संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| समासोक्ति अलंकारः| लक्षण ५ समासोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ समासोक्ति अलंकारः - लक्षण ५ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ५ Translation - भाषांतर अथास्या: केचन भेदा निगद्यन्ते-विशेषणसाम्य्म श्लेषेण भवति शुद्धसाधारण्येन वा, तदपि धर्मान्तरपुर-स्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम । तत्र ‘ विबोधयन्करस्पशैं : ’ इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाह्लतमपि विशेषणसाम्यं पुनरुदा-ह्लियते-‘ उत्सड्रे तव गड्रे पायं पायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभर: कथय कदाहं चिराय शयिताहे ॥ ’अत्र शिशुजननीवृत्तान्ताभेदेन स्थित: प्रकृतवृत्तान्त: । श्लिष्टकार्य-पुरस्कारेणाप्युदाह्लतं ‘ संगृह्लास्यलकान्निरस्यसि-’ इत्यत्र ।शुद्धसाधारण्येन धर्मांन्तरपुरस्कारेण यथा-‘ अलंकर्तंउ कर्णै भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगद्दश: । कराब्जव्यापारानतिसुकृतसारान्रसयतो जनु: सर्वश्लाघ्यं जयति ललितोत्तंस भवत: ॥अत्र नवकान्तया क्लेशेन कर्णे क्तियमाणस्योत्तंसस्य वृत्तान्त: प्रत्यग्र-स्वण्डिताधरकामुकवृत्तान्ताभेदेन स्थित: । यथा वा-‘ अन्धेन पातभीत्या संचरता विषमविषयेषु । द्दढमिह मया गृहीता हिमगिरिश्रृड्रादुपागता गड्रा ॥ ’अत्र गिरिश्रृड्रप्रभववेणुयष्टिव्यवहाराभेदेन ।कार्यसाधारण्येन यथा-‘ देव त्वां परित: स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि, यस्य तरुणश्चापप्रतापोऽधुना । क्तोडान्त: कुरुतेतरां वसुमतीमाशा: समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP