समासोक्ति अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतु: । यद्यपि विशेषणसमर्पितयोर्द्वयोरप्यर्थयोरविशिष्टं प्राधान्यम्‍  , तथाप्य-न्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे, श्रुते प्रकृतव्यवहारधर्मिण्ये-वाप्रकृतव्यवहारस्यारोप उचित: । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वा-भावाक्तामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वादा-रोप: । कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यञ्जितस्य व्यव-हारविशेषणत्वम्‍ । तस्मात्‍ ‘ अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमा: ’
इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रयश्चन्द्र इत्येव बोध: ” इति ।
तदेतत्सर्वमसंगतम्‍ । यत्तावदुच्यते ‘ मुखं चन्द्र ’ इत्यत्र मुखे चन्द्रत्वा-रोप इति, तन्न । नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रस्यारोप:, न चन्द्रत्वस्य चन्द्रविशेषणस्य । यदप्युच्यते जारादिपदसमभिव्याहारस्य हेतो-र्विरहान्न चन्द्रादौ जारत्वारोप इति । तत्र श्रौतारोपे तादृशसमभिव्याहार-स्य हेतुत्वम्‍, न त्वार्थारोपे । अन्यथा रूपकध्वनेरुच्छेदापत्ते: । न च
रूपकध्वनावारोप्यमाणासाधारणधर्मोक्तिरारोप्यमाणतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम्‍ । इहापि परनायिकामुखचुम्बनस्य श्लेष-मर्यादया व्यञ्जनमर्यादया व प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जकताया: स्फुटत्वात्‍ । एतेन ‘ विद्युन्‍-नयनै: ’ इत्यत्र ‘ त्वं सेतुमन्थकृत्‍ ’ इत्यत्र च यथा द्रष्ट्टत्व-विष्णुत्वगमकं तथेह नास्तीति निरस्तम्‍ । न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारण्यवहारारोप: सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम्‍ । गमकं हि द्विविधम्‍-आक्षेपकं व्यञ्जकं च । तत्राक्षेपकमनुपपद्यमानमेव
गमयति । व्यञ्जकं तु नानुपपत्तिमपेक्षते । ‘ गतोऽस्तमर्क: ’ इत्यादौ तथैव दर्शनात्‍ । अन्यथा अर्थापत्त्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसड्रात्‍ । किं च त्वयापि हि जारादेरप्रकृतधर्मिण: प्रतीतिरवश्यं वाच्या आरोप्य-माणव्यवहारविशेषणार्थम्‍ । अन्यथा स्वरूपतो ह्यप्रकृतव्यवहारारोपे चारुतानापत्ते: । एवं चावश्योपस्थाप्यस्य जारादेस्तादृशचुम्बनकर्तरि चन्द्रा-
दावेव तादात्म्येन विशेषणत्वमुचितम्‍ , न तु व्यवहारे भेदेन । चन्द्रस्य जारभिन्नतावगमे परनायिकावदनचुम्बनस्याग्लद्यत्वात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP