समासोक्ति अलंकारः - लक्षण ११

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र राजव्यवहारस्य । एवं शास्रान्तरव्यवहारे‍ऽपि बोध्यम्‍ । इयं चालंकारान्तरेषु बहुष्वानुगुण्येन स्थिता । यथा-
‘ स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपै: सह । अस्तं गते तु सुतरां स्त्रीणां क: प्रत्ययो भुवि ॥ ’
अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते । ‘ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रिया: कैरविण्यो रमन्ते मधुपै: सह ॥ ’
इह समर्थकत्वेन ।
‘ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्‍ । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ ’
अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादिविशेषणसाम्योत्थापितया समासोक्त्या सज्जनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे
भूशाखासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूप-हेतूत्प्रेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकता-पत्ते: । इत्युत्प्रेक्षानुगुणा समासोक्ति: । एवम्‍-
‘ राज्याभिषेकमाज्ञाय शम्बरासुरवैरिण: । सुधाभिर्जगतीमध्यं लिम्पतीव सुधारकर: ।
इत्यत्रापि स्वामिसेवकव्यवहारभूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अच्चेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिस्वरूप-हेतु-फलोत्प्रेक्षा-याम्‍, चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रे-क्षायां च समासोक्तिरेव भूलम्‍ ।
इति रसगंगाधरे समसोक्तिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP