संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|द्वितीयं बाम्हणं| भाष्यं २ द्वितीयं बाम्हणं भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ द्वितीयं ब्राम्हणं - भाष्यं २ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २ Translation - भाषांतर भाष्यं :--- सर्वं हि कारणं कार्यमुत्पादयत्पूर्वोत्पन्नस्याऽऽत्मकार्यस्य तिरोधानं कुर्वत्कार्यान्तरमुत्पादयति । एकस्मिन्कारणे युगपानेककार्यविरोधात । न च पुर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति । तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतु: प्रागुत्पत्ते: कारणासत्त्वे ॥ भाष्यं :--- पिण्डादिव्यतिरेकेण मृदारेरसत्त्वादयुक्तमिति चेत । पिण्डादिपूर्वकार्योपमर्दे मृदाइद्कारणं नोपमृद्यते घटादिकार्यान्तरेऽप्यनुवर्तत इत्येतदयुक्तम । पिण्डघाटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेन्न । मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात ॥भाष्यं :--- साद्दश्यादन्वयदर्शनं न कारणानुवृत्तेरिति चेन्न \ पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्साद्दश्यादिकल्पनानुपपत्ते: ॥भाष्यं :--- न च प्रत्यक्षानुमानायोर्विरुद्धाव्यभिचारिता । प्रत्यक्षपूर्वकत्वादनुमानस्य । सर्वत्रैवानाश्वासप्रसङगात । यदि च क्षणिख सर्वं तदेवेदमिति गम्यमानं तदबुद्धेरप्यन्यतदबुद्धयपेक्षत्वे तस्या अप्यन्यतदबुद्धयपेक्षत्वमित्यनवस्थायां तत्सद्दशमिदमित्यस्या अपि बुद्देर्मृषात्वात्सर्वत्रानास्वासतैव \ तदिदंबुद्धयोरपि कर्त्रभावे संबन्धानुपपत्ति: ॥भाष्यं :--- साद्दश्याततत्संबध इति चेन्न । तदिदंबद्धयोरितरेतरविषयत्वानुपपत्ते: । अस्ति चेतरेतरविषयत्वे साद्दश्यग्रहणानुपपत्ति: ॥भाष्यं :--- असत्येव सादश्ये तदबुद्धिरिति चेन्न । तदिदंबुद्धयोरपि साद्दश्यबुद्दिवदसद्विषयत्वप्रसङ्गात ॥भाष्यं :--- असद्विषयत्वमेव सर्वबुद्धिनामस्त्विति चेन्न । बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात ॥भाष्यं :--- तदष्यस्तिवि चेन्न । सर्वबुद्धीनां मृषात्वेऽसत्यबुद्धथनुपपत्ते: तस्मादसदेतत्साद्दश्यात्तदबुद्धिरिति । अत: सिद्ध: प्राक्कार्योत्पत्ते: कारणसद्भाव: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP