत्युद्गम्य यथाविधि,
पूजयामास पूजार्हं ब्रह्माणमिव वासवः. ॥६६॥
राजर्षिस्तमुवा ` चार्य ! यदर्थं त्वमिहागतः
तत्कार्यं ब्रूहि कर्ताहं, दैवतं हि भवान्मम. ' ॥६७॥
महर्षिस्तद्वचः श्रुत्वा हृष्टरोमाsभ्यभाषत,
` निश्चयं कुरु कार्यस्य हव सत्यप्रतिश्रवः ॥६८॥
जनेंद्र ! शृणु मारीचः सुबाहुश्च निशाचरौ
यज्ञविघ्नकरौ शप्तु तावहं नोत्सहे व्रती. ॥६९॥
यमस्य विषयं नेतुं तौ खलौ ब्राह्मणद्विषौ
काकपक्षधरं रामं पुत्रं मे दातुमर्हसि. ॥७०॥
रात्रिंचरवधे देव ! दिव्येन स्वेन तेजसा
मयाभिगुप्तः शक्तस्ते रामः कामप्रभाहरः. ॥७१॥
मनुजेश ! प्रदास्यामि श्रेयश्चास्मै महत्तरम्,
येन त्रिष्वपि लोकेषु परा ख्यातिं प्रयास्यति. ' ॥७२॥
जगाद गाधिजं राजा पुत्रविश्लेषकातरः
` ऊनषोडशवर्षो मे रामो राजीवलोचनः. ॥७३॥
यमींद्र ! राषसैरस्य न पश्याम्याजियोग्यताम्,
त्वं मे बहिश्चरप्राणं न रामं नेतुमर्हसि. ॥७४॥
जन्यं कर्ताहमेवार्य ! राक्षसैस्तैः सह स्वयम्
अक्षौहिण्यानया सार्धं मां दासं नेतुमर्हसि. ॥७५॥
यदि वा राघवं ब्रह्मन् ! नेतुमिच्छसि सुव्रत !
चतुरंगसमायुक्तं मया सह च तं नय. ॥७६॥
राक्षसौ कस्य तौ पुत्रौ किंवीर्यौ कं समाश्रितौ
सर्वं भे शंस भगवन् ! वत्तं ब्रह्मद्विषोस्तयोः. ॥७७॥
महर्षिः कथयामास, ` रावणानुचरौ खलौ
तौ मारीचसुबाहू द्वौ पुत्रौ सुंदोपसुंदयोः. ॥७८॥
श्रीमतागस्त्यमुनिना शप्तौ राक्षसतां गतौ
रावनप्रहितौ कर्तुं यज्ञविघ्नं महाबलौ. ' ॥७९॥
राजा प्रोवाच, ` भगवन् ! ब्रह्मदत्तवरः परः
नाहं तत्पुरतः स्थातुं शक्तः संग्राममूर्धनि. ॥८०॥
महेंद्रप्रमुखा देवाः सोढुं शक्ता न रावणम्,
मानवानां कथा कैव स दुरात्मा श्रुतो मया. ॥८१॥
जगत्कर्त्रा ब्रह्मणा योsनुगृहीतः स दानव्ह
हिरण्यकशिपुर्दैत्यस्तेजसायं सदा नवः. ॥८२॥
यमात्क्रूरतरः स्पष्टं रावणो लोकरावण
मर्त्यस्तेन विरोधं कः कर्ता नाहं क्षमो मुने ! ' ॥८३॥
राज्ञि तस्मिन्ब्रुवत्येवं संक्रुद्धः कौशिकोsब्रवीत्
` अलं, गच्छाम्यहं राजन् ! सुखी भव सुहृद्वृतः. ' ॥८४॥
मनोस्तस्य प्रभावज्ञो वसिष्ठो भगवान्नृपम्
उवाच, ` नैनं राजर्षे ! प्रत्याख्यातुं त्वमर्हसि. ॥८५॥
जन्मनस्तेsस्तु साफल्यं क्षिप्रं रामं विसर्जय,
कृतास्त्रमकृतास्त्रं वा गुप्तं कुशिकसूनुना. ॥८६॥
यत्नवंतोsपि नालं ते रामं धर्षयितुं परे.
कृशाश्चपुत्रास्त्रशतं दत्तमस्मै पिनाकिना. ॥८७॥
जयायायमलं तेषां विश्वामित्रो महायशाः.
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते. ' ॥८८॥
यशस्करं गुरोर्वाक्यं स्वीकृत्य प्रकृतिं गतः
राजा दशरथो राममाजुहाव सलक्ष्मणम्. ॥८९॥
राजमानं विशेषेण जनन्या समलंकृतम्
कृतस्वस्त्ययनं नत्वा तं तस्मै मुनये ददौ. ॥९०॥
महोत्सवोsभवद्वायुः सुखस्पर्शस्तदा ववौ
पुष्पवृष्टिर्महत्यासीद्देवदुंदुभिनिःस्वनः. ॥९१॥
श्रीमान्मुनिर्ययावग्रे ततो रामो महायशाः
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥९२॥
राजपुत्रौ धनुष्पाणि चारुरूपौ महामुनिम्
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ. ॥९३॥
महर्षिमनुयातौ तौ महासत्त्वावनिंदितौ
स्थाणुं देवमचिंत्यं तं कुमाराविव पावकी. ॥९४॥
जनार्दनाय गत्वासौ मुनिरद्यर्धयोजनम्
बलां चाविबलां विद्यां ददौ क्षुत्तृट्श्रमापहाम्. ॥९५॥
यतात्मोवास सरयूतीरे ताभ्यां विभावरीम्
स्थाणोरथाश्रमं गंगासरय्वोः संगमेsगमत्. ॥९६॥
राघवौ श्रीगुरोस्तत्र रुद्रनेत्राग्निना कृतम्
श्रुत्वा कृतागसो दाहं कामस्य मुदमापतुः. ॥९७॥
महेशशिष्यैर्मुनिभिः पूजितौ गुरुणा सह
उषित्वा रजनीं तर्तुं गंगातीरमुपागतौ. ॥९८॥
जन्हुकन्यामुत्तरतौ नावा मुन्युपनीतया
मानसात्सरयूत्पत्तिं पुण्यां शुश्रुवतुर्गुरोः. ॥९९॥
यद्दारुणं वनं दृष्टं पृष्ट`मीद्दृक्कथं न्वि'ति.
कौशिकः प्राह, ` वत्सैतच्छृणु त्वां कथयाम्यहम्. ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dementad

  • अवमनस्क 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.