संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|द्वितीयं बाम्हणं| भाष्यं १ द्वितीयं बाम्हणं भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ द्वितीयं ब्राम्हणं - भाष्यं १ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १ Translation - भाषांतर किंचनाग्र आसीन्मृत्युनैबेदमावृतमासीत ।भाष्यं :--- अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते । तद्विषयदर्शनविवक्षयैवोत्पत्ति: स्तुत्यर्था । नैवेह किंचनाग्र आसीत । इत संसारमण्डले किंचन किं चिदपि नामरूपप्रैव्भक्तविशेषं नैवाऽऽसीन्न बभूव । अग्रे प्रागुप्तत्तेर्मनाअदे: । किं शून्यमेव बभूव । शून्यमेव स्यात नैवेह किंचन” इति श्रुते: । न कार्यं कारणं वाऽऽसीत । उत्पत्तेश्व । उत्पद्यते हि घट: । अत: प्रागुत्पत्तेर्घटस्य नास्तिम ॥भाष्यं :--- ननु कारणस्य न नास्तित्वं मृत्पिण्डादिदर्शनात। यन्नोपलभ्यते तस्यैव नास्तिताऽस्तु कार्यस्य । न तु कारणस्योपलभ्यमानत्वात ॥भाष्यं :--- न । प्रागुत्पत्ते: सर्वानुपलम्भात । अनुपलब्धिदभावहेतु: सर्वस्य जगत: प्रागुप्तत्तेर्न कार्ण्म कर्य वोपलभ्यते । तस्मात्सर्वस्यैवाभावोऽस्तु ॥भाष्यं :--- न । “मृत्युनैवेदमावृतमासीत” इति श्रुते: । यदि हिकिंचिदपि नाऽऽसीद्येनाऽऽव्रियते यच्चाऽऽव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति। न हिभवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति । ब्रवीति च मृत्युनैवेदमावृतमासीदिति तस्माद्येनाऽऽवृतं कारणेन यच्चाऽऽवृतं कार्यं प्रागुप्तत्तेस्तदुभयमासीत । श्रुते पामाण्यादनुमेयत्वाच्च ॥भाष्यं :--- अनुमीयते च प रागुप्तत्ते: कार्यकारणयोरस्तित्वम । कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात । असति चादर्शनात । जगतोऽपिप्रागुप्तते: कारणास्तित्वमनुमीयते घटादिकाणास्तित्ववत ॥भाष्यं :--- घटादिकारणस्याप्यसत्त्वमेव अन्पमृद्य मृत्पिण्डादिकं घटाअद्यनुत्पत्तेरिति चेन्न । मृदादे: कारणत्वात । मृत्सुवर्नादि हि तत्र कारणं घटरुचकादेर्न पिण्डाकारविशेष: । तदभविऽभावात । असत्यपि पिण्डाकारविसेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पात्तिर्द्दश्यते । तस्मान्न पिण्दाकारविशेषो घटरुचकादिकारणम । असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणं न तु पिण्डाकारविशेष: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP