संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| समासोक्ति अलंकारः| लक्षण १० समासोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ समासोक्ति अलंकारः - लक्षण १० रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १० Translation - भाषांतर अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्धयसमृद्धि-विपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्त: प्रतीयते ” इत्युक्तम् , तदसत् । समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्ते: । न च विशेषणसाम्यात्साट्टश्याद्वा यत्राप्रस्तुतव्यवहार: प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वाच्यम् । समासोक्तौ हि प्रकृतवृत्तान्तोऽप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम् । त्वयापि च ‘ प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते ’ इत्युक्तम् । एवं स्थिते नह्यत्र स्रोतोवृक्षादिविपर्यासो धनसंतानविपर्यासाद्यभेदेन प्रतीयते नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तरात्सत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथ: क्तियते तदा अलंकारान्तरमपि सभासोक्ति-कुक्षावेव निक्षिप्यताम् ।एवं तर्हि ‘ पुरा यत्र स्रोत: पुलिनमधुना तत्र सरितां ’ इत्यत्र कोऽलं-कार: ? । अप्रकृतेन वाच्येन प्रकृतव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्र-शंसया अत्रासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्, साधु पृष्टमायुष्मता । समाधानमस्य सप्रपञ्चमप्रस्तुतप्रशंसाप्रकरण एव निवेदयिष्याम इति । किं चालंकारसर्वस्वकृता ‘ साट्टश्यगर्भविशेषणोत्थापिता साट्टश्यमूला समा-सोक्ति: ’ इत्युक्तम् । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक् ।सेयं लैकिके व्यवहारे लैकिकस्य व्यवहारस्य, शास्त्रीये शास्त्रीय-स्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया यथा -‘ गुणवृद्धी परे यस्मिन्नैव स्त: प्रत्ययात्मके । बुधेषु सदिति ख्यांत तद्रह्म समुपास्महे ॥ ’अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानज्व्यवहार-स्य । लैकिके शास्त्रीयस्य यथा-‘ परार्थव्यासड्रादुजहदथ स्वार्थपरता-सभेदैकत्व्म यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्त : स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुष: ॥ ’अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि ‘ अथ ये वृत्तिं वर्तयन्ति किं त आहु: ’ इत्यादिना जहत्स्वार्था वृत्तिरजहत्स्वार्था वृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनार्थे अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकृता च हरिणा-‘ यथौषधिरसा: सर्वे मधुन्याहितशक्तय: । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदु: ॥ ’ इति ।सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम् ।शास्त्रीये लैकिकस्य यथा-‘ कृत्वा सूत्रै: सुगूढार्यै: प्रकृते: प्रत्ययं परम् । आगमान्भावयन्भाति वैयाकरणपुंगव: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP