संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|तृतीय पटल| योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ तृतीय पटल योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन १ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ४ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ सिद्धासनकथनम् पद्मासनकथनम् उग्रासनकथनम् स्वस्तिकासनकथनम् तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ Translation - भाषांतर यदा निष्पत्तिसंपन्न: समाधि: स्वेच्छया भवेत् ॥८१॥गृहीत्वा चेतनां वायु: क्रियाशक्तिं च वेगवान् ।सर्वान् चक्रान् विजित्वा च ज्ञानशक्तौ विलीयते ॥८२॥इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम् ।येन संसारचक्रेsस्मिन् रोगहानिर्भवेद्ध्रुवम् ॥८३॥रसना तालुमूले य: स्थापयित्वा विचक्षण: ।पिबेत् प्राणानिलं तस्य रोगाणां संक्षयो भवेत् ॥८४॥काकचञ्च्वा पिबेद्वायुं शीतलं यो विचक्षण: ।प्राणापानविधानज्ञ: स भवेन्मुक्ति भाजन: ॥८५॥सरसं य: पिबेद्वायुं प्रत्यहं विधिना सुधी: ।नश्यन्ति योगिनस्तस्य श्रेमदाहजरामया: ॥८६॥रसनामूर्ध्वगां कृत्वा यश्चंद्रे सलिलं पिबेत् ।मासमात्रेण योगीन्दो मृत्युं जयति निश्चितम् ॥८७॥राजदन्तबिलं गाढं संपीड्य विधिना पिबेत् ।ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ॥८८॥काकचञ्च्वा पिबेद्वयुं सन्ध्ययोरुभयोरपि ।कुण्डलिष्या मुखे ध्यात्वा क्षयरोगस्य शांतये ॥८९॥अहर्निशं पिबेद्योगी काकचञ्च्वा विचक्षण: ।पिबेत्प्राणानिलं तस्य रोगानां संक्षयो भवेत् ।दूरश्रुतिर्दूरदृष्टिस्तथा स्यादृर्शनं खलु ॥९०॥दन्ते दन्तान् समापीड्य पिबेद्वायुं शनै: शनै: ।ऊर्ध्वजिह्व: सुमेधावी मृत्युं जयति सोsचिरात् ॥९१॥षण्मासमात्रमभ्यासं य: करोति दिने दिने ।सर्वपापविनिर्मुक्तो रोगान्नाशयते हि स: ॥९२॥संवत्सरकृत्वाभ्यासान्मृत्युं जयति निश्चितम् ।तस्मादतिप्रयत्नेन साधयेद्योगसाधक: ॥९३॥वर्षत्रयकृताभ्यासाद्भैरवो भवति ध्रुवम् ।अणिमादिगुणान् लब्ध्वा जितभूतगण: स्वयम् ॥९४॥रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति ।क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभि: ॥९५॥रसनां प्राणसंयुक्तां पीड्यमानां विचिन्तयेत् ।न तस्य जायते मृत्यु: सत्यं सत्यं मयोदितम् ॥९६॥एवमभ्यासयोगेन कामदेवो द्वितीयक: ।न क्षुधा न तृषा निद्रा मूर्च्छा प्रजायते ॥९७॥अनेनैव विधानेन योगीन्द्रोsवनिमण्डले ।भवेत्स्वच्छन्दचारी च सर्वाप्त्परिवर्जित: ॥९८॥न तस्य पुनरावृत्तिर्मोदते स सुरैरपि ।पुण्यपापैर्न लिप्येत एतदाचरणेन स: ॥९९॥चतुरशीत्यासनानि सन्ति नानाविधानि च ।तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम् ।सिद्धासनं तत: पद्मासनं चोग्रं च स्वस्तिकम् ॥१००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP