संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ माघमास:| भीष्मतर्पणविधि: अथ माघमास: ढुण्ढिराजपूजनम रथसप्तम्यां स्नानविधि: सूर्यपूजनविधि: भीष्मतर्पणविधि: महाशिवरात्रिपूजाविधि: लघुरुद्राभिषेकसङ्कल्प: माघमास: - भीष्मतर्पणविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत भीष्मतर्पणविधि: Translation - भाषांतर ॥ माधशुक्लाष्टम्यां भीष्मतर्पणविधि: ॥अष्टमी च मध्याह्नव्यापिनी ग्राह्या । दिनद्वये चेत्परा । तस्यां प्रातर्नित्सकर्म समाप्य । आचम्य देशकालौ स्मृत्वा, मम संबत्सरोपात्तदुरितक्षयार्थं पुत्रपौत्राद्यनवच्छिन्नसन्ततिप्राप्त्यर्थं च माधशुक्लाष्टम्यां विहितं भीष्मतर्पणं करिष्ये । प्राचीनावीतिना तिलयुक्तजलेन पितृतीर्थेन द्वाभ्यां मन्त्रान्ते तर्पयेत् । भीष्म: शान्तनवो वीर: सत्यवादी जितेन्द्रिय: । आभिरद्भिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ॥१॥वैयाघपद्यगोत्राय साङ्कृत्यप्रवराय च । अपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे ॥२॥इति तर्पयित्वा, यज्ञोपवीत्याचम्यार्घ्यं दद्यात् । वसूनामवताराय शन्तनोरात्मजाय च । अर्ध्यं ददामि भीष्माय आबालब्रह्मचारिणे ॥३॥ब्रह्मपुत्र महाभाग शन्तनो: कुलनन्दन । अमोघागर्भसम्भूत गृहाणार्घ्यं नमोऽस्तु ते ॥ ति मन्त्रेण वा । अनेन मया कृतेन तर्पणेन भीष्म: प्रीयताम् । जीवत्पितृकेण तु आप्रकोष्ठात्प्राचीनावीतिना केवलेन जलेन शुक्लतिलयुतेन वा अवश्यं कार्यम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP