समासोक्ति अलंकारः - लक्षण ८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणीयत्वाच्च अवश्यकलृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात्‍ । तस्मादौपम्यगर्म-विशेषणोत्थापित: समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन
शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्तिसमासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीय; । प्रभेदो भवितुमीष्टे, स्वतन्त्रविषयत्वाभावात्‍ ।
यथा-
‘ निर्मलाम्बररम्यश्री: किंचिद्दर्शिततारका । हंसावलीहारयुता शरद्विजयतेतराम्‍ ॥ ’
अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्य-गर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं
‘ दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी ’ इति पूर्वार्धे कृते शुद्धसाधारण-विशेषणोत्थापितैव ।
एवं च-
‘ परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम्‍ ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP