समासोक्ति अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


कार्यधर्मान्तरयो: संकरेण साधारण्यं यथा-
‘ उत्क्षिप्ता: कबरीभरं विवलिता:पार्श्वद्वयं न्यक् कृता: पादाम्भोजयुगं रुषा परिह्लता दूरेण चेलाञ्चलम्‍ । गृह्लन्ति त्वरया भवत्प्रातिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिता: के के न भूमीरुहा: ॥ ’
अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम्‍ । समासोक्तो व्यज्य-मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम्‍ । तदुपस्कृतवाच्य-स्यैव तु प्राधान्यमित्युक्तम्‍ । तत्र यदि व्यड्रयस्यैव प्राधान्यं स्यात्‍ , न वाच्यस्य, तदा ‘ देव त्वां परित: स्तुवन्तु-’
इति प्रागुदाग्लतपद्ये निन्दा-
व्याजेन स्तुतौ पर्यवसान्म न स्यात्‍ । स्तुतिनिन्दयो: प्रकृताप्रकृतव्यवहारा-श्रयत्वादिति ध्येयम्‍ ।
“-‘ तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रत: ॥ ’
अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीति: । तत्र लतैकगामिविकासाख्यधर्मसमारोप: कारणम्‍ । अन्यथा विशेषण-साम्यमात्रेण नियतलताव्यवहारम्याप्रतीते: । विकासश्च प्रकृते उपचरितो ज्ञेय: ” इत्यलंकारसर्वस्वकार आह, तत्र विचार्यते--नात्र विशेषण-साम्यमात्रेण लताव्यवहारप्रतीति: , अपि तु लतारूपाऽप्रकृतासाधारण-विकासाऽऽरोपमहिम्नेति भवतैवोक्तम्‍ । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्ति: ? न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्‌ , अपि तु विशेषणसाम्यगम्य-
त्वम्‍ । प्रकृते च विकासस्याप्यधिकस्य गमकत्वम्‍ , न त्वेतावता विशेषण-साम्यस्य गमकताहानिरिति वाच्यम्‍ । श्लेषेऽतिव्याप्त्यापत्ते: । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम्‍ । एवं च न श्लेषेऽतिव्याप्ति: ।
नापि ‘ तन्वी मनोहरा ’ इत्यत्र लक्षणस्यावर्तनमिति वाच्यम्‍ । ‘ तम्बी मनोहरा ’ इत्यत्र समासोक्तेरेवाभावात्‍ । यत्र साधारणविशेषमहिम्नाऽप्र-कृतस्य स्फूर्तिस्तत्र समासोक्ति: । यत्र त्वसाधारणमहिम्ना, तत्र व्यड्रय-रूपकमिति विषयव्यवस्थापनात्‍ । एवं च प्रकृते साधारणविशेषण-सत्त्वेऽपि न तन्महिम्ना लताया: स्फूर्ति:, अपि तु विकासमहिम्नेति व्यड्रयरूपकमुचितम्‍ । यथा-
‘ चकोरनयनानन्दि कह्लाराह्लादकारणम्‍ । तमसां कदनं भाति वदनं सुन्दरं तव ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP