TransLiteral Foundation

बालकाण्डम् - काव्य १०१ ते १५०

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


काव्य १०१ ते १५०
जलजाक्ष ! पुरा वृत्रहंतुर्हत्याहतद्युतेः
प्रायश्चित्तेन संत्यागस्तनोर्मलकरूशयोः. ॥१०१॥
यस्माद्राघव ! भद्रं ते, नाम्नेंद्रवरदानतः
मलदश्च करूशश्च जातौ जनपदाविमौ. ॥१०२॥
राघवास्ते सुंदभार्या यक्षिणी कामरूपिणी
बलं नागसहस्रस्य धारयंती सुदारुणा. ॥१०३॥  
मदिरामांसनिरता ताटका नाम दुर्मतिः
मारीचमाता तातास्मिन्काननेsध्यर्धयोजने. ॥१०४॥
श्रीमंस्त्वमागतां दुष्टां तामस्मद्वचनाज्जहि,
भविष्यति यशः पुण्यं पापमण्वपि ते न हि. ' ॥१०५॥
` राक्षस्येषा कथं जाता, बलं चास्यामियत्कथम् ? '
इति पृष्टो मुनिः प्राह, ` वत्सैतदपि मे शृणु. ॥१०६॥
महत्तपश्चकारैकः सुकेतुर्यक्षनायकः
ब्रह्मणास्मै सुता दत्ता बलवत्यतिरूपिणी. ॥१०७॥
जलजासनलब्धां तां ताटकां नाम कन्यकाम्
जंभपुत्राय सुंदाय प्रादादतिबलां पिता. ॥१०८॥
यक्षी मारीचनामानं सुतं लेभे महाबलम्.
कृतापराधोsगस्त्येन हतः सुंदो महात्मना. ॥१०९॥
राक्षसत्वमियं प्राप्ता सपुत्रा ताटका कुधीः
पतिघ्नं हंतुमिच्छंती शापात्तस्यातितेजसः ॥११०॥
मन्नियोगात्त्वया राम ! हन्तव्यषातिदारुणा.
जातुचिल्लङ्घि तो नाग्निः सुदृढेनापि दारुणा. ' ॥१११॥
जलदश्यामलो रामः ` श्रुतिराज्ञा तवार्य ! मे. '
इत्युक्त्वा सज्जकोदंडो ज्यानिनादं तदाकरोत्. ॥११२॥
यक्षी श्रुत्वा महानादं वात्येवाभ्यद्रवद्रुषा
चकार गर्जनां घोरां लयमेघघटेव सा. ॥११३॥
जघान रामस्तां मायां कुर्वतीं विकृताकृतिम्
लक्ष्मणेनाशुगैरुग्रैश्र्छिन्नकर्णाग्रनासिकाम्. ॥११४॥
यशस्विनं मुनिं रामं तुष्टावाभ्येत्य वासवः
ववर्श दिव्यैः कुसुमैर्जगुर्गंधर्वसत्तमाः ॥११५॥
` रामायास्त्रशतं देही ' त्युक्त्वेंद्रो गाधिनंदनम्
ययौ हृष्टैः सुरैः स्वर्गं भर्गं दृष्ट्वेव तुष्टधीः. ॥११६॥
महामना मुनी रामलक्ष्मणाभ्यां समन्वितः
उवासैकां वने तस्मिञ्शर्वरीं शर्वरीतिभृत्. ॥११७॥
श्रीकंठ इव सुप्रीतो मूर्ध्न्युपाघ्राय कौशिकः
दण्डचक्राद्यस्त्रशतं ददौ रामाय धीमते. ॥११८॥
रागवान्यत्र तपसि चिरं सिद्धाश्रमे प्रियम्
कश्यपादितिशक्राणां कर्तुं हर्तुं बलेः श्रियम् ॥११९॥
महर्षिः पाययित्वा तद्वामनस्य यशोमृतम्
निन्ये तमाश्रमं रामं विष्णुभक्त्यात्मना वृतम्. ॥१२०॥
जहृषुस्तापसा दृष्ट्वा गाधिजं रामलक्ष्मणौ
सोत्साहौ षडहोरात्रं तपोवनमरक्षताम् ॥१२१॥
` यष्टुमद्यैव द्ईक्षां गाधिजं रामलक्ष्मणौ
राघवौ मुनिशार्दूलमूचतुस्तावरिंदमौ. ॥१२२॥
राजपुत्रौ समाश्लिष्य प्रहृष्टो मुनिपुंगवः
प्रविवेश तदा दीक्षां नियतो निअतेंद्रियः. ॥१२३॥
मर्दितुं राक्षसान् यत्तावनिद्रौ रामलक्ष्मणौ
सोत्साहौ षडहोरात्रं तपोवनमरक्षताम्. ॥१२४॥
जलदाविव मारीचसुबाहू नभसि स्थितौ
वेदीममेध्यवर्षेण दूषयामासतुः क्रतोः. ॥१२५॥
यत्तेन रामभद्रेण मारीचः शतयोजनम्
क्षिप्तोsब्धौ मानवास्त्रेण वातेनेव तरुच्छदः. ॥१२६॥
जवेनोत्सार्य मारीचं सुबाहुं कुणपाशनम्
ददाह रामोsग्न्यस्त्रेण स्वनाम्नेषाघपर्वतम्. ॥१२७॥
यशस्विप्रवरः शीघ्रं तयोरनुचरान्खलान्
शेषान्वायव्यमादाय निजघान रघूद्वहः. ॥१२८॥
राशिभिः पुण्यतपसां सर्वैराश्रमवासिभिः
ऋषिभिः पूजितो रामो यथेंद्रो विजये पुरा. ॥१२९॥
` मम सिद्दाश्रमो राम ! कृतोsन्वर्थस्त्वये ' त्यमुम्
प्रशस्य गाधिजस्ताभ्यां सायंसंध्यामुपागमत्. ॥१३०॥
श्रीरामः सानुजः प्रातर्विधिं कृत्वा कृतांजलिः
` किंकरः किं करोमी'ति गुरुं गाधिजमब्रवीत्. ॥१३१॥
राजर्षिपुत्रं तं प्राह मुनि`र्जनकभूभुजः
यज्ञो भविष्यत्यचिरात्तत्र यास्यामहे वयम्. ॥१३२॥
मखं द्रष्टुं त्वमस्माहिः सह राम ! गमिष्यसि
तत्र शंभोर्धनुर्दिव्यं द्रक्ष्यस्यमितविक्रम ! ॥१३३॥
जनकस्य सभायां तद्विद्यतेsरिनिबर्हणम्
पादपद्ममिवेशस्य सदा सद्भिः समर्चितम्. ॥१३४॥
यत्सुरारगंधर्वराक्षसैर्वसुधाधिपैः
अशक्यारोपणं राम ! धनूरत्नं प्रयत्नतः. ' ॥१३५॥
राममुक्त्वैवमामंत्र्य कौशिको वनदेवताः
सर्षिसंघः सकाकुत्स्थः स जगामोत्तरां दिशम्. ॥१३६॥
महर्षिमनुजग्मुस्तं मृगाणां पक्षिणां गणाः
निवर्तयामास स तान्त्सर्वसत्त्वसुहृत्स्वयम्. ॥१३७॥
जनितप्रमुदे शोणातीरे रामाय पृच्छते
कथयामास पूर्वेषां मुनिर्माहात्म्यमात्मनः. ॥१३८॥
ययावथ ततो देशाद्गंगायास्तटमुत्तमम्
तत्राप्यकथयद्गंगामाहात्म्यमखिलं मुनिः. ॥१३९॥
जन्म स्कंदस्य चरितं सगरस्य च विस्तरात्
गंगावतरणं पुण्यं कौशिकोsकथयस्त्वयम्. ॥१४०॥
यमुनायाः सखीं गंगामुत्तीर्य स तपोनिधिः
विशालां नगरीं प्राप्य तत्रोवास महायशाः. ॥१४१॥
राघवेणा`र्य कस्येयनि'ति पृष्टे प्रसंगतः
क्षीरोदमथनं प्रोक्तं युद्धं देवासुरोद्भवम् ॥१४२॥
मरुतां जन्म च दितेस्तत्तपःस्थान उत्तमे
पुर्या इक्ष्वाकुवंश्येन विशालेन निवेशनम्. ॥१४३॥
श्रीमता गाधिजेनेदं प्रोक्त्कं रामाय सादरम्
विशालाधिपती राजा सुमतिस्तानपूजयत्. ॥१४४॥
रात्रिं तत्रातिवाह्यायं मिथिलोपवनं ययौ
तत्र दृष्ट्वाश्रमं रम्यं निर्जनं मुनिपुंगवम् ॥१४५॥
मधुरं मधुराभाषी मनुजेश्वरनंदनः
रामः पप्रच्छ, ` कस्येदं स्थानमीदृक् कथं प्रभो ! ' ॥१४६॥
जगद्गीततपाः प्राह, ` वत्सासीदत्र गौतमः
सोsहल्यया सहातिष्ठत्तपः सुचिरमात्मवान्. ॥१४७॥
यत्नादहल्यां बुभुजे शक्रो गौतमरूपभाक्
तया ` स्वं मां च रक्षे ' ति प्रोक्तोsगादुटजाद् द्रुतम्. ॥१४८॥
राजानं द्युसदां ज्ञात्वा मुनिवेषं कृतागसम्
` अफलस्त्वं भवे'त्येवं मुनिवर्योsशपद्रुषा. ॥१४९॥
महेंद्रस्यर्षिशप्तस्य पेततुर्वृषणौ भुवि
तथा शप्त्वा स देवेशं भार्यामपि च शप्तवान्. ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:37.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

overdue loan

  • न. थकित कर्ज 
  • न. थकित कर्ज 
  • थकित कर्ज 
RANDOM WORD

Did you know?

वैराग्याच्या चार अवस्था कोणत्या?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.