संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|तृतीय पटल| योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ तृतीय पटल योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन १ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ४ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५ सिद्धासनकथनम् पद्मासनकथनम् उग्रासनकथनम् स्वस्तिकासनकथनम् तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २ Translation - भाषांतर योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम् ।गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् ॥२१॥सुशोभने मठे योगी पद्मासनसमन्वित: ।आसनोपरि संविश्य पवनाभ्यासमाचरेत् ॥२२॥समकाय: प्राञ्जलिश्च प्रणम्य च गुरुन् सुधी: ।दक्षे वामे च विघ्नेशं क्षेत्रपालाम्बिकां पुन: ॥२३॥ततश्च दक्षांगुष्ठेन निरुद्धय पिंगला सुधी: ।इडया पूरयेद्वायुं यथाशक्ति यु कुम्भयेत् ॥२४॥ततस्त्यक्त्वा पिंगलया शनैरेव न वेगत: ।पुन: पिंगलयापूर्य यथाशक्ति तु कुम्भयेत् ॥२५॥इडया रेचयेद्वायुं न वेगेन शनै: शनै: ।इदं योगविधानेन कुर्याद्विंशतिकुंभकान् ।सर्वद्वंद्वविनिर्मुक्त: प्रत्यहं विगतालस: ॥२६॥प्रात:काले च मध्याह्ने सूर्यास्ते चार्धरात्रके ।कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकाम् ॥२७॥इत्थं मासद्वयं ( त्रयं ) कुर्यादनालस्यो दिने दिने ।ततो नाडीविशुद्धि: स्यादविलम्बेन निश्चितम् ॥२८॥यदा तु नाडीशुद्धि: स्याद् योगिनस्तत्त्वदर्शिन: ।तदा विध्वस्तदोषश्च भवेदारम्भसम्भव: ॥२९॥चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धित: ।कथ्यन्ते तु समस्तान्यंगानि संक्षेपतो मया ॥३०॥समकाय: सुगन्धिश्च सुकान्ति: स्वरसाधक: ॥३१॥आरम्भघटकश्चैव यथा परिचयस्तदा ।निष्पत्ति: सर्वयोगेषु योगावस्था भवन्ति ता: ॥३२॥आरम्भ: कथितोsस्माभिरधुना वायुसिद्धये ।अपर: कथ्यते पश्चात्सर्वदु:खौघनाशन: ॥३३॥प्रौढवह्नि: सुभोगी च सुखो सर्वांगसुंदर: ।संपूर्णहृदयो योगी सर्वोत्साहबलान्वित: ।जायते योगिनोsवश्यमेतत्सर्व कलेवरे ॥३४॥अथ वर्ज्य प्रवक्ष्यामि योगविघ्नकरं परम् ।येन संसारदु:खाब्धिं तीर्त्वा यास्यन्ति योगिन: ॥३५॥आम्लं रूक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम् ।बहुलं भ्रमणं प्रात:स्नानं तैलविदाहकम् ॥३६॥स्तेयं हिंसां जनद्वेषं चाहंकारमनार्जवम् ।उपवाससत्यञ्च मोहञ्च प्राणपीडनम् ॥३७॥स्त्रीसंगमग्निसेवां च बहवालापं प्रियाप्रियम् ।अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ॥३८॥उपायं च प्रवक्षामि क्षिप्रं योगस्य सिद्धये ।गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु ॥३९॥घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम् ।कर्पूरं निष्ठुरं मिष्टं सुमठं सूक्ष्मवस्त्रकम् ( सूक्ष्मरंध्रकम् ) ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP