माघमास: - महाशिवरात्रिपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ माघकृष्णचतुर्दश्यां महाशिवरात्रिपूजाविधि: ॥

चतुर्दशी च सतिसम्भवे प्रदोषनिशीथोभयव्यापिनी ग्राह्या, असम्भवे निशीथव्यापिन्येव । एतदतिरिक्ता मासशिवरात्रिस्तु प्रदोषव्यापिनी ग्राह्या । सतिसम्भवे प्रदोषनिशीथोभयव्यापिनी ग्राह्येति सकलसिद्धान्त: ॥

सन्ध्यायां स्नात्वा, शिवपूजागारं संमार्जनरङ्गवल्लीवितानध्वजपुष्पफलतोरणादिभिरलङ्कृत्य, सन्ध्यामुपास्य, धृतभस्मत्रिपुण्डरुद्राक्षमाल: पूजागारे पवित्रासने उदङमुख उपविश्य, आचम्य प्राणानायम्य, देशकालौ स्मृत्वा, श्रीसाम्बसदाशिवमहारुद्रप्रीत्यर्थं महाशिवरात्रिनिमित्तं लघुरुद्राभिषेकपूर्वकं रुद्रैकादशिनीअभिषेकपूर्वकं वा पुरुषसूक्तेन यथामिलितषोडशोपचारद्रव्यै: प्रथमयामे श्रीशिवपूजनं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं शिवपञ्चाक्षरन्यासान् कलशशङ्खघण्टापूजनं च करिष्ये । गणानांत्वेति गणपतिं सम्पूज्य, वक्रतण्डेति प्रार्थयेत् । पृथ्वित्व० । अपस० । अपक्रा० । तीक्ष्णदं० । वामपादेन भूमिं त्रिस्ताडयेत् । अस्य श्रीशिवपञ्चाक्षरमन्त्रस्य वामदेवऋषि: । अनुष्टुप्‌छन्द: । श्रीसदाशिवदेवता न्यासे पूजने जपे विनियोग: ।

१. ॐ वामदेवऋषये नम: शिरसि ।
२. ॐ अनुष्टुपछन्दसे नम: मुखे ।
३. ॐ सदाशिवदेवतायै नम: हृदये ।
४. ॐ ॐ हृदयाय नम: ।
५. ॐ नं शिरसे स्वाहा ।
६. ॐ मं शिखायै वषट् ।
७. ॐ शिं कवचाय हुम् ।
८. ॐ वां नेत्रत्रयाप वौषट् ।
९. ॐ यं अस्त्राय फट् ।

कलशादि सम्पूज्य ॥ अथ ध्यानम् । ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याधकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्‌त्रं त्रिनेत्रम् ॥ शुद्धस्फटिकसङकाशं त्रि० ॥ प्रथमयामे शिवाय नम: शिवं ध्यायामि ॥ सहस्रशी० आवाहनस्थाने पुष्पाञ्जलिं स० ॥ पुरुष० ॐ शिवाय नम: आसनं स० । एतावा० पाद्यं० ॥ त्रिपादू० अर्ध्यं० ॥ तस्माद्वि० आचमनीयं० ॥ यत्पुरुषे० स्नानं० ॥ आप्याय० पयस्नानं० ॥ दधिक्रा० दधिस्नानं० ॥ घृतंमि० घृतस्नानं० ॥ मधुवाता० मधुस्रानं० ॥ स्वादु: पव० शकरास्नानं० ॥ कनिक्रद० अभ्यङ्गस्नानं० ॥ उष्णोदकस्नानं० ॥ शिवाय नम इति मन्त्रेण पञ्चोपचारपूजां कृत्वा, एकादशावृत्या, एकावृत्या वा रुद्रेण, पुरुषसूक्तेन वा, कद्रुद्राय०, तमुष्टुहि०, त्र्यम्ब०, इत्यादिरुद्रसूक्तैर्वा यथासम्भवं चन्दनकर्पूरकेशरादिमिश्रितजलेन अभिषेकं कुर्यात् । अभिषेकान्ते आचमनोयं० ॥ ॐ शिवा० रुद्राक्षमालाभस्प्रसमर्पणम् । त यज्ञं० वस्त्रं० ॥ तस्माद्य० सं० यज्ञोपवीतं० ॥ तस्माद्य० ऋ० चन्दनं० ॥ अक्षताश्च सुरश्रेष्ठा शुभ्रा धूताश्च निर्मला: । मया निवेदिता भक्तया गृहाण प० ॥ अक्षतान्० ॥ तस्माद० माल्यादी० करवीरैर्जा० शिवाय नम: इति मन्त्रेण जातीतगर-धत्तूर-मन्दार-करबीर-द्रोणपुष्प-कमल-कदम्बपुष्प-मालती-चम्पक-शतपत्र-अशोकादिऋतूद्धवपुष्पसमर्पणान्ते अष्टोत्तर-सहस्रं अष्टोत्तरशतं यथासम्भवं वा बिल्वपत्राणि सहस्र-नाम्ना पञ्चाक्षरमन्त्रेण वा समर्पयेत् ।

॥ शिवाष्टोत्तरशतनामावलीप्रारम्भ: ॥

अद्य० र्थं श्रीसाम्बसदाशिवप्रीत्यर्थं अष्टोत्तरशतनामभि: बिल्वदलसमर्पणं करिष्ये । अमृतोद्भव श्रीवृक्ष महादेवेन पूजित । बिल्वपत्रं सदा तोषात्प्रीयतां मे सदाशिव: ॥ इति सम्प्रार्थ्य, मध्यमानामिकाङगुष्ठैरेकैकं चन्द्रनजलाक्तं स्वाभ्यग्रं न्युब्जमर्पयेत् ॥

१. शिवाय नम: ।
२. महेश्वराय नम: ।
३. शाम्भवे नम: ।
४. पिनाकिने नम: ।
५. शशिशेखराय नम: ।
६. वामदेवाय नम: ।
७. विरूपाक्षाय नम: ।
८. कपर्दिने नम: ।
९. नीललोहिताय० ।
१०. शङ्गराय नम: ।
११. शूलपाणये नम: ।
१२. खट्‌वाङ्गिने नम: ।
१३. विष्णुवल्लभाय० ।
१४. शिपिविष्टाय० ।
१५. अम्बिकानाथाय० ।
१६. श्रीकण्ठाय नम: ।
१७. भक्तवत्सलाय० ।
१८. भवाय नम: ।
१९. शर्वाय नम: ।
२०. त्रिलोकेशाय० ।
२१. शितिकण्ठाय० ।
२२. शिवाप्रियाय० ।
२३. उग्राय नम: ।
२४. कपर्दिने नम: ।
२५. कामारये नम: ।
२६. अन्धकासुरसूदनाय० ।
२७. गङ्गाधराय नम: ।
२८. ललाटाक्षाय० ।
२९. कालकालाय० ।
३०. कृपानिधये नम: ।
३१. भीमाय नम: ।
३२. परशुहस्ताय० ।
३३. मृगवाणये० ।
३४. जटाधराय नम: ।
३५. कैलासवासिने० ।
३६. कवचिने नम: ।
३७. कठोराय नम: ।
३८. त्रिपुरान्तकाय० ।
३९. वृषाङ्काय नम: ।
४०. वृषभारुढाय० ।
४१. भस्मोदधूलितविग्रहाय नम: ।
४२. सामप्रियाय० ।
४३. स्वरमयाय नम: ।
४४. त्रयोमूर्तये नम: ।
४५. अनीश्वराय० ।
४६. सर्वज्ञाय नम: ।
४७. परमात्मने नम: ।
४८. सोमसूर्याग्निलोचनाय नम: ।
४९. हविषे नम: ।
५०. यज्ञमयाय नम: ।
५१. सोमाय नम: ।
५२. पञ्चवक्‌त्राय० ।
५३. सदाशिवाय० ।
५४. विश्वेश्वराय० ।
५५. वीरभद्राय नम: ।
५६. गणनाथाय० ।
५७. प्रजापतये नम: ।
५८. हिरण्यरेतसे० ।
५९. दुर्धर्षाय नम: ।
६०. गिरीशाय नम: ।
६१. गिरिजाय नम: ।
६२. अनघाय नम: ।
६३. भुकङ्गभष्णाय० ।
६४. भर्गाय नम: ।
६५. गिरिधन्वने० ।
६६. गिरिप्रियाय० ।
६७. कृत्तिवाससे० ।
६८. पुरारातये० ।
६९. भगवते नम: ।
७०. प्रमथ धिपाय० ।
७१. मृत्युञ्जयाय० ।
७२. सूक्ष्मतनवे नम: ।
७३. जगद्वयापिने नम: ।
७४. जगदुगुरवे नम: ।
७५. व्योमकेशाय० ।
७६. महासेनजनकाय० ।
७७. चारुविक्रमाय० ।
७८. रुद्राय नम: ।
७९. भूतपतये नम: ।
८०. स्थाणवे नम: ।
८१. अहिर्बुध्न्याय नम: ।
८२. दिगम्बराय नम: ।
८३. अष्टमूर्तये नम: ।
८४. अनेकात्मने नम: ।
८५. सात्विकाय नम: ।
८६. शुद्‌धविग्रहाय नम: ।
८७. शाश्वताय नम: ।
८८. खण्डपरशवे नम: ।
८९. अजाय नम: ।
९०. पाशविमोचनाय नम: ।
९१. मृडाय नम: ।
९२. पशुपतये नम: ।
९३. देवाय नम: ।
९४. महादेवाय नम: ।
९५. अव्ययाय नम: ।
९६. हरये नम: ।
९७. पूषदन्तभिदे नम: ।
९८. अव्यग्राय नम: ।
९९. दक्षाध्वरहराय नम: ।
१००. हराय नम: ।
१०१. भगनेत्रभिदे नम: ।
१०२. अव्यक्ताय नम: ।
१०३. सहस्राक्षाय नम: ।
१०४. सहस्रपदे नम: ।
१०५. अपवर्गप्रदाय नम: ।
१०६. अनन्ताय नम: ।
१०७. तारकाय नम: ।
१०८. परमेश्वराय नम: ।

अनेन अष्टोत्तरशतबिल्वदलसमर्पणाख्येन कर्मणा तेन श्रीसाम्बसदाशिव: प्रीयताम् ॥
यत्पुरुषं० धूपमाघ्रा० ॥ ब्राह्मणोस्य० दीपं दर्श० ॥ चंद्रमा० नैवेद्यं० ॥ करोद्वर्तनं० ॥ कूष्माण्डं मातुलिङ्गं च नारिकेलफलानि च । गृहाण पार्वतीकान्त सोमेश प्रति० ॥ नानाफलानि स० ॥ पूगीफ० ताम्बूलं० ॥ हिरण्यग० सुवर्णपुष्पार्थे दक्षिणां० ॥ श्रियेजा० नीराजयित्वा ॥

आरती ॥ लवथवतिविक्राळाब्रह्मांडींमाळा । विषे कंठकाळात्रिनेत्रीज्वाळा । लावण्यसुंदरमस्तकींबाळा तेथूनियांजळवाहेनिर्मळफुळफूळा ॥ जयदेवजयदेवजय श्रीशंकरा । आरतीओवाळूंतुजकर्पुरगौरा । जयदे० ॥१॥
कर्पूरगौरभोळानयनींविशाळा । अर्धांगीपार्वतीसुमनाच्या माळा ॥ विभूतीचे उधळणशितिकंठनीळा । ऐसाशङ्करशोभेउमावेल्हाळा । जयदे० ॥२॥
देवींदैत्यींसागरमंथनपै केलें । तयामाजीअवचिताहलाहलसेउठलें । तेंत्वां असुरपणेंप्राशनकेले । नीलकंठनामप्रसिद्धफालें । जयदे० ॥३॥
व्याघ्रांबरफणिवरधरसुंदरमदनारी । पंचाननमनमोहनमुनिजनसुखकारी । शतकोटीचेंबीजवाचेउच्चारी । रघुकुळटिळकरामदासाअन्तरीं । जयदे० ॥४॥

अष्टोत्तरसहस्रं शतं वा पञ्चाक्षरं जप्त्वा, स्तोत्रादिकं पठेत् । तत: नामभि: पुष्पाञ्जलीन्दद्यांत् ॥

१. ॐ शिवाय नम: ।
२. ॐ रुद्राय नम: ।
३. ॐ पशुपतये नम: ।
४. ॐ नीलकण्ठाय० ।
५. ॐ हरिकेशाय नम: ।
६. ॐ महेश्वराय नम: ।
७. ॐ विरुपाक्षाय नम: ।
८. ॐ पिनाकिने नम: ।
९. ॐ त्रिपुरान्तकाय० ।
१०. ॐ शम्भवे नम: ।
११. ॐ शूलिने नम: ।
१२. ॐ महादेवाय नम: ॥
नाभ्याआ० प्रदक्षिणां० ॥ सप्तास्या० नमस्कारान्० ॥ यज्ञेन० मन्त्रपुष्पाञ्जलिं स० ॥ मुखवाद्यघोषं च कृत्वा, सतिसम्भवे चामरव्यजनदर्पणादिराजोपचारान्समर्पयेत् । यस्य स्मृ० । अनेन मया कृतेन शिवरात्रौ प्रथमयामपूजनेन श्रीशिव: प्रीयताम् ॥ पामावशिष्टकालं तत्कथापुराणश्रवणादिना नयेत् । सतिसम्भवे वीणामृदङ्गादिवाद्यघोषगीतनृत्यादि कारयेत् ॥
द्वितीये प्रहरे प्राप्ते, आचम्य देश० महाशिवरात्रौ श्रीशङ्करप्रीत्यर्थं द्वितीययामपूजनमहं करिष्ये । श्रीशङ्कराय नम इति नाममन्त्र: । एतावान् विशेष:, अन्यत्सर्वं प्रथमयामवत् ॥

तत: निशीथे, आचम्य, रात्रीं प्रपद्ये इति मन्त्रद्वयं पठन् रात्रीं सम्प्रार्थ्य, देशकालौ स्मृत्वा, शिवरात्रौ महानिशायां साम्बसदाशिवप्रीत्यर्थं पूजनं करिष्ये । श्रीसाम्बसदाशिवाय नम: इति मन्त्रेण यथासम्भवं विस्तरेण महापूजां कुर्यात् ॥

तृतीययामे प्राप्ते, आचम्य देश०, महाशिवरात्रौ श्रीमहेश्वरप्रीत्यर्थं तृतीययामपूजनं करिष्ये । अन्यत्सर्वं पूर्ववत् ॥

चतुर्थप्रहरे प्राप्ते, आचम्य देशका० महाशिवरात्रौ श्रीरुद्रप्रीत्यर्थं चतुर्थयामपूजनं करिष्ये । ॐ रुद्राय नम इति नाममन्त्र: । अन्यत् सवं पूर्ववत् । एवं विस्तरेण करणाशक्तौ यथाशक्ति यथाधिकारं पूजाजागरणे कुर्यात् ।

तत: प्रभाते सन्ध्यादि नित्यविधिं निर्वर्त्य, आचम्य देश० श्रीमहारुद्रप्रीत्यर्थं पूजनं करिष्ये । कलशपूजनादिषोडशोपचारैर्देवं सम्पूज्य, गणपतिं विसूजेत् । यान्तु० तत: पूर्वोक्तै: शिवोरुद्वैत्यादि द्वादशनामभि: द्वादशब्राह्मणान् अशक्तौ एकं वा सम्पूज्य, तेभ्य: तिलपक्वान्नपूरितान्द्वादशकुम्भान् एकं वा दत्त्वा दक्षिणां दद्यात् । आचम्य देश० एतत्कर्मपूजासाङ्गतासिध्यर्थं ब्राह्मणाय पक्वान्नपूरितकुम्भदानमहं करिष्ये । तदङ्गं ब्राह्मणपूजनं कुम्भपूजनं च करिष्ये । कुम्भे वरुणं ब्राह्मणं च सम्पूज्य । स्वस्त्यस्तु, दीर्घ० । दानमन्त्र:-यत्कृतं मन्त्रतो हीनं यच्च भक्त्या विना कृतम् । यच्च दक्षिणया हीनं पूर्णं कुरु महेश्वर ॥ इदं पक्वान्नपूरितकुम्भदानं सदक्षिणाकं सताम्बूलं धान्यसहितं अमुकश० ब्राह्नणाय तु० । प्रति०, प्र० । तेन श्रीसाम्बसदाशिव: प्रीयताम् । कृतस्य कर्म० तत्सम्पू० अमुक सङ्ख्याकान् ब्राह्मणान् सुवासिनीश्च भोजयिष्ये । नानानामगोत्रान् ब्राह्मणान् गन्धादिभि: पूजयिष्ये, तेभ्यश्च भूयसीं दक्षिणां दातुमहमुत्सृजे । यस्य स्मृत्या० । अनेन महाशिवरात्रिनिमित्तपूजनख्येन कर्मणा श्रीशिवादय: प्रीयन्ताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP