द्वितीयं ब्राम्हणं - भाष्यं ७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  तस्यास्य प्रथमजस्याग्नेरश्वमेधोपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते । सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचाम । इत्थमसौ शुद्धजन्मेति ॥

भाष्यं :--- तस्य प्राची दिक्शिरो विशिष्टत्वसामान्यत । असौ चासौ चैशान्याग्नेय्यावीर्मौ बाहू । ईरयतेर्गतिकर्मण: । अथस्याग्ने: प्रतीची दिक्पुच्छं जघन्यो भाग: । प्राङमुखस्य प्रत्यग्दिक्संबन्धात । असौ चासौ च वायव्यनैऋत्यौ स्क्थ्यौ सक्थिनी पृष्टकोणत्वसामान्यात । दक्षिणा चोदीची च पार्श्चे उभयदिक्संबन्धसामान्यात । द्यौ: पृष्ठमन्तरिक्षमुदरमिति पूर्व्वत । इयमुर:, अधोभागसामान्यात ॥

भाष्यं :---  स एषोऽग्नि: प्रजापतिरुपो लोकाद्यात्मकोऽग्निरप्सु प्रतिष्ठित: । “एवमिमे लोका अप्स्वन्त:’ इति श्रुते: । यत्र क्व चयस्मिन्कस्मिंश्चिदेति गच्छति तदेव तत्रैव प्रतितिष्ठति स्थितिं लभते । कोऽसावेवं यथोक्तमप्सु प्रतिष्थितत्वमग्नेर्विद्वान्विजानन्गुणफलमेतत ॥३॥

श्रुति :--- सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुन समभवदशनाया म"उत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत । न ह पुरा तत: संवत्सर आस तमेतवन्तं कालमविभ: । यावान्संवत्सरस्तमेतावत: काल्स्य परस्तादसृजत । तं जात्मभिव्याददात्स भाणकरोत्सैव वागभवत ॥४॥

भाष्यं :---  सोऽकामयत योऽसौ मृत्यु: सोऽबादिक्रमेणाऽऽत्मनाऽऽत्मानमण्डस्यान्त: कार्यकरणसंघातवन्तं विराजमग्निमसृजत त्रेधा चाऽऽत्मानमकुरुतेत्युक्तम । स किंव्यापार: सन्नसृजतेति । उच्यते । स मृत्युरकामयत कामितवान किम । द्वितीयो मे ममाऽऽत्मा शरीरं येनाहं शरीरी स्यां स जायेतोत्पद्येतेत्येवमेतदकामयत ॥

भाष्यं :---  सं एवं कामयित्वा मनसा पूर्वोत्पन्नेन वाचं त्रयीलक्षणां मिथुनं द्वंद्वभावं समभवत्संभवनं कृतवान्मनसा त्रयीमालोचितवांस्त्रयीविहितं सृष्टिक्रमं मनसाऽन्वालोचयदित्यर्थ: । कोऽसावशानायया लक्षितो मृत्यु: । आशनाया मृत्युरित्युक्तम । तमेव परामृशत्यन्यत्र प्रसङगो मा भूदिति ॥

भाष्यं :--- तद्यद्रेत आसीत । तत्तत्र मिथुने यद्रेत आसीत्प्रथमशरीरिण: प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपं त्रय्यालोचनायां यदद्दष्टवानासीज्जन्मान्तरकृतम । तद्भावभावितोऽप: सृष्तावा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूत: स संवत्सरो‍ऽभवत्संवत्सरकालनिर्माता संवत्सर: प्रजा पतिरभवत । न ह पुरा पूर्वं ततस्तस्मात्संवत्सरकालनिर्मातु: प्रजापते: संवत्सर: कालो नाऽऽस न बनूव ह ॥

भाष्यं :---  तं संवत्सरकालिनिर्मातार्मन्तर्गर्भं प्रजापतिं यावानिह प्रसिद्ध: काल एतावन्तमेतावत्संवत्सरपरिमाणं कालमबिभर्भृतवान्मृत्यु: । यावान्त्स्शंवत्सर इह प्रसिद्ध: । तत: परस्तत्किं कृतवान । तमेतावत: कालस्य संवत्सरमात्रस्य परस्तादूर्ध्वमसृजत सृष्टवानण्डमभिनदित्यर्थ: ॥

भाष्यं :---  तमेवं कुमारं जात्मग्निं प्रथमशरीरिणमशनायावत्त्वान्मृत्युरभिव्याददान्मुखविदारणं कृतवानत्तुम । सचकुमारो भीत:स्वाभाविक्याऽविद्यया युक्तो भाणित्येवं शब्दमकरोत । सैव वागभवद्वाक्शब्दोऽभवत ॥४॥

श्रुति :--- स ऐक्षत यदि वा इममभिम स्ये कनीयोऽन्नं करिष्य इति स तया वाचातेनाऽऽत्मनेद सर्वमसृजत यदिदं किंचर्चो यजू षि सामानि छन्दा सि यज्ञान्प्रजा: पशून । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्व सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥५॥

भाष्यं :---  स ऐक्षत स एवं भीतं कृतरवं कुमारं द्दष्टवा मृत्युरैक्षतेक्षितवानशनायावानपि । यदि कदाचिद्वा इमं कुमारंअभिमंस्ये । अभिपूर्वो मन्यतिर्हैंसार्थ: । हिंसिष्य इत्यर्थ: । कनीयोऽन्नं करिष्ये कनीयोऽल्पमन्नं करिष्य इत्येवमीक्षित्व तद्भक्षणादुपरराम । बहु हयन्नं कर्तव्यं दीर्गकालभक्षणाय न कनीय: । तद्भक्षणे हि कनियोऽन्नं स्यादबीजभक्षण इव सस्याभाव: । स एवं प्रयोजनमन्नबाहुल्यमालोच्य तयैव त्रय्था वाचा पूर्वोक्तया तेनैव चाऽऽत्मना मनसा मिथु नीभावमालोचनमुपगम्योपगम्येदं सर्वं स्थावरं जङगमं चासृजत यदिदं किंच यत्किंचेदम ॥

भाष्यं :---  किं तत । ऋचो यजूंषि सामानि च्छन्दांसि च सप्त गायत्र्यादीनि । स्तोत्रशस्त्रादिकर्माङगभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान्यज्ञांश्च तत्साध्यान्प्रजास्तत्कर्त्री: पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान ॥

भाष्यं :---   ननु त्रय्या मिथुनीभूतयाऽसृजतेत्युक्तमृगादीनीह कथमसृजतेति ।
नैष दोष: । मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या बाम्हास्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभाव: सर्ग इति । स प्रजापतिरेवमन्नवृद्धिं बुदध्वा यद्यदेव कियां क्रियासाधनं फलं वा किंचिदसृजत तत्तदत्तुं भक्षयितुमध्रियत धृतवान्मन: । सर्वं कृत्स्नं वै यस्मादत्तीति तत्तस्माद्दितेरदितिनाम्नो मृत्योरदितित्वं प्रसिद्धम । तथा च मन्त्र: “अदितिर्द्यौरदितरन्तरिक्षमदितिर्माता स पिता” इत्यादि: ॥

भाष्यं :---  सर्वस्यैतस्य जगतोऽन्नभूतस्यात्ता सर्वात्मनैव भवत्यन्यथा विरोधात । न हि कश्चित्सर्वस्यैकोऽत्ता द्दश्यते तस्मात्सर्वात्मा भवतीत्यर्थ: । सर्वमस्यान्नं भवत्यत एव । सर्वात्मनो हयत्तु: सर्वमन्नं भवतीत्युपपद्यते । य एवमेतद्यथोक्तमदितेर्मृत्यो: प्रजाप्ते: सर्वस्यादनाददितित्वं वेद तस्यैतत्फललम ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP